संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| अष्टादशाधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - अष्टादशाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टादशाधिकशततमोऽध्यायः Translation - भाषांतर जनार्दनेन हंसं श्रीकृष्णदर्शनजनितस्य उल्लासस्य कथनं, द्वारकायां हंसस्य संदेशस्य प्रतिक्रियां वर्णयित्वा तं राजसूय अकरणस्य परामर्शं, हंसेन तं रोषपूर्वकं तिरस्कृ्त्य गमनस्यादेशं, तदनन्तरं सात्यकिना हंसं श्रीकृष्णस्य संदेशं श्रावयित्वा भर्त्सनम ।वैशम्पायन उवाचइत्युक्तवति हंसे च धर्मात्माथ जनार्दनः ।उवाच प्रहसन् वीरः स्तुवन् नारायणं सदा ॥१॥अद्राक्षमद्राक्षमहं जनार्दनं हस्तस्थशङ्खं वरचक्रधारिणम् ।आतप्तजाम्बूनदभूषिताङ्गदं स्फुरत्प्रभाद्योतितरत्नधारिणम् ॥२॥अद्राक्षमेनं यदुभिः पुरातनः संसेव्यमानं मुनिवृन्दमुख्यैः ।संस्तूयमानं प्रभुभिः समागधैः स्मितप्रवालाधरपल्लवारुणम् ॥३॥अद्राक्षमेनं कविभिः पुरातनैर्विविच्य वेद्यं विधिवत्सहामरैः ।प्रफुल्लनीलोत्पलशोभितं श्रिया विनिद्रहेमाब्जविराजितोदरम् ॥४॥भूयोऽहमद्राक्षमजं जगद्गुरुं प्रमोदयन्तं वचनेन यादवान् ।निरूपयन्तं विधिवन्मुनीश्वरैः प्रवृत्तवेदार्थविधिं पुरातनैः ॥५॥अद्राक्षमद्राक्षमहं पुनः पुनः समस्तलोकैकहितैषिणं हरिम् ।वसन्तमस्मिञ्जगतो हिताय जगन्मयं तान् परिभूय शत्रून् ॥६॥भूयोऽप्यपश्यं सह यादवेश्वरैर्विक्रीडमानं च विहारकाले ।रमन्तमीड्यं रमयन्तमीश्वरान् यदूत्तमान् यादवमुख्यमीश्वरम् ॥७॥भूयोऽप्यपश्यं सरसीरुहेक्षणं समेतया भीष्मतनूजया हरिम् ।वसन्तमम्भोनिधिशायिनं विभुं भक्तप्रियं भक्तजनास्पदं शिवम् ॥८॥अद्राक्षमद्राक्षमहं सुनिर्वृतः पिबन् पिबंस्तस्य वपुः पुरातनम् ।नेत्रेण मीलद्विवरेण केवलं धन्योऽहमस्मीति तदा व्यचिन्तयम् ॥९॥अद्राक्षमम्भोजयुगं दधानं प्रभुं विभुं भूतमयं विभावनम् ।आद्यं ककुद्मानमुरुं विभावसुं संस्मृत्य संस्मृत्य तमेव निर्वृतः ॥१०॥अद्राक्षं जगतामीशं वक्षोराजितकौस्तुभम् ।वीज्यमानं हरिं कृष्णं चामराणां शतैः सदा ॥११॥युवां विद्वेषयुक्तेन चेतसा यादवेश्वरम् ।स्मरन्तं सर्वदा विष्णुं क्व चैवं क्व च वेत्ति कः ॥१२॥क्व च द्रक्ष्यामि तौ मन्दौ कुतो वा मत्पुरोगतौ ।ध्यायन्तमित्थं देवेशं करे शङ्खवहं सदा ॥१३॥हसन्तमेनमद्राक्षं करदं हास्यतत्परम् ।वदन्तं नारदे वाचं दुर्वाससि यतीश्वरे ॥१४॥ब्रह्मसूत्रपदां वाणीं दापयन्तं मुनीश्वरम् ।दृष्ट्वाहं तं हरिं देवं पुनः पुनरचिन्तयम् ॥१५॥असाध्यमिदमारब्धं ताभ्यामिति नृपोत्तम ।नारब्धव्यमिदं कार्यमितःप्रभृति भूमिप ॥१६॥निवृत्ता सा कथा हंसाचिन्तयद् ग्रहणं तव ।तद् वृत्तमखिलं सर्वं वदिष्यति हि सात्यकिः ।एतद् वचनमाकर्ण्य हंसः कुद्धोऽब्रवीद् वचः ॥१७॥हंस उवाचअरे ब्राह्मणदायाद का नाम तव वागियम् ।आवयोः पुरतो वक्तुं त्रैलोक्यं जेतुमिच्छतोः ॥१८॥मायया त्वां भ्रामयति कृष्णो लीलाविधानवित् ।तं दृष्ट्वा भ्रम एवैष तव संजायते महान् ॥१९॥शङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ।वृष्णिवीरं समावेक्ष्य समुच्छ्रितयशोधरम् ॥२०॥सूतमागधसंस्तावप्रकटद्बाहुवीर्यकम् ।अत्यद्भुतयशोराशिं विक्रमाल्लोकमण्डनम् ॥२१॥चतुर्भुजं बलाक्रान्तं वृष्णियादवसम्मतम् ।अहोऽद्य भ्रम एवैष दर्शनात् तस्य चक्रिणः ॥२२॥इदानीं च महाराज भ्रामयत्येव दुर्मतिः ।त्वामेव विप्र मन्दात्मन्निन्द्रजालिकता हि या ॥२३॥चापल्यमिदमैवैतत् तव विप्र भ्रमोद्भवम् ।अहो हि खलु सादृश्यं वक्तव्यं भवता मम ॥२४॥अहमेव त्वया विप्र मर्षये प्रोदितं वचः ।सखिभावाद् द्विजश्रेष्ठ अन्यथा कः सहेदिदम् ॥२५॥गच्छ मन्दमते विप्र यथेष्टं साम्प्रतं तव ।द्विज गच्छ यथेष्टं त्वं पृथिवीं पृथिवी तव ॥२६॥जित्वा गोपालदायादं हत्वा यादवकान् बहून् ।एष नः प्रथमः कल्पो जेष्याम इति यादवान् ॥२७॥गच्छ गच्छेति विप्र त्वं धृष्टं परुषवादिनम् ।शत्रुपक्षस्तुतिपरं सह युक्त्वा सदा मया ॥२८॥न मे विप्रवधः कार्यः कष्टादपि हि सर्वतः ।इत्युक्त्वा ब्राह्मणं भूयो हंसः सात्यकिमब्रवीत् ॥२९॥भो भो यादवदायाद किमर्थं प्राप्तवानिह ।किमब्रवीन्नन्दसुतः किं वासौ मेऽदिशत् करम् ॥३०॥सात्यकिरुवाचइदं सत्यं वचो हंस शङ्खचक्रगदाभृतः ।शरैर्निशितधाराग्रैः शार्ङ्गमुक्तैः शिलाशितैः ॥३१॥दास्यामि करसर्वस्वमसिना निशितेन ते ।शिरश्छेत्स्यामि ते हंस करदानस्य संग्रहम् ॥३२॥धार्ष्ट्यं हि तव मन्दात्मन्किमतोऽपि नृपाधम ।देवदेवाज्जगन्नाथात् करमिच्छति यो नृपः ॥३३॥तस्यैष करसंक्षेपो जिह्वाच्छेदो नराधम ।तस्य शार्ङ्गरवं श्रुत्वा शङ्खस्य च हरेः पुनः ॥३४॥को नाम जीवितं काङ्क्षेत् तिष्ठेदानीं त्वमद्य वै ।गिरीशवरदर्पेण को ब्रूयादीदृशं वचः ॥३५॥सहाया वयमेवैते बलभद्रपुरोगमाः ।प्रथमो बलभद्रोऽसौ द्वितीयोऽहं च सात्यकिः॥३६॥कृतवर्मा तृतीयस्तु चतुर्थो निशठो बली ।पञ्चमोऽथ च बभ्रुस्तु षष्ठश्चैवोत्कलः स्मृतः ॥३७॥सप्तमस्तारणो धीमानस्त्रशस्त्रविशारदः ।अष्टमस्त्वथ सारङ्गो नवमो विपृथुस्तथा ॥३८॥दशमश्चोद्धवो धीमान् वयमेते बलान्विताः ।त एते पुरतो गोप्तुः शङ्खचक्रगदाभृतः ॥३९॥देवदेवस्य युद्धेषु तिष्ठन्त्येव दिवानिशम् ।यौ हि वीरौ सुतौ तस्य नासत्यसदृशौ बले ॥४०॥तावेव वां क्षमौ युद्धे हन्तुं बलमदान्वितौ ।यो गिरीशो गिरां देवो वरं दत्त्वा स तिष्ठति ॥४१॥युवां हि किंबलौ युद्धे तिष्ठतः सशरं धनुः ।गृहीत्वा शत्रुभिः सार्धं युद्धं कर्तुं समुद्यतौ ॥४२॥ईदृशेष्वथ भृत्येषु युद्धं कुर्वत्सु शत्रुभिः ।त्रैलोक्यं रक्षतस्तस्मात्करमिच्छन् व्रजेत कः ॥४३॥हनिष्यत्येव वां युद्धे त्रैलोक्यं यो हि रक्षति ।शरेण निशितेनाजौ शार्ङ्गमुक्तेन केवलम् ॥४४॥क्व नः संग्राम इत्येवं पुनराह जगत्पतिः ।पुष्करे पुण्यदे नित्यमुत गोवर्धने गिरौ ॥४५॥मथुरायां प्रयागे वा दर्शयन्तो बलानि मे ।शङ्खचक्रधरे देवे जगत्पालनतत्परे ॥४६॥राजसूयं महायज्ञं कर्तुमिच्छति कः स्वयम् ।वदन्वा स्वस्तिमान्मर्त्यस्त्वां विना को व्रजेत् सुखम् ॥४७॥इदमिच्छसि चेन्मूढ हास्यतां यासि भूतले ।इत्युक्त्वा सात्यकिर्वीरो हसन्निव भुवि स्थितः ॥४८॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिवाक्ये अष्टादशाधिकशततमोऽध्यायः ॥११८॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP