TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
सप्ताधिकशततमोऽध्यायः

भविष्यपर्व - सप्ताधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


सप्ताधिकशततमोऽध्यायः
सेनासहितस्य हंसडिम्भकाभ्यां पुष्करतटे विश्रमणं, महर्षेः कश्यपस्य वैष्णवसत्रस्य दर्शनं, दुर्वासादीनां यतीनां समुदाये गत्वा तेषां प्रति स्वअश्रद्धायाः प्रदर्शनम्

वैशम्पायन उवाच
जनार्दनश्च धर्मात्मा हंसो डिम्भक एव च ।
सदः प्रविश्य सत्रस्य नमश्चक्रुर्मुनीश्वरान् ॥१॥
तानागतान् महात्मानो मुनयः शिष्यसंयुताः ।
अर्घ्यपाद्यासनादीनि चक्रुः पूजां प्रयत्नतः ॥२॥
तौ नृपौ स च विप्रेन्द्रः सपर्यां प्रतिगृह्य च ।
प्रीतात्मानो महात्मान आसते ससुखं नृप ॥३॥
ततो हंसो बभाषे तान् मुनीन् संयतवाङ्नृप ।
पिता हि नौ मुनिश्रेष्ठा यष्टुमैच्छत् ससाधनम् ॥४॥
गन्तव्यं तत्र युष्माभिः सत्रान्ते मुनिसत्तमाः ।
राजसूयेन यज्ञेन कृत्वा दिग्विजयं वयम् ॥५॥
याजपिष्यामहे विप्राः पितरं धार्मिकं नृपम् ।
आयान्तु तत्र विप्रेन्द्राः सशिष्याः सपरिच्छदाः ॥६॥
वयमद्यैव सहितौ दिशो जेष्यामहे वयम् ।
शक्ता वयमिहैवैतत् कर्तुं सैनिकसंचयैः ॥७॥
आवयोः पुरतः स्थातुं न शक्ता देवदानवाः ।
कैलासनिलयाद् देवाद् वरं लब्धाः स्म यत्नतः ॥८॥
अजय्यौ शत्रुसंघानामस्त्राणि विविधानि च ।
इत्युक्त्वा विररामैव हंसो मदबलान्वितः ॥९॥
मुनय ऊचुः
यदि स्यात् तत्र गच्छामो वयं शिष्यैर्नृपोत्तम ।
आस्महे वान्यथा राजन्नित्यूचुः किल तापसाः ॥१०॥
वैशम्पायन उवाच
ततो देशान् महाराज गन्तुं निश्चितमानसौ ।
पुष्करस्योत्तरं तीरं दुर्वासा यत्र तिष्ठति ॥११॥
यतयो नियता भूत्वा मन्त्रब्रह्मनिषेविणः ।
ब्रह्मसूत्रपदे सक्तास्तदर्थालोकतत्पराः ॥१२॥
निर्ममा निरहंकाराः कौपीनाच्छादनव्रताः ।
तमात्मानं जगद्योनिं विष्णुं विश्वेश्वरं विभुम् ॥१३॥
ब्रह्मरूपं शुभं शान्तमक्षरं सर्वतोमुखम् ।
वेदान्तमूर्तिमव्यक्तमनन्तं शाश्वतं शिवम् ॥१४॥
नित्ययुक्तं विरूपाक्षं भूताधारमनामयम् ।
ध्यायन्तः सर्वदा देवं मनसा सर्वतोमुखम् ॥१५॥
दुर्वाससा सदोपास्यं वेदान्तैकरसं गुरुम् ।
तर्कनिश्चिततत्त्वार्था ज्ञाननिर्मलचेतसः ॥१६॥
हंसाः परमहंसाश्च शिष्या दुर्वाससः प्रभो ।
गत्वा तत्र महात्मानौ तौ दृष्ट्वा तूर्ध्वरेतसम् ॥१७॥
दुर्वाससं महाबुद्धिं विचिन्वानं परं पदम् ।
क्रुद्धो यदि स दुर्वासा दग्धुं लोकानिमान् क्षमः ॥१८॥
देवा अपि च यं द्रष्टुं क्रुद्धं वै न क्षमाः सदा ।
रोषमूर्तिः सदा यस्तु रुद्रात्मा विश्वरूपधृक् ॥१९॥
रक्तकौपीनवसनो हंसः परम एव च ।
दृष्ट्वैनं च तयोरेवं बुद्धिरासीन्महामते ॥२०॥
को नामासौ महाभूतः काषायी वर्णवित्तमः ।
कश्चायमाश्रमो नाम विहाय च गृहाश्रमम् ॥२१॥
गृहस्थ एव धर्मात्मा गृहस्थो धर्मवित्तमः ।
गृहस्थो धर्मरूपस्तु गृहस्थो वर्ण एव च ॥२२॥
गृहस्थश्च सदा माता प्राणिनां जीवनं खदा ।
तं विनान्येन रूपेण वर्तते योऽतिमूर्खवत् ॥२३॥
उन्मत्तोऽयं विरूपोऽयमथवा मूर्ख एव च ।
ध्यायन्निव सदा चायमास्ते वञ्चयितापि वा ॥२४॥
किमेते प्राकृतज्ञाना ध्यायन्त इति किंचन ।
वयमेतान् दुरारोहानाश्रमान्तरकल्पकान् ॥२५॥
स्थापयिष्यामहे सर्वान् मन्दबुद्धीनिमान् गृहे ।
बलादेव द्विजानेतान् मूढविज्ञानतत्परान् ॥२६॥
असद्ग्राहगृहीताश्च बालिशान् दुर्मतीनिमान् ।
एषां शास्ता च को मूढो न विप्रो वयमत्र ह ॥२७॥
धर्म्ये वर्त्मनि संस्थाप्य पुनर्यास्याव निर्वृतौ ।
इति संचिन्त्य तौ वीरौ विप्रेण सहितौ नृप ॥२८॥
जनार्दनेन राजानौ मोहाद् भाग्यक्षयान्नृप ।
समीपं तस्य राजेन्द्र यतेः संयतचेतसः ॥२९॥
गत्वा च प्रोचतुरुभौ दुर्वाससमतीन्द्रियम् ।
यतींश्च नियतान् क्रुद्धौ राजानौ राजसत्तम ॥३०॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सप्ताधिकशततमोऽध्यायः ॥१०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T14:55:17.6230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

damping

  • न. ओलसर करणे 
  • न. दमन 
  • न. अवमंदन 
  • न. अवमंदन 
More meanings
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.