TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
द्विनवतितमोऽध्यायः

भविष्यपर्व - द्विनवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


द्विनवतितमोऽध्यायः
पौण्ड्रकस्य अन्तिके नारदस्यागमनं, तस्य सार्धं वार्तालापः

वैशम्पायन उवाच
ततः कैलासशिखरान्निर्गतो मुनिसत्तमः ।
नारदः सर्वलोकज्ञः पौण्ड्रस्य नगरं प्रति ॥१॥
अवतीर्य नभोभागात् प्रत्यागम्य नरोत्तमम् ।
द्वाःस्थेन च समाज्ञप्तः प्रविवेश गृहोत्तमम् ॥२॥
अर्घ्यादिसमुदाचारं नृपाल्लब्ध्वा महामुनिः ।
निषसादासने शुभ्रे ह्यास्तृते शुभवाससा ॥३॥
कुशलं पृष्टवान्भूयो नृपः स मुनिसत्तमम् ।
उवाच नारदं भूयः पौण्ड्रको बलगर्वितः ॥४॥
भवान् सर्वत्र कुशलः सर्वकार्येषु पण्डितः ।
प्रथितो देवसिद्धेषु गन्धर्वेषु महात्मसु ॥५॥
सर्वत्रगो निराबाधो गत्वा सर्वत्र सर्वदा ।
अगम्यं तव विप्रेन्द्र ब्रह्माण्डे न हि किंचन ।
नारदेदं वद त्वं हि यत्र यत्र गतो भवान् ॥६॥
तत्र तत्र तपःसिद्धो लोके प्रथितवीर्यवान् ।
पौण्ड्र एव च विख्यातो वासुदेवेति शब्दितः ॥७॥
शङ्खी चक्री गदी शार्ङ्गी खड्गी तूणी तनुत्रवान् ।
विजेता राजसिंहानां दाता सर्वस्य सर्वदा ॥८॥
भोक्ता राज्यस्य सर्वस्य शास्ता राजा बलाद् बली ।
अजेयः शत्रुसैन्यानां रक्षिता स्वजनस्य च ॥९॥
योऽद्य गोपकनामासौ वासुदेवेति शब्दितः ।
तस्य वीर्यबले न स्तो नाम्नोऽस्य मम धारणे ॥१०॥
स हि गोपो वृथा बाल्याद्धारयत्येव नाम मे ।
इदं निश्चिनु विप्रेन्द्र एक एव भवाम्यहम् ॥११॥
वासुदेवो जगत्यस्मिन् निर्जित्य बलिनं यदुम् ।
वृष्णीन्सर्वान् बलात् क्षिप्त्वा निहनिष्ये च तां पुरीम् ॥१२॥
द्वारकां विष्णुनिलयां योद्धा चाहं महामते ।
एते च बलिनः सर्वे नृपा मम समागताः ॥१३॥
अश्वाश्च वेगिनः सन्ति रथा वायुजवा मम ।
उष्ट्रा मत्ताः सहस्रं च गजा नियुतमेव च ॥१४॥
एतेनाहं बलेनाजौ हनिष्ये केशवं रणे ।
तस्मादेवं सदा विप्र वद ब्रह्मन् पुरे मम ॥१५॥
इन्द्रस्यापि सदा विप्र वद नारद साम्प्रतम् ।
प्रार्थनैषा मम विभो नमस्ये त्वां तपोधन ॥१६॥
नारद उवाच
सर्वत्रगः सदा चास्मि यावद् ब्रह्माण्डसंस्थितिः ।
आचार्यः सर्वकार्येषु गमने केनचिन्नृप ॥१७॥
किं नु वक्तुं तथा राजन्नुत्सहे नृपसत्तम ।
महीं शासति देवेशे चक्रपाणौ जनार्दने ॥१८॥
विष्णौ सर्वत्रगे देवे दुष्टान् हत्वा सबान्धवान् ।
वासुदेवेति को नाम तिष्ठत्यस्मिन् हराविति ॥१९॥
को नाम वक्तुमेवेदं कृष्णे शासति गोमती ।
अज्ञानाद् वक्तुमेवं च समर्थाः प्राकृता जनाः ॥२०॥
हरिः सर्वत्रगो विष्णुर्दर्पं ते व्यपनेष्यति ।
अचिन्त्यविभवो विष्णुः शार्ङ्गधन्वा गदाधरः ॥२१॥
आदिदेवः पुराणात्मा दर्प ते व्यपनेष्यति ।
हास्यमेतन्महाराज यच्च वै तत्र संस्थितम् ॥२२॥
शार्ङ्ग खड्गं तथा राजन् महाघोरं न दाप्यते ।
अतीव ह्रासकालोऽयं तव सम्प्रति वर्तते ॥२३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकनारदसंवादे द्विनवतितमोऽध्यायः ॥९२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T14:37:32.4970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

wage flexibility

  • वेतन नम्यता 
  • वेतन नम्यता 
RANDOM WORD

Did you know?

प्रासंगिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.