TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
षड्विंशोऽध्यायः

भविष्यपर्व - षड्विंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


षड्विंशोऽध्यायः
मधोः विष्णोश्च घोरं युद्धं, देवेभिः ऋषिभिश्च श्रीविष्णोः स्तुतिः, हयग्रीवरूप धारकस्य विष्णुना मधोः वधं, पृथिव्या मेदिनी नाम प्राप्तिः

वैशम्पायन उवाच
बलवान् स तु दैतेयो मधुर्भीमपराक्रमः ।
बबन्ध पाशैर्निशितैर्महेन्द्रं पर्वतान्तरे ॥१॥
तं वै प्रह्लादवचनाल्लक्षणज्ञश्च भारत ।
ऐश्वर्यमैन्द्रमाकाङ्क्षन्भविष्यं बुद्धिसंक्षयात् ॥२॥
बद्ध्वेन्द्रं सहसा मध्ये पाशैर्मर्मविवर्जितैः ।
आयसैर्बहुभिश्चित्रैर्बलवद्भिर्विदारणैः ॥३॥
विष्णुमेवाग्रणी रुद्रमाह्वयद् युद्धकोविदः ।
मध्ये गणानां सर्वेषां कालस्य वशमागतः ॥४॥
द्वैधीभूताः काश्यपेया मधोर्वशमुपागताः ।
युद्धार्थमभ्यधावन्त प्रगृह्य विपुला गदाः ॥५॥
गन्धर्वाः किंनराश्चैव वाद्ये गीते च कोविदाः ।
प्रनृत्यन्ति प्रगायन्ति प्रहसन्ति च सर्वशः ॥६॥
तन्त्रीभिः सुप्रयुक्ताभिर्मधुराभिः स्वभावतः ।
मनो मधोर्विधुन्वन्ति युध्यमानस्य रागिणः ॥७॥
मधोर्बलार्थं मधुनो नियोगात् पद्मयोनिनः ।
एतान्विकरान्कुर्वन्ति गन्धर्वाः सत्यवादिनः ॥८॥
तत्र शक्तो हिं गान्धर्वे तस्मिञ्छब्दे मधुर्मनः ।
दानवाश्चासुराश्चैव प्रत्यक्षं यान्ति प्राणदन् ॥९॥
मधोश्च मन आक्षिप्य पश्यन् योगेन चक्षुषा ।
मन्दरं प्रयते विष्णुर्गूढोऽग्निरिव दारुषु ॥१०॥
ऋषयो दीप्तमनसं किंचिद् व्यथितमानसाः ।
पितामहं पुरस्कृत्य क्षणेनान्तरधीयत ॥११॥
विष्णुं सोऽभ्यहनत् क्रुद्धो मधुर्मधुनिभेक्षणः ।
भुजेन शङ्खदेशान्ते न चकम्पे पदात्पदम् ॥१२॥
विष्णुश्चाभ्यहनद् दैत्यं कराग्रेण स्तनान्तरे ।
स पपात महीं तूर्णं जानुभ्यां रुधिरं वमन् ॥१३॥
न चैनं पतितं हन्ति विष्णुर्युद्धविशारदः ।
बाहुयुद्धे हि समयं मत्वाचिन्त्यपराक्रमः ॥१४॥
इन्द्रध्वज इवोत्तिष्ठञ्जानुभ्यां स महीतलात् ।
मधु रोषपरीतात्मा निर्दहन्निव चक्षुषा ॥१५॥
परुषाभिस्ततो वाग्भिरन्योन्यमभिगर्जतुः ।
समीयतुर्बाहुयुद्धे परस्परवधैषिणौ ॥१६॥
उभौ तौ बाहुबलिनावुभौ युद्धविशारदौ ।
उभौ च तपसा शान्तावुभौ सत्यपराक्रमौ ॥१७॥
दृढप्रहारिणौ वीरावन्योन्यं विचकर्षतुः ।
शैलेन्द्राविव युद्ध्यन्तौ पक्षैः पाषाणसंनिभैः ॥१८॥
विकर्षन्तौ वमन्तौ च अन्योन्यं वसुधातले ।
गजाविव विषाणाग्रैर्नखाग्रैश्च विचेरतुः ॥१९॥
ततो व्रणमुखैश्चैव सुस्राव रुधिरं बहु ।
ग्रीष्मान्ते धातुसंसृष्टं शैलेभ्य इव काञ्चनम् ॥२०॥
संसिक्तौ रुधिरौघैश्च स्रवद्भिः समरंजितौ ।
अथाद्यतैः पदाग्रैश्च तौ व्यदारयतां महीम् ॥२१॥
अभिहत्य तु तौ वीरौ परस्परमनैकधा ।
पतङ्गाविव युध्येतां पक्षाभ्यां मांसगृद्धिनौ ॥२२॥
शुश्रुवुश्चान्तरिक्षेऽथ सर्वभूतानि पुष्करे ।
सिद्धानां वदनोन्मुक्ताः परया वर्णसम्पदा ॥२३॥
स्तुतयो विष्णुसंयुक्ताः सत्याः सत्यपराक्रमे ।
शरीरं धातुसंयुक्तं संयुक्तं चेतनेन च ॥२४॥
तद् ब्रह्म इन्द्रियैर्युक्तं तेजोभूतं सनातनम् ।
ध्रुवं तिष्ठन्ति भूतास्ते सूक्ष्मे प्रलयतां गते ॥२५॥
पुनश्चोद्भवते सूक्ष्मं बहुरूपमनेकधा ।
प्रबोध्य भावं भूतानां त्रिषु लोकेषु कामदः ॥२६॥
सुरूपो बहुरूपांस्ताँल्लोकान् संचरते वशी ।
मानसीं तनुमास्थाय बहुभिः कारणान्तरैः ॥२७॥
योगात्मा धारयन्नुर्वीं नागात्मानं दिवंधरः ।
ब्रह्म भूतं परं चैव सूक्ष्मेणात्मानमीश्वरः ॥२८॥
ब्राह्मेण विप्रान् वसति युद्धेनैव च क्षत्रियान् ।
प्रदानकर्मणा वैश्याञ्छूद्रान् परिचरेण च ॥२९॥
गावः क्षीरप्रदानेन अश्वान् यज्ञेषु प्रोक्षणैः ।
पितरश्चोष्मणैवेह हविर्भागेन देवताः ॥३०॥
चतुर्भिर्व्यतिरिक्ताङ्गैस्त्रिभिरन्यैश्च धातुभिः ।
सप्तभिः पितृभिर्नित्यैस्त्रीँल्लोकान् परिरक्षति ॥३१॥
चन्द्रसूर्यात्मकं नित्यं यथात्मनिहतात्मकम् ।
प्रकाश चाप्रकाशं च निगूढं स्वेन तेजसा ॥३२॥
त्रयस्तु पितरो नित्यं वर्धयन्ति दिवाकरम् ।
चतुर्भिः पितृभिश्चैव चन्द्रो वर्धति मण्डले ॥३३॥
त्रयः पितृगणा नित्यं पिण्डान् पश्चाददन्ति ते ।
चत्वारोऽन्ये पितृगणाः सिद्धाः पञ्च क आददे ॥३४॥
त्वमेव पञ्च तान्धर्मांस्त्वमेवापञ्च तान्विभो ।
सनातनमयो दिव्यः शाश्वतो ब्रह्मसम्भवः ॥३५॥
यस्मात्त्वत्तेज आदत्ते अग्निर्वायुश्च सर्वशः ।
अतस्त्वं कर्मणा तेन आदित्यः समपद्यत ॥३६॥
यदादत्सि जगत् सर्वं रश्मिभिः प्रदहन्निव ।
युगान्तकाले सम्प्राप्ते परां सिद्धिमुपागतः ॥३७॥
पक्षसंधावमावास्यां लोकं चरसि मानुषम् ।
ऋषिभिः सह गूढात्मा सूर्येन्दुवसुसम्भवैः ॥३८॥
सफलं कर्म कर्तॄणां यजतां पुष्टिवर्धनः ।
हेतूनामविकाराय मा भूत् कर्मविपर्ययः ॥३९॥
वनस्पत्यौषधीश्चैव युगपत् प्रतिपद्यसे ।
बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥४०॥
भूतानां भुवि भूतेश भाव्यर्थे वसुधातले ।
वसु यद् भुवि किंचिच्च सर्वं तत्त्वन्मयं विभो ॥४१॥
त्वमेव विविधं धर्मं शाश्वतं वसुधातले ।
देवयज्ञं मन्त्रवाक्यमात्मयज्ञं समानुषम् ॥४२॥
द्विविधः स्वर्गमार्गश्च सूर्यश्चन्द्रश्च निर्मलः ।
चन्द्रमाः पितृयानश्च देवयानश्च भास्करः ॥४३॥
त्वमेव वसुधायुक्तो विश्वं चरसि सीमया ।
एकीकृत्य गणान्सर्वान् संक्षिप्यामुत्र सम्भवः ॥४८॥
एकस्त्वमसि सम्भूतः पुराणपुरुषो विराट् ।
अक्षयश्चाप्रमेयश्च कर्मकारकरो वशी ॥४५॥
मूर्तस्तेजसि सम्भूतो वायुः पर्येति खेचरः ।
सप्तभी रूपसंस्थानैर्नित्यमावृत्य तिष्ठति ॥४६॥
साधने चापि निर्वाणे संहारे प्रलये तथा ।
धाता धारणकाले च दिशश्चक्षुषि धारिणि ॥४७॥
सेव्यमानो मुनिगणैर्नित्यं विगतकिल्बिषैः ।
कर्मभिः सत्यमापन्नैः समरागैर्जितेन्द्रियैः ॥४८॥
स्तूयमानश्च विबुधैः सिद्धैर्मुनिवरैस्तथा ।
सस्मार विपुलं देहं हरिर्हयशिरो महान् ॥४९॥
कृत्वा वेदमयं रूपं सर्वदेवमयं वपुः ।
शिरोमध्ये महादेवो ब्रह्मा तु हृदये स्थितः ॥५०॥
आदित्यरश्मयो बालाश्चक्षुषी शशिभास्करौ ।
जङ्घे तु वसवः साध्याः सर्वसंधिषु देवताः ॥५१॥
जिह्वा वैश्वानरो देवः सत्या देवी सरस्वती ।
मरुतो वरुणश्चैव जानुदेशे व्यवस्थिताः ॥५२॥
एवं कृत्वा तथा रूपं सुराणामद्भुतं महत् ।
असुरं पीडयामास क्रोधाद् रक्तान्तलोचनः ॥५३॥
मधोर्मेदोऽम्बुपूर्णा च पृथिवी समदृश्यत ।
प्रमदेव घना चैव शुक्लांशुकनिवासिनी ॥५४॥
मेदिनीत्येव शब्दश्च लब्धः पृष्ट्या नरोत्तम ।
नामासुरसहस्रेण धरण्यां सम्प्रतिष्ठितम् ॥५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे षड्विंशोऽध्यायः ॥२६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:31:41.8930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

submission and disposal

  • सादर करणे व निकालात काढणे 
RANDOM WORD

Did you know?

why treeepad veedhee ? narrate
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.