संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| दशमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - दशमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण दशमोऽध्यायः Translation - भाषांतर एकार्णवे भगवतः मार्कण्डेयेन सह संवादम्वैशम्पायन उवाचएवमेकार्णवीभूते शेते लोके महाद्युतिः ।प्रच्छाद्य सलिलं सर्वं हरिर्नारायणः प्रभुः ॥१॥महतो रजसो मध्ये महार्णवसमस्य वै ।विरजस्को महाबाहुरक्षरं ब्रह्म यं विदुः ॥२॥आत्मरूपप्रकाशेन तपसा संवृतः प्रभुः ।त्रिकमास्थाय कालं तु ततः सुष्वाप सोऽव्ययः ॥३॥पुरुषो यज्ञ इत्येवं यत्परं परिकीर्तितम् ।यथान्यत्पुरुषाख्यं स्यात्सर्वं तत्पुरुषोत्तमः ॥४॥ये च यज्ञपरा विप्रा ऋत्विजा इति संज्ञिताः ।आत्मदेहात्पुरा भूता यज्ञेभ्यः श्रूयतां तदा ॥५॥ब्रह्माणं परमं वक्त्रादुद्गातारं च सामगम् ।होतारमथ चाध्वर्युं बाहुभ्यामसृजत् प्रभुः ॥६॥ब्राह्मणो ब्राह्मणत्वाच्च सम्प्रस्तारं च सर्वशः ।तन्मित्रं वरुणं सृष्ट्वा प्रतिष्ठातारमेव च ॥७॥उदरात् प्रतिहर्तारं पोतारं चैव भारत ।अच्छावाकं मनोरूभ्यां नेष्टारं चैव भारत ॥८॥पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च यज्ञियम् ।ग्रावाणमथ बाहुभ्यामुन्नेतारं च यज्ञियम् ॥९॥एवमेवैष भगवान् पोडशैताञ्जगत्पतिः ।प्रवक्तॄन् सर्वयज्ञानामृत्विजोऽसृजदुत्तमान् ॥१०॥तदेष वै वेदमयः पुरुषो यज्ञसम्मितः ।वेदाश्च तन्मयाः सर्वे साङ्गोपनिषदक्रियाः ॥११॥स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्तदा ।श्रूयते तद् यथावृत्तं मार्कण्डेयो यदन्वभूत्॥१२॥जीर्णो भगवतस्तस्य कुक्षावेव महामुनिः ।बहुवर्षसहस्रायुस्तस्यैव वरतेजसा ॥१३॥इति तीर्थप्रसङ्गेन पृथ्वीतीर्थगोचरः ।आश्रमानपि पुण्यांश्च तीर्थान्यायतनानि च ॥१४॥देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च ।जपहोमरतः क्षान्तस्तपो घोरं समाश्रितः ॥१५॥मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद् विनिःसृतः ।निष्क्रामन्तं न चात्मानं जानीते देवमायया ॥१६॥निष्क्रान्तस्तस्य वदनादेकार्णवमथो गतः ।सर्वतस्तमसाच्छन्नं मार्कण्डेयो निरीक्षते ॥१७॥तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते ।देवदर्शनसंहृष्टो विस्मयं चागमत् परम् ॥१८॥संचिन्तयति मध्यस्थो मार्कण्डेयोऽतिशङ्कितः ।किंस्विद्भवेदियं चिन्ता मोहः स्वप्नोऽनुऽभूयते ॥१९॥व्यक्तमन्यतमो भावो ह्येतेषां भविता मम ।न हीदृशमसंश्लिष्टमयुक्तं सत्यमर्हति ॥२०॥नष्टचन्द्रार्कपवने छन्नपर्वतभूतले ।कतमः स्यादयं लोक इति चिन्ताव्यवस्थितः ॥२१॥अपश्यच्चापि पुरुषं शयानं पर्वतोपमम् ।तोयाढ्यमिव जीमूतं मध्ये मग्नं महार्णवे ॥२२॥तपन्तमिव तेजोभिर्भास्वन्तमिव वर्चसा ।जाग्रन्तमिव गाम्भीर्याच्छ्वसन्तमिव पन्नगम् ॥२३॥स देवं प्रष्टुमायाति कौ भवानिति विस्मयात् ।तथैव च शनैर्भूयो मुनिः कुक्षिं प्रवेशितः ॥२४॥स प्रविष्टः पुनः कुक्षौ मार्कण्डेयः सुनिश्चितः ।तथैव चरते भूयो विजानन् स्वप्नदर्शनम् ॥२५॥स तथैव यथापूर्वं पृथिवीमटते पुनः ।पुण्यतीर्थानि पूतानि निरैक्षद् दिवि भूतले ॥२६॥क्रतुभिर्यजमानांश्च समाप्तवरदक्षिणैः ।पश्यते देवकुक्षिस्थान्यज्ञियाञ्छतशो द्विजान् ॥२७॥सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः ।चत्वारश्चाश्रमाः सम्यग् यथोद्दिष्टपदानुगाः ॥२८॥वर्षाणां शतसाहस्रं मार्कण्डेयो महामुनिः ।विचरन् पृथिवीं कृत्स्नां न च कुक्ष्यन्तमैक्षत ॥२९॥ततः कदाचिदथ वै पुनर्वक्त्राद् विनिःसृतः ।सुप्तं न्यग्रोधशाखायां बालमेकं निरीक्षते ॥३०॥यथा चैकार्णवजले नीहारेण वृतान्तरे ।अव्यक्तभीषणे लोके सर्वभूतविवर्जिते ॥३१॥स भूयो विस्मयाविष्टः कौतूहलसमन्वितः ।बालमादित्यसंकाशं न शक्नोत्युपसर्पितुम् ॥३२॥सोऽचिन्तयदथैकान्ते स्थित्वा सलिलसंनिधौ ।पूर्वदृष्टमिदं नेति शङ्कितो देवमायया ॥३३॥अगाधे सलिल स्तब्धे मार्कण्डेयः प्लवन्मुनिः ।न शान्तिं लभते तत्र श्रमात् संत्रस्तविक्लवः ॥३४॥तथैव भगवान् हंसो गतो योगेन बालताम् ।बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥३५॥श्रीभगवानुवाचमा भैर्वत्स न भेतव्यमिहैवायाहि चान्तिकम् ।मार्कण्डेय मुने धीर बालस्त्वं श्रमपीडितः ॥३६॥मार्कण्डेय उवाचको मां नाम्ना कीर्तयते तपः परिभवन् मम ।बहुवर्षसहस्रायुर्धर्षयंश्चैव मे वयः ॥३७॥न ह्येष समुदाचारो देवेष्वपि समाहितः ।मां ब्रह्मापि स विश्वेशो दीर्घायुरिति भाषते ॥३८॥कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः ।मार्कण्डेयेति मां प्रोक्त्वा मृत्युमीक्षितुमिच्छति ॥३९॥वैशम्पायन उवाचएवमाभाषते क्रोधान्मार्कण्डेयो महामुनिः ।अथैनं भगवान् भूयो बभाषे तत्परायणम् ॥४०॥श्रीभगवानुवाचअहं ते जनको वत्स हृपीकेशः पिता गुरुः ।आयुःप्रदाता पौराणः किमर्थं नोपसर्पति ॥४१॥मां पुत्रकामः प्रथमं पिता ते ह्यङ्गिरा मुनिः ।पूर्वमाराधयामास तपस्तीव्रमुपाश्रितः ॥४२॥ततस्त्वां घोरशिरसं दहनोपमतेजसम् ।दत्तवानहमात्मेष्टं महर्षिममितायुषम् ॥४३॥तत्र नोत्सहते चान्यो यो न भूतो ममात्मकः ।द्रष्टुमेकार्णवगतं क्रीडन्तं योगधर्मिणम् ॥४४॥वैशम्पायन उवाचततः प्रसन्नवदनो विस्मयोत्फुल्ललोचनः ।मूर्घ्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ॥४५॥नामगोत्रं ततः श्रुत्वा दीर्घायुर्लोकपूजितः ।अथाकरोन्नमस्कारं प्रणतः शिरसा प्रभुम् ॥४६॥मार्कण्डेय उवाचइच्छेऽहं तत्त्वत्तो मायामिमां ज्ञातुं तवानघ ।यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥४७॥किंसंज्ञः कश्च भगवाँल्लोके विज्ञायसेऽनघ ।तर्कये त्वां महाभूतं न भूतमिह तिष्ठति ॥४८॥श्रीभगवानुवाचअहं नारायणो ब्रह्मा सम्भवः सर्वदेहिनाम् ।सर्वभूतोद्भवकरः सर्वभूतविनाशनः ॥४९॥अहमैन्द्रे पदे शक्र ऋतूनामपि वत्सरः ।अहं युगे युगाक्षश्च युगस्यावर्त एव च ॥५०॥अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि च ।भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम् ॥५१॥अहं सहस्रशीर्षा द्यौर्यः पदैरभिसंवृतः ।आदित्यो यज्ञपुरुषो देवो यज्ञमयो मखः ।अहमग्निर्हव्यवाहे यादसां पतिरव्ययः ॥५२॥यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ।बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुच्यते ॥५३॥ज्ञानवान् दृष्टविश्वात्मा योगिनां योगवित्तमः ।कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः ॥५४॥अहं कर्म क्रिया जीवः सर्वेषां धर्मदर्शनः ।निष्क्रियः सर्वभूतेषु स्वात्मज्योतिः सनातनः ॥५५॥प्रधानं पुरुषो देवोऽहमाद्यस्त्वक्षयोऽव्ययः ।अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥५६॥अहं हयशिरो देवः क्षीरोदे यो महार्णवे ।ऋतं सत्यं च परममहमेकः प्रजापतिः ॥५७॥अहं सांख्यमहं योगमहं तत्परमं पदम् ।अहमिज्यो भवश्चाहमहं विद्याधिपः स्मृतः ॥५८॥अहं ज्योतिरहं वायुरहं भूमिरहं नभः ।अहमापः समुद्राश्च नक्षत्राणि दिशो दश ।अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः ॥५९॥क्षीरोदः सागरश्चाहं समुद्रो वडवामुखः ।वह्निः संवर्तको भूत्या पिबंस्तोयमयं हविः ॥६०॥अहं पुराणं परमं तथैवेह परायणम् ।अहं भूतस्य भव्यस्य वर्तमानस्य सम्भवः ॥६१॥यत्किंचित्पश्यसे चैव यच्छृणोषि च किंचन ।यच्चानुभवसे लोके तत् सर्वं मामकं स्मृतम् ॥६२॥विश्वं सृष्टं मया पूर्वं सृजेयं चाद्य पश्य माम् ॥।युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् ॥६३ ॥ ।तदेतदखिलं सर्वं मार्कण्डेयावधारय ।शुश्रूषुर्मम धर्मेप्सुः कुक्षौ चर सुखी भव ॥६४॥मम ब्रह्मा शरीरस्थो देवाश्च ऋषिभिः सह ।ब्यक्तमव्यक्तयोगं मामवगच्छापराजितम् ॥६५॥अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव सर्वशः ।त्रिपदश्चैव परमस्त्रिवर्गार्थनिदर्शनः ॥६६॥वैशम्पायन उवाचएवमेतत् पुराणेषु वेदान्ते च महामुनिः ।वक्त्रे व्याहृतवानाशु मार्कण्डेयं महामुनिम् ।प्रवेशयामास ततो जठरं विश्वरूपधृक् ॥६७॥ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ।रराम सुखमासाद्य शुश्रूषुर्हंसमव्ययम् ॥६८॥तदक्षरं विविधमथाश्रितो वपु-र्महार्णवे व्यपगतचन्द्रभास्करे ।शनैश्चरन्प्रभुरपि हंससंज्ञितो-ऽसृजज्जगद्विसृजति कालपर्यये ॥६९॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे मार्कण्डेयकर्तृकभगवद्दर्शने दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP