संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| शततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - शततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण शततमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य द्वारकायां आगमनं, पौण्ड्रकेन सह तस्य वार्तालापम्वैशम्पायन उवाचततः प्रभाते विमले भगवान् देवकीसुतः ।गन्तुमैच्छज्जगन्नाथः पुरं बदरिकाश्रमात् ॥१॥नमस्कृत्य मुनीन् सर्वान् ययौ द्वारवतीं नृप ।आरुह्य गरुडं विष्णुर्वेगेन महता प्रभुः ॥२॥सुमहाञ्छुश्रुवे शब्दस्तेषां युद्धं प्रकुर्वताम् ।गच्छता देवदेवेन पुरीं द्वारवतीं नृप ॥३॥अचिन्तयज्जगन्नाथः को न्वयं शब्द उत्थितः ।संग्रामसम्भवो घोर आर्यशैनेयसंयुतः ॥४॥व्यक्तमागतवान् पौण्ड्रो नगरीं द्वारकामनु ।तेन युद्धं समभवत् पौण्ड्रकेण दुरात्मना ॥५॥यदूनां वृष्णिवीराणां युद्ध्यतामितरेतरम् ।शब्दोऽयं सुमहान् व्यक्तो नात्र कार्या विचारणा ॥६॥इत्येवं चिन्तयित्वा तु दध्मौ शङ्खं महारवम् ।पाञ्चजन्यं हरिः साक्षात् प्रीणयन् वृष्णिपुङ्गवान् ॥७॥रोदसी पूरयामास तेन शब्देन केशवः ।यादवा वृष्णयश्चैव श्रुत्वा शङ्खस्य ते रवम् ॥८॥व्यक्तमायाति भगवान् पाञ्चजन्यरवो ह्ययम् ।इति ते मेनिरे राजन् वृष्णयो यादवास्तथा ॥९॥निर्भयाः समपद्यन्त वृष्णयो यादवाश्च ते ।तस्मिन्नेव क्षणे दृष्टस्तार्क्ष्यश्च पततां वरः ॥१०॥ततश्च देवकीसूनुर्दृष्टस्तैर्यादवेश्वरः ।सूताश्च मागधाश्चैव पुरो यान्ति जगत्पतेः ॥११॥स्तुत्या स्तुतं हरिं विष्णुमीश्वरं कमलेक्षणम् ।गताश्च यादवाः सर्वे परिवव्रुर्जनार्दनम् ॥१२॥कृष्णस्तु गरुडं भूयो गच्छ त्वं नाकमुत्तमम् ।इत्युक्त्वा गरुडं विष्णुर्विसृज्य यदुनन्दनः ॥१३॥दारुकं पुनराहेदं रथमानय मे प्रभो ।स तथेति प्रतिज्ञाय रथमादाय सत्वरम् ॥१४॥रथोऽयं भगवन् देव किमतः कृत्यमस्ति मे ।इत्युक्त्वा रथमादाय प्रणम्याग्रे स्थितो हरेः ॥१५॥गतेऽथ गरुडे विष्णू रथमारुह्य सत्वरम् ।यत्र युद्धं समभवत् तत्र याति स्म केशवः ॥१६॥तत्र गत्वा महाराज युध्यतां च महात्मनाम् ।पाञ्चजन्यं महाशस्त्रं दध्मौ यदुवृषोत्तमः ॥१७॥पौण्ड्रोऽथ वासुदेवस्तु कृष्णं दृष्ट्वा रणोत्सुकम् ।सात्यकिं पृष्ठतः कृत्वा वासुदेवमुपागमत् ॥१८॥क्रुद्धोऽथ सात्यकी राजन् वारयामास पौण्ड्रकम् ।न गन्तव्यमितो राजन्नैष धर्मः सनातनः ॥१९॥जित्वा मां गच्छ राजेन्द्र परं योद्धुं महारणे ।क्षत्रियोऽसि महावीर स्थिते मयि रणोत्सुके ॥२०॥एष ते गर्वमखिलं नाशयिष्यामि संयुगे ।इत्युक्त्वा चाग्रतस्तस्थौ गच्छतो यादवेश्वरः ॥२१॥पौण्ड्रस्य शिनिनप्ता तु पश्यतः केशवस्य ह ।