संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| द्वात्रिंशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - द्वात्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्वात्रिंशोऽध्यायः Translation - भाषांतर दक्षयज्ञविध्वंसःवैशम्पायन उवाचततो महति वृत्तान्ते स्थिते राज्ये महोदये ।देवतानां मनुष्याणां सहवासोऽभवत् तदा ॥१॥एकतः समधीयन्ति सहिताः प्ररुदन्ति च ।स्वयं च भागं गृह्णन्ति यज्ञकर्मणि भारत ॥२॥प्राचेतसं ततो दक्षं दीक्षित्वा वै बृहस्पतिः ।वाजिमेधाय भगवानृषिभिः परिवारितः ॥३॥तस्मिन् मातामहे यज्ञे दक्षस्य विदितात्मनः ।शामित्रमकरोद् रुद्रो भागार्थे सह नन्दिना ॥४॥रुद्रस्यैव हि तद् रूपं द्विधाभूतं तदीप्सया ।जातः परमधर्मात्मा नन्दी पुरुषविग्रहः ॥५॥तेन योगेन राजेन्द्र यत्तद् ब्रह्म सनातनम् ।विहितं सत्यवचनैस्तेनैव परमात्मना ॥६॥सरूपैश्चाप्यरूपैश्च विरूपाक्षैर्घटोदरैः ।ऊर्ध्वनेत्रैर्महाकायैर्विकटैर्वामनैस्तथा ॥७॥शिखिभिर्जटिभिश्चैव त्र्यक्षैश्च शङ्कुकर्णिभिः ।चीरिभिश्चर्मिभिश्चैव कूटमुद्गरपाणिभिः ॥८॥सघण्टाधारिभिश्चैव मुञ्जमेखलधारिभिः ।सहस्तकटकैश्चैव स्वर्णकुण्डलधारिभिः ॥९॥सडिण्डिमैः सभेरीयैः समृदङ्गैः सवेणुभिः ।एतैः परिवृतो देवो मखं तं समुपारुजत् ॥१०॥सशङ्खमुरजैश्चापि सतालफलपाणिभिः ।उप्रायुधधरो देवः सपिनाक इवान्तकः ॥११॥विरराजार्चिभिर्दीप्तैर्मखे मखवतां वरः ।कालाग्निरिव दीप्तार्चिर्जगद्दग्धुमिवोद्यतः ॥१२॥नन्दी पिनाकपाणिश्च जघ्नतुर्मखमुत्तमम् ।युगान्त इव कालाग्निः क्षिप्रं दग्धुमिवोद्यतः ॥१३॥यूपमुत्क्षिप्य धावन्ति निशाचरगणास्तथा ।त्रासयन् मुनिसंघांश्च चीरचर्मनिवासिनः ॥१४॥हवींष्यन्ये पिबन्त्येव जिह्वाभिस्ताम्रलोचनाः ।भक्षयन्ति पशूनन्ये रसनान्तावलम्बिभिः ॥१५॥मुमुचुश्चापरे यूपान् पशवः प्रहरन्ति च ।वह्निमध्ये प्रसिञ्चन्ति वारिभिः प्रशमाय च ॥१६॥सोममन्ये जहुः केचिन्नेत्रैस्ताम्रजपोपमैः ।दर्भान् केचिद् विलुम्पन्ति हस्तैः पद्मदलप्रभैः ॥१७॥बभञ्जिरे च यूपाग्रान् कलशांश्चापि चिक्षिपुः ।चिच्छिदुः काञ्चनान् वृक्षाञ्छोभार्थमुपकल्पितान्॥ ॥१८॥बिभिदुश्चैव बाणैस्ते मुमुचुश्च हिरण्मयान् ।लुलुपुश्चैव पात्राणि ममन्थुश्चारणीमपि ॥१९॥अरुजंश्चैव प्राग्वंशं लुलुपुश्च समाहिताः ।चखादिरे पुरोडाशान् नखाग्रैश्च चकर्तिरे ॥२०॥एवं दिवा च रात्रौ च भिद्यमानो महामखः ।चुक्रोश च महानादान् भिद्यमान इवार्णवः ॥२१॥धनुः सशरमादाय पूर्वदत्तं स्वयंभुवा ।कृतं कीचकवेणुभ्यां समरे सुमहारथः ॥२२॥प्रतिगृह्य महादेवः स शरैः समयोजयत् ।धनुर्विगृह्य जानुभ्यां जघान स महाक्रतुम् ॥२३॥स विद्धस्तेन बाणेन खं समुत्पतितः क्रतुः ।मृगो भूत्वा नर्दमानो ब्रह्माणमुपधावति ॥२४॥शरेणाभिहतस्त्राणं न लेभे प्रशमं भुवि ।शरणार्थी ह्ययं प्राप्तः शरेणान्तर्गतेन च ॥२५॥तमुवाच मृगं ब्रह्मा शुभं सानुनयं वचः ।स्वरेणोत्तमवीर्येण गम्भीरेण सुभाषिणा ॥२६॥एवंरूपो नभसि त्वं भविष्यसि महामृगः ।विजितश्च त्रिपर्वेण शरेणानतपर्वणा ॥२७॥तिष्ठन् नक्षत्रशिरसि सह रुद्रेण नित्यशः ।सोमेन सह संयुक्तो ह्यक्षयेणाव्ययेन च ॥२८॥दिवि संचारभूतो वै ताराभिः सह संगतः ।ज्योतिर्भूतो ज्योतिषां त्वं ध्रुवश्चैव महाध्रुवः ॥२९॥यच्चैतद् रुधिरं दिव्यं क्षतजादभिनिःसृतम् ।नभस्युत्पतितं चैव प्रवेगेन प्रधावतः ॥३०॥क्षतजं बहुवर्णं च क्षेत्रं मण्डलसंज्ञितम् ।निमित्तभूतं भूतानां वर्षे वर्षप्रदं तथा ॥३१॥सुखं दुःखं च भूतानां दर्शने सम्प्रवर्तते ।इन्द्रियश्रवणाच्चैव नभसीन्द्रायुधोऽभवत् ॥३२॥चक्षुषी मानुषे राजन् विस्मयात् समवैक्षत ।अद्भुतं बहुचित्रं च मनसा सम्प्रकल्पितम् ॥३३॥न तु रात्रौ प्रदृश्येत खे सब्रह्मणि संज्ञितम् ।दिनस्यैव सदा त्वग्रे महत्कार्यं प्रदृश्यते ॥३४॥भूमावेव समुत्तिष्ठेदाकाशे तु विलीयते ।शतशश्च समं सर्वे प्रधावन्ति प्रचेतसः ।भयाद् रुद्रस्य महतो धन्विनो बाणपाणयः ॥३५॥नन्दी रुद्रगणैः सार्द्धं पिनाकी समतिष्ठत ।युगान्तकाले ज्वलितो ब्रह्मदण्ड इवोद्यतः ॥३६॥विष्णुः शृङ्गसमुद्भूतं प्रगृह्य विपुलं धनुः ।प्रातिष्ठत महाबाहुः पाणिना चक्रमादधत् ॥३७॥गदां सघण्टामन्येन खड्गमन्येन पाणिना ।प्रगृह्य सोऽग्रतोऽतिष्ठद् रुद्रायोद्यतपाणये ॥३८॥ततः शृङ्गाग्रसम्भूतं प्रगृह्य विपुलं धनुः ।शङ्खं चाप्रतिमं लोके शरांश्चानतपर्वणः ॥३९॥विष्णुरग्रस्थितो भाति सबलः संहताङ्गुलिः ।बद्धगोधाङ्गुलित्राणः सचन्द्र इव तोयदः ॥४०॥आदित्या वसवश्चैव दिव्यैः प्रहरणैः सह ।विष्णुमेवाभितः सर्वे तिष्ठन्ति ज्वलनप्रभाः ॥४१॥मरुतश्चैव विश्वे च रुद्रमेवाभिपेदिरे ।गन्धर्वाः किन्नराश्चैव नागा यक्षाः सपन्नगाः ॥४२॥ऋषयो न्यस्तदण्डाश्च उभयोः पक्षयोर्हिताः ।जपन्ति शान्तये नित्यं लोकानां हितकाम्यया ॥४३॥रुद्रः शरेणाभ्यहनद् विष्णुमेवाग्रणी रणे ।हृदि सर्वाङ्गसन्धीषु तीक्ष्णाग्रेण सुयन्त्रिणा ॥४४॥न चकम्पे तदा विष्णुः सर्वात्मा ब्रह्मसम्भवः ।न च रोषमना नित्यं वृतः सर्वैः षडिन्द्रियैः ॥४५॥विष्णुश्च धनुरानम्य शरेण समयोजयत् ।जत्रुदेशे मुमोचाशु ब्रह्मदण्डमिवोद्यतम् ॥४६॥स विद्धस्तेन बाणेन महादेवो न कम्पते ।वज्रेण च महासन्धिर्मन्दरस्य न चाल्यते ॥४७॥ततः प्रसभमाप्लुत्य रुद्रं विष्णुः सनातनम् ।कण्ठे जग्राह भगवान् नीलकण्ठस्ततोऽभवत् ॥४८॥अनादिनिधनो देवो क्षमतां हि भवान्मम ।सर्वभूतागमाचार्यमचलत्वाच्च कर्मणाम् ॥४९॥कर्मणां चैव कर्ता च विकर्ता चैव भारत ।अशेषत्वाच्च भूतानां सर्वभूतेषु चोत्तमः ॥५०॥स्वयमेव हि यत् कर्म विधत्ते कर्मयोनिषु ।तयोः शुभतमो राजन् स्वयमेव तथाकरोत् ॥५१॥अन्तरिक्षाच्छुभा वाचः श्रूयन्ते परमाद्भुताः ।सिद्धानां वदनोन्मुक्ताः सनातन नमोऽस्तु ते ॥५२॥नन्दी पिनाकमुद्यम्य बलवान् रुद्रसम्भवः ।मूर्द्धन्यभिजघानाजौ विष्णुं क्रोधेन मूर्छितः ॥५३॥ततः प्रहसितो विष्णुर्नन्दीं दृष्ट्वा सुरोत्तमः ।स्तम्भयामास भगवान् सर्वभूतपतिर्हरिः ॥५४॥विष्णुर्ब्रह्मसमो भूत्वा तेजसा प्रज्वलन्निव ।क्षमया च समायुक्तः स्थितः स्थाणुरिवाचलः ॥५५॥अचिन्त्यश्चाप्रमेयश्च ह्यजेयश्चाप्यरिंदमः ।युगान्ताग्निसमो भूत्वा शान्तात्मा हरिरव्ययः ॥५६॥प्रसन्नः कल्पयामास भागं रुद्राय धीमते ।विष्णुर्धर्मपरो नित्यं त्यक्तकामः सुरोत्तमः ॥५७॥विष्णुना चैव राजेन्द्र स यज्ञः संधितः पुनः ।यथापक्षं च ते सर्वे गणास्त्वासन् महीपते ।तस्मिन् युद्धे महाघोरे विष्णू रुद्रस्य चैव ह ॥५८॥यथापक्षं भवेद् युद्धं दक्षयज्ञविनाशने ।विनाशश्चैव यज्ञस्य तदा लोके प्रतिष्ठितः ॥५९॥सर्वभूतेषु राजेन्द्र हितो यज्ञः सनातनः ।दक्षो यज्ञफलं चैव प्राप्तवान् स प्रजापतिः ॥६०॥इमां चोदाहृतां दिव्यां कथामिति स बुद्धिमान् ।श्रावयेद् यस्तु विप्रेभ्यः शुचिः प्रयतमानसः ॥६१॥अधीत्य सर्वमध्यात्मं देवलोके महीयते ।एष पौष्करको नाम प्रादुर्भावो महात्मनः ॥६२॥पुराणे पौष्करे चैव मया द्वैपायनेरितः ।यथावदनुपूर्वेण संस्कृतः परमर्षिभिः ॥६३॥यश्चैनमग्र्यं पुरुषः पुराणं सदाप्रमत्तः शृणुयाद् यथोक्तम् ।अवाप्य कामानिह वीतशोकः परत्र च स्वर्गफलानि भुङ्क्ते ॥६४॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP