TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकचत्वारिंशोऽध्यायः

भविष्यपर्व - एकचत्वारिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


एकचत्वारिंशोऽध्यायः
हिरण्यकशिपोः तपः, वरप्राप्तिः, अत्याचारः, देवेभ्यः ब्रह्मणः आश्वासनं, भगवता विष्णुना नृसिंहस्य रूपं धारयित्वा हिरण्यकशिपोः सभायां गमनं, सभायाः वर्णनम्

वैशम्पायन उवाच
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥१॥
पुरा कृतयुगे राजन् हिरण्यकशिपुः प्रभुः ।
दैत्यानामादिपुरुषश्चकार सुमहत् तपः ॥२॥
दश वर्षसहस्राणि शतानि दश पञ्च च ।
जलवासी समभवत् स्थानमौनव्रतस्थितः ॥३॥
ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ।
ब्रह्मा प्रीतोऽभवत् तस्य तपसा नियमेन च ॥४॥
ततः स्वयम्भूर्भगवान् स्वयमागत्य तत्र ह ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥५॥
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिंनरैः ॥६॥
दिग्भिश्चाथ विदिग्भिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥७॥
देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यकृद्धिर्गन्धर्वैरप्सरोगणैः ॥८॥
चराचरगुरुः श्रीमान् वृतो देवगणैः सह ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥९॥
ब्रह्मोवाच
प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥१०॥
ततो हिरण्यकशिपुः प्रीतात्मा दानवोत्तमः ।
कृताञ्जलिपुटः श्रीमान् वचनं चेदमब्रवीत् ॥११॥
हिरण्यकशिपुरुवाच
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च निहन्युर्मां कथंचन ॥१२॥
ऋषयो नैव मां क्रुद्धाः सर्वलोकपितामह ।
शपेयुस्तपसा युक्ता वर एष वृतो मया ॥१३॥
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः ॥१४॥
न स्वर्गेऽप्यथ पाताले नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न चाप्यन्येन मे वधः ॥१५॥
पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्यः स मे मृत्युर्भविष्यति ॥१६॥
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥१७॥
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥१८॥
मूर्तिमन्ति च दिव्यानि ममास्त्राणि महाहवे ।
उपतिष्ठन्तु देवेश सर्वलोकपितामह ॥१९॥
पितामह उवाच
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वकामप्रदा वत्स दुर्लभास्त्वतिमानुषाः ।
सर्वान्कामानल्पभावात् प्राप्स्यसि त्वं न संशयः॥२०॥
वैशम्पायन उवाच
एवमुक्त्वा स भगवाञ्जगामाकाशमेव च ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥२१॥
ततो देवाश्च नागाश्च गन्धर्वा मुनिभिः सह ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥२२॥
देवा ऊचुः
वरेणानेन भगवन् वधिष्यति स नोऽसुरः ।
तत्प्रसीदस्व भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥२३॥
भवान् हि सर्वभूतानामादिकर्ता स्वयं प्रभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ॥२४॥
वैशम्पायन उवाच
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ॥२५॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ॥२६॥
एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि प्रतिजग्मुर्मुदान्विताः ॥२७॥
लब्धमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥२८॥
आश्रमेषु मुनीन्सर्वान् ब्राह्मणान् संशितव्रतान् ।
सत्यधर्मरतान् दान्तान् धर्षयामास वीर्यवान् ॥२९॥
देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥३०॥
यदा वरमदोन्मत्तश्चोदितः कालधर्मणा ।
यज्ञियानकरोद् दैत्यान् दैवतानप्ययज्ञियान् ॥३१॥
तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा ।
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः ॥३२॥
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ।
देवं वेदमयं यज्ञं ब्रह्मदेवं सनातनम् ॥३३॥
भूतं भव्यं भविष्यं च प्रजालोकनमस्कृतम् ।
देवा ऊचुः
नारायण महाभाग देव त्वां शरणं गताः ॥३४॥
त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥३५॥
त्वं पद्मामलपत्राक्ष शत्रुपक्षभयावह ।
क्षयाय दितिवंशस्याक्षयाय भव नः प्रभो ॥३६॥
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ।
विष्णुरुवाच
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ॥३७॥
तथैव त्रिदिवं देवाः प्रतिपत्स्यथ मा चिरम् ।
एष तं सगणं दैत्यं वरदानेन दर्पितम् ॥३८॥
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ।
वैशम्पायन उवाच
एवमुक्त्वा स भगवान् विसृज्य त्रिदिवौकसः ॥३९॥
वधं संकल्पयित्वा तु हिरण्यकशिपोः प्रभुः ।
सोऽचिरेणैव कालेन हिमवत्पार्श्वमागतः ॥४०॥
किं नु रूपं समास्थाय निहन्म्येनं महासुरम् ।
यत् सिद्धिकरमाशु स्याद् वधाय विबुधद्विषः ॥४१॥
अनुत्पन्नं ततश्चक्रे सोऽत्यन्तं रूपमास्थितः ।
नारसिंहमनाधृष्यं दैत्यदानवरक्षसाम् ॥४२॥
सहायं तु महाबाहुर्जग्राहोङ्कारमेव च ।
अथोङ्कारसहायोऽसौ भगवान् विष्णुरव्ययः ॥४३॥
हिरण्यकशिपोः स्थानं जगाम प्रभुरीश्वरः ।
तेजसा भास्कराकारः कान्त्या चन्द्र इवापरः ॥४४॥
नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं विभुः ।
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥४५॥
ततो ऽपश्यत् विस्तीर्णां दिव्यां रम्यां मनोरमाम् ।
सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥४६॥
विस्तीर्णो योजनशतं शतमध्यर्धमायताम् ।
वैहायसीं कामगमां पञ्चयोजनमुच्छ्रिताम् ॥४७॥
जराशोकक्लमत्यक्तां निष्प्रकम्पां शिवां शुभाम् ।
शुभासनवतीं रम्यां ज्वलन्तीमिव तेजसा ॥४८॥
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा ।
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ॥४९॥
नीलपीतासितश्यामैः सितैर्लोहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरीशतधारिभिः ॥५०॥
सिताभ्रघनसंकाशा प्लवन्तीवाप्सु दृश्यते ।
धन्यासनवती रम्या ज्वलन्ती इव तेजसा ॥५१॥
प्रभावती भास्वरा च दिव्यगन्धमनोरमा ।
न सुखा न च दुःखा सा न शीता न च घर्मदा ॥५२॥
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्ति हि ।
नानारूपैर्विरचिता विचित्रैरतिभास्वरैः ॥५३॥
स्तम्भैर्मणिमयैर्दिव्यैः शाश्वती चाक्षता च सा ।
अतिचन्द्रं च सूर्यं च पावकं च स्वयम्प्रभा ॥५४॥
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम् ।
सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः ॥५५॥
रसवन्तः प्रभूताश्च भक्ष्यभोज्यं तथाक्षयम् ।
पुण्यगन्धा स्रजस्तत्र नित्यपुष्पफलद्रुमाः ॥५६॥
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै ।
पुष्पिताग्रान् महाशाखान् प्रवालाङ्कुरधारिणः ॥५७॥
लतावितानसंच्छन्नान् सरित्सु च सरःसु च ।
मनोहरांश्च विविधान् ददर्श स तदा प्रभुः ॥५८॥
द्रुमान् बहुविधांस्तत्र मृगेन्द्रो ददृशे द्रुतम् ।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥५९॥
तानि शीतानि तोयानि तत्र तत्र सरांसि च ।
अपश्यत् सर्वतीर्थानि सभायां शतशो विभुः ॥६०॥
नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः ।
रक्तैः कुवलयैर्नीलैः कुमुदैः संयुतानि च ॥६१॥
सकान्तैर्धार्तराष्ट्रैश्च राजहंसैः सुरप्रियैः ।
कादम्बैश्चक्रवाकैश्च सारसैः कुररैरपि ॥६२॥
विमलस्फटिकाभानि पाण्डुराष्टदलानि च ।
कलहंसोपगीतानि सारिकाभिरुतानि च ॥६३॥
गन्धवत्यः शुभास्तत्र पुष्पमञ्जरिधारिणीः ।
दृष्टवान् पादपाग्रेषु नानापुष्पधरा लताः ॥६४॥
केतकाशोकसरलाः पुन्नागतिलकार्जुनाः ।
चूता नीपा नागपुष्पाः कदम्बबकुला धवाः ॥६५॥
प्रियङ्गुपाटलीवृक्षाः शाल्मल्यः सहरिद्रकाः ।
शालास्तालाः प्रियालाश्च चम्पकाश्च मनोरमाः ॥६६॥
तथा चान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः ।
वैद्रुमाश्च द्रुमानीका दावाग्निज्वलितप्रभाः ॥६७॥
स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः ।
अञ्जनाशोकवर्णाभा भान्ति वञ्जुलका द्रुमाः ॥६८॥
वरणा वत्सनाभाश्च पनसाश्चन्दनैः सह ।
नीलाः सुमनसश्चैव पीताम्लाश्वत्थतिन्दुकाः ॥६९॥
प्राचीनामलका लोध्रा मल्लिका भद्रदारवः ।
आम्रातकास्तथा जम्बूलकुचाः शैलवालुकाः ॥७०॥
सर्जार्जुनाः कन्दुरवाः पतङ्गाः कुटजास्तथा ।
रक्ताः कुरबकाश्चैव नीपाश्चागरुभिः सह ॥७१॥
कदम्बाश्चैव भव्याश्च दाडिमीबीजपूरकाः ।
कालीयका दुकूलाश्च हिङ्गवस्तैलपर्णिकाः ॥७२॥
खर्जूरा नालिकेराश्च पूगवृक्षा हरीतकी ।
मधूकाः सप्तपर्णाश्च बिल्वाः पारावतास्तथा ॥७३॥
पनसाश्च तमालाश्च नानागुल्मलतावृताः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः ॥७४॥
एते चान्ये च बहवस्तत्र काननजा द्रुमाः ।
नानापुष्पफलोपेता व्यराजन्त समन्ततः ॥७५॥
चकोराः शतपत्राश्च मत्तकोकिलसारिकाः ।
पुष्पितान् फलिताग्रांश्च सम्पतन्ति महाद्रुमान् ॥७६॥
रक्तपीतारुणास्तत्र पादपाग्रगता द्विजाः ।
परस्परमवैक्षन्त प्रहृष्टा जीवजीवकाः ॥७७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि नारसिंहे हिरण्यकशिपुसभावर्णने एकचत्वारिंशोऽध्यायः ॥४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:49:57.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Nelumbo nucifera Gaertn.

  • कमळ 
  • Indian lotus 
RANDOM WORD

Did you know?

सर्व धार्मिक कार्यांत आरंभी श्रीगणेशाची पूजा कां करतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.