अवज्ञाय शिनेः पौत्रं कृष्णमेव जगाम ह ॥२२॥निर्भर्त्स्य सहसा भूयः सात्यकिः क्रोधमूर्च्छितः ।गदया प्राहरत् पौण्ड्रं वासुदेवस्य पश्यतः ॥२३॥यथाप्राणं यथायोगं सात्यकिः सत्यविक्रमः ।दृष्ट्वाथ भगवानेवं सात्यकिं प्रशशंस ह ॥२४॥निवार्य सात्यकिं कृष्णो यथेष्टं क्रियतामसौ ।उपारमद् यथायोगं सात्यकिः कृष्णवारितः ॥२५॥स ततः पौण्ड्रको राजा वासुदेवमुवाच ह ।भो भो यादव गोपाल इदानीं क्व गतो भवान् ॥२६॥त्वां द्रष्टुमथ सम्प्राप्तो वासुदेवोऽस्मि साम्प्रतम् ।हत्वा त्वां सबलं कृष्ण बलैर्बहुभिरन्वितः ॥२७॥अहमेको भविष्यामि वासुदेवो महीतले ।यच्चकं तव गोविन्द प्रथितं सुप्रभं महत् ॥२८॥अनेन मम चक्रेण पीडितोऽस्मि च तद्रणे ।चक्रमस्तीति तद्वीर्यं तव माधव साम्प्रतम् ॥२९॥नाशयिष्यामि तत् सर्वं सर्वक्षत्रस्य पश्यतः ।शार्ङ्गीति मां विजानीहि न त्वं शार्ङ्गीति शिष्यसे ॥३०॥शङ्खमस्तीति तद्वीर्यं तव माधव साम्प्रतम् ।शङ्खी चाहं गदी चाहं चक्री चाहं जनार्दन ॥३१॥मामेव हि सदा ब्रूयुर्जानन्तो वीर्यशालिनः ।आदौ त्वं बलवद् वृद्धान्हत्वा स्त्रीबालकान्बहून॥३२॥गाश्च हत्वा महागर्वस्तव सम्प्रति वर्तते ।तत् तेऽहं व्यपनेष्यामि यदि तिष्ठसि मत्पुरः ॥३३॥शस्त्रं गृहाण गोच्चिन्द्र यदि योद्धुं व्यवस्थितः ।इत्युक्त्वा बाणमादाय तस्थौ पार्श्वं जगत्पतेः ॥३४॥एतद् वचनमाकर्ण्य वासुदेवेन भाषितम् ।स्मितं कृत्वा हरिः कृष्णो बभाषे पौण्ड्रकं नृपम् ॥३५॥कामं वद नृप त्वं हि पातक्यस्मि सदा नृप ।गोघाती बालघाती च स्त्रीहन्ता सर्वथा नृप ॥३६॥चक्री भव गदी राजञ्छार्ङ्गी च सततं भव ।नामधेयं वृथा मह्यं वासुदेवेति च प्रभो ॥३७॥शार्ङ्गी चक्री गदी शङ्खीत्येवमादि वृथा मम ।किं तु वक्ष्यामि किंचित्तु शृणुष्व यदि मन्यसे ॥३८॥क्षत्रिया बलिनो ये तु स्थिते मयि जगत्पतौ ।तथानुब्रुवते त्वां हि जीवत्येव मयि प्रभो ॥३९॥यन्मे चक्रं महाघोरमसुरान्तकरं महत् ।तत्तुल्यं तव चक्रं तु वृत्ततो न तु वीर्यतः ।आयुधेष्वथ सर्वत्र शब्दसादृश्यमस्ति ते ॥४०॥गोपोऽहं सर्वदा राजन् प्राणिनां प्राणदः सदा ।गोप्ता सर्वेषु लोकेषु शास्ता दुष्टस्य सर्वदा ॥४१॥कत्थनं सर्वकार्यं हि जित्वा शत्रून् नृपाधम ।अजित्वा किं भवान् ब्रूते स्थिते मयि च शस्त्रिणि ॥४२॥हत्वा मां ब्रूहि राजेन्द्र यदि शक्तोऽसि पौण्ड्रक ।स्थितोऽहं चक्रमाश्रित्य रथी चापी गदासिमान् ॥४३॥रथमारुह्य युद्धाय सन्नद्धो भव मानद ।इत्युक्त्वा भगवान् विष्णुः सिंहनादं व्यनीनदत् ॥४४॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कृष्णपौण्ड्रकयुद्धे शततमोऽध्यायः ॥१००॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP