संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| पञ्चदशाधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - पञ्चदशाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चदशाधिकशततमोऽध्यायः Translation - भाषांतर जनार्दनस्य सुधर्मासभायां गत्वा भगवतः श्रीकृष्णस्य दर्शनेन संतुष्टो भूत्वा तस्याज्ञया भगवत्स्तवनपूर्वकं हंसडिम्भकयोः संदेशस्य कथनम्वैशम्पायन उवाचस निवेदितसर्वस्वो द्वाःस्थेन हि जनार्दनः ।अथ प्रविश्य धर्मात्मा सुधर्मां वै द्विजोत्तमः ॥१॥अपश्यद् देवदेवेशं सुधर्माकृतिसंस्थितम् ।बलभद्रेण संयुक्तमध्यासितमहासनम् ॥२॥अग्रतः स्थितशैनेयं पार्श्वतः स्थितनारदम् ।दुर्वाससा कृतकथमुग्रसेनपुरस्कृतम् ॥३॥गायद्गन्धर्वमुख्यैश्च नृत्यदप्सरसां गणैः ।सेव्यमानं महाराज सूतमागधबन्दिभिः ॥४॥उद्गीयमानयशसं माधवं मधुसूदनम् ।उद्गीयमानं विप्रैश्च सामभिः सामगैर्हरिम् ॥५॥दृष्ट्वा प्रीतमना विष्णुं प्रोद्भूतपुलकच्छविः ।नाम्ना जनार्दनोऽस्मीति ननाम चरणौ हरेः ।बलभद्रं ततो देवं ववन्दे शिरसा द्विज ॥६॥दूतोऽस्मि देवदेवेश हंसस्य डिम्भकस्य च ।इति ब्रुवाणं विप्रेन्द्रमिदमाह स माधवः ॥७॥आस्स्वैदं विष्टरं पूर्वं पश्चाद् ब्रूहि प्रयोजनम् ।तथेति चाब्रवीद् विप्रो महदासनमास्थितः ॥८॥वाचा सम्पूज्य विप्रेन्द्रमपृच्छत्कुशलं हरिः ।ब्रह्मदत्तस्य राजेन्द्र हंसस्य डिम्भकस्य च ॥९॥श्रुतं चापि तयोर्वीर्यं प्रयोजनमतो द्विज ।अपि वा कुशलं विप्र पितुस्तव जनार्दन ॥१०॥जनार्दन उवाचकुशलं ब्रह्मदत्तस्य पितुश्च मम केशव ।तयोरेव जगन्नाथ हंसस्य डिम्भकस्य च॥११॥श्रीभगवानुवाचकिमाहतुर्महीपालौ तौ हंसडिम्भकौ नृपौ ।ब्रूहि सर्वमशेषेण नात्र शङ्का द्विजोत्तम ॥१२॥वाच्यं वाप्यथवावाच्यं कर्तव्यमथ चेतरत् ।श्रुत्वा तस्य विधास्यामो युक्तरूपं द्विजोत्तम ॥१३॥दूतोऽसि सर्वथा विप्र न वाच्यावाच्यकल्पना ।यत् कर्मकारनिर्दिष्टं तद् वाच्यं दूतजन्मना ॥१४॥नात्र शङ्का त्वया कार्या वक्तव्यस्येतरस्य च ।अतो वद यथा प्रोक्तं ताभ्यामिह जनार्दन ॥१५॥केशवेनैवमुक्तस्तु प्रोवाच स जनार्दनः ।अजानन्निव किं ब्रूषे सर्वं प्रत्यक्षदर्शिवान् ॥१६॥न चास्ति ते परोक्षं तु जगद्वृत्तान्तमच्युत ।सर्वं हि मनसा पश्यन् किं त्वमात्थ वदेति माम् ॥१७॥विद्वद्भिर्गीयसे विष्णुस्त्वमेव जगतीपते ।इच्छया सर्वमाप्नोषि दृष्टादृष्टविवेचनम् ॥१८॥त्वमेवेदं जगत् सर्वं जगच्च त्वयि तिष्ठति ।न त्वया रहितो ह्येकः पदार्थः सचराचरः ॥१९॥नास्ति किंचिदवेद्यं ते सर्वगोऽसि जगत्पते ।त्वमिन्द्रः सर्वभूतानां रुद्रः संहारकर्मकृत् ॥२०॥रक्षितासि सदा विष्णुः सर्वलोकस्य माधव ।संसारस्य भवान्स्रष्टा किं त्वमात्थ वदेति माम २१॥विद्वद्भिर्गीयसे नित्यं ज्ञानात्मेति च माधव ।प्राणं प्राणविदः प्राहुस्त्वामेव पुरुषोत्तम ॥२२॥शब्दं शब्दविदः प्राहुस्त्वामेव पुरुषोत्तम ।तथा सति हृषीकेश किं त्वमात्थ वदेति माम् ॥२३॥तथापि शृणु देवेश चोदितोऽस्मि यतस्त्वया ।वदेत्यसकृदेवैतत् तस्माद् वक्ष्यामि माधव ॥२४॥राजसूयेन यज्ञेन ब्रह्मदत्तोऽद्य यक्ष्यते ।तदर्थं प्रेषितस्ताभ्यां हंसेन डिम्भकेन च ॥२५॥करार्थं यदुमुख्येभ्यस्तव चामन्त्रणाय हि ।लवणं बहु देयं ते यज्ञार्थं तस्य केशव ॥२६॥इत्यर्थं प्रेषितस्ताभ्यां करं देहि तदाज्ञया ।इदं त्वमपरं ताभ्यामुक्तं शृणु जगत्पते ॥२७॥लवणानि बहून्याशु प्रगृह्य त्वरितं भवान् ।आगच्छतु तयो राज्ञोः सेयं केशव वाग् विभो ॥२८॥इत्युक्तवति विप्रेन्द्रे दूते तत्र तयोर्नृप ।प्रहस्य सुचिरं कृष्णो बभाषे दूतमीश्वरः ॥२९॥शृणु दूत वचो मह्यं युक्तमुक्तं द्विजोत्तम ।करं ददामि ताभ्यां तु करदोऽस्मि यतो नृपः ॥३०॥धार्ष्ट्यमेतत् तयोर्विप्र मत्तो यस्तु करग्रहः ।अहो धार्ष्ट्यमहो धार्ष्ट्यं तयोः क्षत्रियबीजयोः ॥३१॥इदमश्रुतपूर्वं मे मत्तो यस्तु करग्रहः ।इत्युक्त्वा केशवो दूतमिदमाह स्म यादवान् ॥३२॥हास्यमेतद् यदुश्रेष्ठा मत्तो यस्तु करग्रहः ।यष्टासौ राजसूयस्य ब्रह्मदत्तो महीपतिः ॥३३॥तौ तु याजयितारौ हि हंसो डिम्भक एव च ।वोढा किल यदुश्रेष्ठो लवणस्य दुरात्मनः ॥३४॥करदो वासुदेवो हि जितोऽस्मि यदुसत्तमाः ।हास्यं हास्यमिदं भूयः शृणुध्वं यादवा वचः ॥३५॥इत्युक्तवति देवेशे बलभद्रपुरोगमाः ।यादवाः सर्व एवैते हासाय समवस्थिताः ॥३६॥करदः कृष्ण इत्येवं ब्रुवन्तः सर्वसात्वताः ।हासं मुमुचुरत्यर्थं तलं दत्त्वा परस्परम् ॥३७॥तलशब्दो हासशब्दो रोदसी पर्यपूरयत् ।स च विप्रो नृपश्रेष्ठ निन्दयन् मित्रमात्मनः ॥३८॥अहो कष्टमहो कष्टं दौत्यं यत् कृतवानहम् ।इति लज्जासमाविष्टस्तूष्णीमासीदवाङ्मुखः ॥३९॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने वासुदेववाक्ये पञ्चदशाधिकशततमोऽध्यायः ॥११५॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP