संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| सप्तविंशत्यधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - सप्तविंशत्यधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर गोवर्धनपर्वतस्य समीपे हंसडिम्भकाभ्यां सार्द्धं यादवानां युद्धं, श्रीकृष्णेन भूतेश्वरानां पराजयं, श्रीकृष्णहंसयोः घोरं युद्धम्वैशम्पायन उवाचउभौ तौ हंसडिम्भकौ रात्रावेव महागिरिम् ।जग्मतुः सहितौ राजन् गोवर्धनमथो नृप ॥१॥अथ प्रभाते विमले सूर्ये चाभ्युदिते सति ।गोवर्धनं जगामाशु केशवः केशिसूदनः ॥२॥शैनेयो बलभद्रश्च यादवाः सारणादयः ।गन्धर्वैरप्सरोभिश्च नादितं बहुधा गिरिम् ॥३॥जग्मुस्ते सहिता राजन् गोवर्धनमथो गिरिम् ।गोधनैरथ सैन्यैश्च नादितं वहुधा गिरिम् ॥४॥तस्योत्तरं नृपश्रेष्ठ पार्श्वं सम्प्राप्य यादवाः ।निकषा यमुनां राजंस्ततो युद्धमवर्तत ॥५॥विव्याध हंसडिम्भकौ वसुदेवश्च सप्तभिः ।सारणः पञ्चविंशत्या दशभिः कङ्क एव च ॥६॥हंसेन डिम्भकेनाथ यादवैश्च समन्ततः ।उग्रसेनस्त्रिसप्तत्या शराणां नतपर्वणाम् ॥७॥विराटस्त्रिंशता राजन् सात्यकिश्चापि सप्तभिः ।अशीत्या विपृथू राजन्नुद्धवो दशभिः शरैः ॥८॥प्रद्युम्नस्त्रिंशता राजन्साम्बश्चापि च सप्तभिः ।अनाधृष्टिस्त्वेकषष्ट्या शराणां नतपर्वणाम् ॥९॥एवं ते सहिता राजंश्चक्रुर्युद्धमदीनवत् ।अत्यद्भुतं महाघोरं यादवाः सर्व एव हि ॥१०॥चक्रुस्ताभ्यां महायुद्धं वासुदेवस्य पश्यतः ।सर्वानपि महाराज यादवान् बलदर्पितान् ॥११॥तावुभौ हंसडिम्भकौ नृपांस्तान् प्रत्यविध्यताम् ।प्रत्येकं दशभिर्विद्ध्वा बाणैर्निशितनिर्मलैः ॥१२॥जघ्नतुश्च शरैस्तीक्ष्णैरत्यर्थं यादवेश्वरान् ।व्यथिताः सर्व एवैते वमन्तः शोणितं बहु ॥१३॥माधवे किंशुका राजन् पुष्पिता इव ते बभुः ।भीताश्च यादवा राजन् पलायनपरायणाः ॥१४॥एतस्मिन्नन्तरे राजन् वसुदेवात्मजो नृप ।वासुदेवो हली युद्धे प्रमुखे धन्विनौ तयोः ॥१५॥चक्रतुर्युद्धमतुलं स्कन्दशक्राविवाम्बरे ।तयोरेव सगन्धर्वाः सिद्धा यक्षा महर्षयः ॥१६॥विमानस्थाश्च ददृशुर्युद्धं देवासुरोपमम् ।ततः प्रादुरभूतां तौ दूतौ भूतेश्वरौ नृप ॥१७शूलिना प्रेषितौ युद्धे रक्षार्थं बलिनोस्तयोः ।हंसोऽथ वासुदेवश्च युद्धं चक्रतुरीश्वरौ ॥१८॥रामश्च डिम्भकश्चैव संयुक्तौ युद्धकाङ्क्षया ।विक्रान्ताः सर्व एवैते ह्यस्त्रे शस्त्रे तथा बले ॥१९॥शङ्खान् दध्मुः पृथग्घ्रादं स्वे स्वे सर्वे रथे स्थिताः ।अथ कृष्णो हृषीकेशः पाञ्चजन्यं महारवम्॥२०॥दध्मौ पद्मपलाशाक्षः सर्वान् विस्मापयन्निव ।अथ भूतौ महाघोरौ लम्बोदरशरीरिणौ ॥२१॥दुद्रुवतुर्महाराज शूलमादाय केशवम् ।शूलेन पोथयां राजञ्चक्रतुर्यादवेश्वरम् ॥२२॥ताभ्यां समाहतो विष्णुर्देवगन्धर्वसंनिधौ ।ईषत्स्मिताधरो देवः किंचिदुत्प्लुत्य सत्वरम् ॥२३॥रथाद् रथिवरश्रेष्ठस्तौ प्रगृह्य जनार्दनः ।भ्रामयित्वा शतगुणमलातमिव केशवः ॥२४॥कैलासं च समुद्दिश्य प्रचिक्षेप ततो हरिः ।तावुपेत्य गिरेः शृङ्गं कैलासस्य महामते ॥२५॥दृष्ट्वा तत्कर्म देवस्य विस्मयं जग्मतुः परम् ।हंसश्च दृष्ट्वा तत्कर्म रोषताम्रायतेक्षणः ॥२६॥उवाच वचनं हंसः शृण्वतां त्रिदिवौकसाम् ।किमर्थं राजसूयस्य विघ्नं चरसि केशव ॥२७॥ब्रह्मदत्तो महीपालो यष्टा तस्य महाक्रतोः ।करं दिश यथायोगं यदि प्राणान् हि रक्षसि ॥२८॥अथवा त्वं क्षणं तिष्ठ ततो ज्ञात्वा परं बहु ।ददासि त्वं नन्दपुत्र ततो यष्टा स मे गुरुः ॥२९॥ईश्वरोऽहं सदा राज्ञां देवानामिव शूलभृत् ।एष ते वीर्यमतुलं नाशयिष्यामि संयुगे ॥३०॥इत्युक्त्वा सशरं चापं शालतालोपमं नृप ।आकृष्य च यथाप्राणं नाराचेन च केशवम् ॥३१॥ललाटे चिक्षिपे हंसो ललाम इव सोऽभवत् ।उवाच सात्यकिं कृष्णो रथं वाहय मे प्रभो ॥३२॥दारुकं पृष्ठवाहं तं कृत्वा देशं तमीश्वरः ।अथ तेन समादिष्टः सात्यकिर्वाहयन् रथम् ॥३३॥मण्डलानि बहून्याजौ दर्शयामास सत्वरम् ।अथ विद्धो दृढं तेन शरेण हरिरीश्वरः ॥३४॥आग्नेयमस्त्रं संयोज्य शरे कस्मिंश्चिदव्ययः ।उवाच हंसं राजेन्द्र सात्यकिं प्रेरयन् रणे ॥३५॥अनेन त्वां दहे पाप यदि शक्तोऽसि वारय ।अलं ते बह्वबद्धेन क्षत्रियोऽसि सदा शठ ॥३६॥मत्तश्चेत् करमिच्छेस्त्वं दर्शयाद्य पराक्रमम् ।यतयो बाधिता हंस पुष्करे संस्थितास्त्वया ॥३७॥शास्ता त्वं खलु विप्राणां स्थिते मयि नराधम ।स्थिते मयि जगन्नाथे हत्वा क्षत्रियकण्टकान् ॥३८॥शास्तास्म्यथो सतां लोके दुष्टानां ब्रह्मविद्विषाम् ।शापेन यतिमुख्यानां हत एव नराधम॥३९॥मृत्यवे त्वां निवेद्याद्य रक्षिता ब्राह्मणानहम् ।इति ब्रुवंस्तदस्त्रं तु मुमोच युधि केशवः ॥४०॥तदस्त्रं वारुणेनाथ हंसोऽपि प्रत्यषेधयत् ।वायव्यमथ गोविन्दो मुमोच युधि हंसके ॥४१॥तदस्त्रं वारयामास माहेन्द्रेण नृपोत्तमः ।अथ माहेश्वरं कृष्णो मुमोचात्युग्रमाहवे ॥४२॥रौद्रेण तत् ततो हंसो वारयामास तत्क्षणात् ।गान्धर्वं राक्षसं चैव पैशाचमथ केशवः ॥४३॥ब्रह्मास्त्रमथ कौबेरमासुरं याम्यमेव च ।चत्वार्येतानि हंसस्तु मुमोच युधि सत्वरम् ॥४४॥वारणार्थं तदस्त्राणां चतुर्णां माधवस्य ह ।अथ ब्रह्मशिरो नाम घोरमस्त्रं विनाशकम् ॥४१॥मुमोच हंसमुद्दिश्य देवदेवो जनार्दनः ।योजयामास तद्धंसे महाघोरपराक्रमम् ॥४६॥अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तमः ।हंसोऽपि तेन राजेन्द्र वारयामास तं शरम् ॥४७॥यमुनाप उपस्पृश्य देवदेवो जनार्दनः ।अस्त्रं वैष्णवमादाय शरे स निशिते हरिः ॥४८॥योजयामास भूतात्मा भूतभावनभावनः ।येन देवा रणे हत्वा राज्यमापुः पुरासुरान् ।तदस्त्रं योजयामास वधार्थं तस्य भूपतेः ॥४९॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणिहंसडिम्भकोपाख्याने हंसकेशवयुद्धे सप्तविंशत्यधिकशततमोऽध्यायः॥१२७॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP