TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
चतुस्त्रिंशोऽध्यायः

भविष्यपर्व - चतुस्त्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


चतुस्त्रिंशोऽध्यायः
भगवता यज्ञवराहेण पृथिव्याः उद्धारः

वैशम्पायन उवाच
जगदण्डमिदं पूर्वमासीत् सर्वं हिरण्मयम् ।
प्रजापतेर्मूर्तिमयमित्येवं वैदिकी श्रुतिः ॥१॥
ततो वर्षसहस्रान्ते बिभेदोर्ध्वमुखं विभुः ।
लोकसंजननार्थाय बिभेदाण्डं पुनः पुनः ॥२॥
भूयोऽष्टधा बिभेदाण्डं प्रभुर्वै लोकयोनिकृत् ।
चकार जगतश्चात्र विभागं सर्वभागवित् ॥३॥
यच्छिद्रमूर्ध्वमाकाशं परा सुकृतिनां गतिः ।
विहितं विश्वयोगेन यदधस्तद् रसातलम् ॥४॥
यदण्डमकरोत् पूर्वं देवलोकसिसृक्षया ।
समन्तादष्टधा यानि च्छिद्राणि कृतवांस्तु सः ॥५॥
विदिशस्ता दिशः सर्वा मनसैवाकरोद् द्विधा ।
नानारागविरागाणि यान्यण्डशकलानि वै ॥६॥
बहुवर्णधराश्चित्रा बभूवुस्ते बलाहकाः ।
यदण्डमध्ये स्कन्नं तदृतमासीत् समाहितम् ७
जातरूपं तदभवत् तत् सर्वं पृथिवीतले ।
तस्य क्लेदार्णवौघेन प्राच्छाद्यत समन्ततः ॥८॥
पृथिवी निखिला राजन् युगान्ते सागरैरिव ॥९॥
यच्चाण्डमकरोत् पूर्वं देवलोकचिकीर्षया ।
तत्र तत्सलिलं स्कन्नं सोऽभवत् काञ्चनोगिरिः ॥१०॥
तेनाम्भसा प्लुताः सर्वा दिशश्चोपदिशस्तथा ।
अन्तरिक्षं च नाकं च यच्चान्यत् किंचिदन्तरम् ॥११॥
यत्र यत्र जलं स्कन्नं तत्र तत्र स्थितो गिरिः ।
शैलैः समस्तैर्गहना विषमा मेदिनी भवत् ॥१२॥
ते सपर्वतजालौघैर्बहुयोजनविस्तृतैः ।
पीडिता गुरुभिर्देवी पृथिवी व्यथिताभवत् ॥१३॥
महीतले भूरि जलं दिव्यं नारायणात्मकम् ।
हिरण्मयं समुद्दिष्टं तेजो विमलरूपितम् ॥१४॥
अशक्ता वै धारयितुमधः सा प्रविवेश ह ।
पीड्यमाना भगवतस्तेजसा तेन सा क्षितिः ॥१५॥
पृथिवीं विशतीं दृष्ट्वा तामधो मधुसूदनः ।
उद्धारार्थं मनश्चक्रे लोकानां हितकाम्यया ॥१६॥
श्रीभगवानुवाच
मत्तेज एव बलवत् समासाद्य तपस्विनी ।
रसातलं विशेद् देवी पङ्के गौरिव दुर्बला ॥१७॥
धरण्युवाच
त्रिविक्रमायामितविक्रमाय
महानृसिंहाय चतुर्भुजाय ।
श्रीशार्ङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥१८॥
त्वयाऽऽत्मना धार्यते वै त्वया संह्रियते जगत् ।
त्वं धारयसि भूतानां भुवनं त्वं बिभर्षि च ॥१९॥
यत्त्वया धार्यते किंचित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया पश्चात् तु धार्यते ॥२०
त्यया धृतं धारयामि नाधृतं धारयाम्यहम् ।
न हि तद् विद्यते रूपं यत्त्वया न तु धार्यते ॥२१॥
त्वमेव कुरुषे वीर नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया ॥२२
तवैव तेजसाऽऽक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम् ॥२३॥
दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपयामि सनातनम् ॥२४॥
तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशोऽप्युपलक्षये ॥२५॥
श्रीभगवानुवाच
मा भैर्धरणि कल्याणि शान्तिं व्रज समाहिता ।
एष त्वामुचितं स्थानमानयामि मनीषितम् ॥२६॥
वैशम्पायन उवाच
ततो महात्मा मनसा दिव्यं रूपमचिन्तयत् ।
किं नु रूपमहं कृत्वा उद्धरामि वसुन्धराम् ॥२७॥
जले निमग्नां धरणीं येनाहं वै समुद्धरे ।
इत्येवं चिन्तयित्वा तु देवस्त्वत्करणे मतिम् ॥२८॥
जलक्रीडारुचिस्तस्माद् वाराहं रूपमस्मरत् ।
हरिरुद्धरणे युक्तस्तदाभूदस्य भूमिभृत् ॥२९॥
अधृष्यं सर्वभूतानां वाङ्मयं ब्रह्मसम्मितम् ।
दशयोजनविस्तारमुच्छ्रितं शतयोजनम् ॥३०॥
नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ।
महागिरेः संहननं श्वेतदीप्तोग्रदंष्ट्रिणम् ॥३१॥
विद्युदग्निप्रतीकाशमादित्यसमतेजसम् ।
पीनवृत्तायतस्कन्धं दृप्तशार्दूलगामिनम् ॥३२॥
पीनोन्ततकटीदेशं वृषलक्षणपूजितम् ।
रूपमास्थाय विपुलं वाराहममितं हरिः ॥३३॥
पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ।
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ॥३४॥
वराह प्रतिमा - खजुराहो

अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ॥३५॥
वराह मुख - खजुराहो

आज्यनासः स्रुवातुण्डः सामघोषस्वरो महान् ।
सत्यधर्ममयः श्रीमान् क्रमविक्रमसत्कृतः ॥३६॥
क्रियासत्रमहाघोणः पशुजानुर्मखाकृतिः ।
उद्गात्रान्त्रो होमलिङ्गो बीजौषधिमहाफलः ॥३७॥
वाय्वन्तरात्मा मन्त्रस्पृग् विक्रमः सोमशोणितः ।
वेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ॥३८॥
प्राग्वंशकायो द्युतिमान् नानादीक्षाभिरर्चितः ।
दक्षिणाहृदयो योगी महासत्रमयो महान् ॥३९॥
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।
नानाछन्दोगतिपथो गुह्योपनिषदासनः ॥४०॥
छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः ।
भूत्वा यज्ञवराहोऽसौ युगपत्प्राविशद् गुरुः ॥४१॥
अद्भिः संछादितामुर्वीं स तामार्च्छत् प्रजापतिः ।
रसातलतले मग्नां पातालान्तरसंश्रयाम् ॥४२॥
प्रभुर्लोकहितार्थाय दंष्ट्राग्रेणोज्जहार गाम् ।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः ॥४३॥
मुमोच पूर्वं सहसा धारयित्वा धराधरः ।
ततो जगाम निर्वाणं मेदिनी तस्य धारणात् ॥४४॥
चकार च नमस्कारं तस्मै देवाय शम्भवे ।
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ॥४५ ।
उद्धृता पृथिवी देवी लोकानां हितकाम्यया ।
अथोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया ॥४६॥
पृथिवीप्रविभागाय मनश्चक्रेऽम्बुजेक्षणः ।
रसातलगतामेवं विचिन्त्य स सुरोत्तमः ॥४७॥
ततो विभुः प्रवरवराहरूपधृग्
वृषाकपिः प्रसभमथैकदंष्ट्रया ।
समुद्धरन् धरणिमतुल्यविक्रमो
महायशाः सकलहितार्थमच्युतः ॥४८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपवर्णि वाराहे पृथिव्युद्धरणे चतुस्त्रिंशोऽध्यायः ॥३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:43:51.7830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

एवढा

  • वि. 
  • इतका मोठा ; इतक्या आकाराचा , परिमाणाचा . 
  • इतका पहा . ( एवढा , जेवढा , तेवढा , केवढा , वगैरे शब्दांचा वर्ग आणि इतका , जितका , तितका , कितका वगैरे शब्दांचा वर्ग यांत फरक असा कीं पहिला आकार , गुण , परिमाण दाखवितो , तर दुसरा संख्यापरिमाण दर्शवितो . तथापि बोलण्यांत इतर शब्दांप्रमाणें या संबंधांतहि शैथिल्यानें हा भेद पाळला जात नाही . ) ( वाप्र . ) एवढ्याचें एवढें करुन सांगणें = फुगवून , तिखटमीठ लावून सांगणें . एवढ्यानदां = इतक्या मोठ्यानें , जोरानें किंवा मोठा आवाज करुन ; दणदिशी . [ सं . इयत ; प्रा . एवड ; सिं . उहडो ] 
  • ०वळ वेळ - क्रिवि . हा वेळ पावेतों ; हा सारा वेळ ; इतक्या उशीरां . [ एवढा + वेळ ] 
More meanings
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.