संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| अष्टादशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - अष्टादशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टादशोऽध्यायः Translation - भाषांतर योगस्य उपसर्गाः, योगिनः विष्णुरूपेण स्थितिः, कर्मलयात् मुक्तिः, सकामकर्मिणां धूममार्गेण गतिः पुनरावृत्ति च, ज्ञानिनं योगीं च तत्त्वस्य साक्षात्कारं, ब्रह्मयुगस्य वर्णनम्जनमेजय उवाचउपसर्गं च योगं च ध्यातव्यं चैव यत्पदम् ।न भूयः पुनरायाति मानुषं देहविग्रहम् ।सिद्धिं सिद्धिगुणांश्चैव श्रोतुमिच्छामि तत्त्वतः ॥१॥वैशम्पायन उवाचशृणु विस्तरतः सर्वं यथा पृच्छसि मेधया ।उपपन्नेन मनसा ब्रह्मादीनामनेकधा ॥२॥पञ्चसिद्धिगुणांस्त्यक्त्वा पश्यतो ब्रह्मणो नृप ।योगयुक्तेन मनसा पञ्चेन्द्रियनिवासिनः ॥३॥ब्रह्मणश्चिन्तयानस्य ब्रह्मयज्ञं सनातनम् ।बहुरूपमनैश्वर्यात् प्रवर्तति निरोधनम् ॥४॥पञ्चेन्द्रियस्य ग्रामस्य नवद्वारस्य भारत ।कामक्रोधस्य लोभस्य संनिरुद्धस्य मेधया ॥५॥तेजसा मूर्ध्नि चाधाय धूमो दोधूयते महान् ।नीललोहितवर्णाभैः पीतैः श्वेतैश्च धातुभिः ॥६॥माञ्जिष्ठरागवर्णाभैः कपोतसदृशैस्तथा ।शुद्धवैदूर्यवर्णाभैः पद्मरागसमप्रभैः ॥७॥स्फाटिकैर्मणिवर्णाभैनागेन्द्रसदृशैस्तथा ।इन्द्रगोपकवर्णाभैश्चन्द्रांशुसलिलप्रभैः ॥८॥बहुवर्णैः सुधूमौघैरिन्द्रायुधसमप्रभैः ।सम्पतद्भिश्च युगपन्मेघैरिव समागतः ।निरुध्यत इवाकाशं पक्षवद्भिरिवाद्रिभिः ॥९॥ते धूमवर्णाः संघाता घनाः सलिलधारिणः ।निर्वेमुश्चैव तोयौघान् विविशुर्वसुधातले ॥१०॥मूर्ध्नि चैव महानग्निर्मानसो धूयते प्रभुः ।युक्तः परमयोगेन शतशोऽर्चिभिरावृतः ॥११॥तस्यार्चेर्विस्फुलिङ्गानां सहस्त्राणि शतानि च ।विसस्रुः सर्वगात्रेभ्यो ज्वलन्निव युगाग्नयः ॥१२॥यावत्यो वर्षधारास्तु तावत्यो ऽर्च्यो ऽनलस्य च ।स्रमेयुर्वारिधाराभिर्विपुले वसुधातले ॥१३॥वर्णाभ्यां युज्यमानस्य वायुर्दोधूयते महान् ।दिव्यसिद्धगुणोद्भूतः सूक्ष्मप्राणविवर्धनः ॥१४॥वेगवान् भीमनिर्घोषो बलवान् प्राणगोचरः ।तैरेव चाग्निसंघातैर्धातुभिः सह संगतः ॥१५॥सहस्रशोऽथ शतशो मूर्तिं कृत्वा पृथग्विधाम् ।अग्निर्वायुर्जलं भूमिर्धातवो ब्रह्मचोदिताः ॥१६॥समवायत्वमापन्ना बीजभूता महीपते ।संघातं ब्रह्मवेगेन धातवो गमिता नृप ॥१७॥यद् ब्रह्म चक्षुपोर्मध्ये स सूक्ष्मः पुरुषो विराट् ।तयोरन्यान् बहून् सूक्ष्मान् ससृजे पुरुषोत्तमः ॥१८॥स एव भगवान्विष्णुर्व्यक्ताव्यक्तः सनातनः ।आधारः सर्वविद्यानां प्रलये प्रलयान्तकृत् ॥१९॥तं मूर्ध्नि धातुभिर्नद्धं विशन्ति ब्रह्मचोदिताः ।तेऽन्तराः पुरुषाः सर्वे ज्ञातारः सुखदुःखयोः ॥२०॥अथ चेष्टितुमारब्धा मूर्तयो ब्रह्मसम्मिताः ।भित्त्वा च धरणीं दैवीं प्रापद्यन्त दिशो दश ॥२१॥इत्येते पार्थवाः सर्वे ऋषयो ब्रह्मनिर्मिताः ।तत्रैव प्रलयं याता भूमित्वमुपयान्ति च ॥२२॥कर्मक्षयाद् विमुच्यन्ते धातुभिः कर्मबन्धनैः ।कर्मक्षयाद् विमुक्तत्वादिन्द्रियाणां च बन्धनात् ॥२३॥तामेव प्रकृतिं यान्ति अज्ञातां कर्मगोचरैः ।क्षराद् धूमक्षयं चैव अग्निगर्भास्तपोमयाः ॥२४॥येन तन्तुरिवाच्छन्नो भावाभावः प्रवर्तते ।धूमादभ्रास्तु सम्भूता अभ्रात्तोयं सुनिर्मलम् ॥२५॥जगती जलात्तु सम्भूता जगत्येव च यत्फलम्फलाद्रसस्तु संजज्ञे रसात्प्राणस्तु देहिनाम् ॥२६॥रसश्च तन्मयो जज्ञे यत्तद् ब्रह्म सनातनम् ।प्रधानं ब्रह्म चोद्दिष्टं बहुभिः कारणान्तरैः ।ब्राह्मणैस्तपसि श्रान्तैः सत्यव्रतपरायणैः ॥२७॥अव्यक्ताद् व्यक्तिमापन्नं स्वेन भावेन भारत ।अन्तःस्थं सर्वभूतेषु चरन्तं विद्यया सह ॥२८॥कर्म कर्तेति राजेन्द्र विषयस्थमनेकधा ।नोपलभ्येत चक्षुर्भ्यां तपसा दग्धकिल्बिषैः ॥२९॥उपलभ्येत चक्षुर्भ्यो ज्ञानिभिर्ब्रह्मवादिभिः ।निःसृतस्तु भ्रुवोर्मध्यान्मेघमुक्त इवांशुमान् ॥३०॥चरद्भिः पक्षिवल्लोके निर्द्वन्द्वैर्निष्परिग्रहैः ।योगधर्मेण कौरव्य धुवमासाद्यते फलम् ॥३१॥प्रादुर्भावं क्षयं चैव भूतस्य निधनं तथा ।विधत्ते शतशो ब्रह्मा संक्षये च भवेत् तदा ॥३२॥कर्मणः कर्म योगज्ञो भूतेभ्यो नात्र संशयः ।अविनाशाय लोकस्य धर्मस्याप्यायनेन च ॥३३॥युगं द्वादशसाहस्रं सहस्रयुगसंहितम् ।एतद् ब्रह्मयुगं नाम युगानां प्रथमं युगम् ॥३४॥सहस्रयुगयोरन्ते संहारः प्रलयान्तकृत् ।सूक्ष्मं भवति लोकानां निर्विकारमचेतनम् ॥३५॥तथा प्रलयमापन्नं जगत् सर्वं सनातनम् ।ब्रह्म सम्पद्यते सूक्ष्मं निर्मितं कारणैर्गुणैः ॥३६॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे अष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP