संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| द्वितीयोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - द्वितीयोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्वितीयोऽध्यायः Translation - भाषांतर राज्ञः जनमेजयस्य अश्वमेधयज्ञानुष्ठानस्य विचारं, व्यासस्य आगमनं, राज्ञा तस्य सत्कारं, भवता पाण्डवानां राजसूययागस्य अनुष्ठानात् कथं निषेधं न कृतं इति जनमेजयस्य प्रश्नं, उत्तररूपेण व्यासेन कालस्य प्राबल्यस्य प्रतिपादनम्शौनक उवाचउक्तोऽयं हरिवंशस्ते पर्वाणि निखिलानि च ।यथा पुरोक्तानि तथा व्यासशिष्येण धीमता ॥१॥तत्कथ्यमानममितमितिहाससमन्वितम् ।प्रीणात्यस्मानमृतवत् सर्वपापविनाशनम् ॥२॥सुखश्राव्यतया धीर मनो ह्लादयतीव नः ।जनमेजयस्तु नृपतिः श्रुत्वा चाख्यानमुत्तमम् ।सौते किमकरोत् पश्चात् सर्पसत्रादनन्तरम् ॥३॥सौतिरुवाचजनमेजयस्तु स नृपः श्रुत्वा चाख्यानमुत्तमम् ।यदारभत् तदाख्यास्ये सर्पसत्रादनन्तरम् ॥४॥तस्मिन्सत्रे समाप्तेऽथ राजा पारीक्षितस्तदा ।यष्टुं स वाजिमेधेन सम्भारानुपचक्रमे ॥५॥ऋत्विक्पुरोहिताचार्यानाहूयेदमुवाच ह ।यक्ष्येऽहं वाजिमेधेन हय उत्सृज्यतामिति ॥६॥ततोऽस्य विज्ञाय चिकीर्षितं तदा कृष्णो महात्मा सहसाऽऽजगाम ।पारीक्षितं द्रष्टुमदीनसत्त्वं द्वैपायनः सर्वपरावरज्ञः ॥७॥पारीक्षितस्तु नृपतिर्दृष्ट्वा तमृषिमागतम् ।अर्घ्यपाद्यासनं दत्त्वा पूजयामास शास्त्रतः ॥८॥तौ चोपविष्टावभितः सदस्यास्तस्य शौनक ।कथा बहुविधाश्चित्राश्चक्राते वेदसंहिताः ॥९॥ततः कथान्ते नृपतिर्नोदयामास तं मुनिम् ।पितामहं पाण्डवानामात्मनः प्रपितामहम् ॥१०॥महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।निमेषमात्रमपि मे सुखश्राव्यतया गतम् ॥११॥विभूतिविस्तारकरं सर्वेषां वै यशस्करम् ।त्वया सुविहितं ब्रह्मञ्शङ्खे क्षीरमिवाहितम् ॥१२॥अमृतेन तु तृप्तिः स्याद् यथा स्वर्गसुखेन च ।तथा तृप्तिं न गच्छामि श्रुत्वेमां भारतीं कथाम् ॥१३॥अनुमान्य तु सर्वज्ञं पृच्छामि भगवन्नहम् ।हेतुः कुरूणां नाशस्य राजसूयो मतो मम ॥१४॥दुःसहानां यथा ध्वंसो राजन्यानामुपप्लवे ।राजसूयं तथा मन्ये युद्धार्थमुपकल्पितम् ॥१५॥राजसूयस्य नु सोमेन श्रूयते पूर्वमाहृतः ।तस्यान्ते सुमहद् युद्धमभवत् तारकामयम् ॥१६॥आहृतो वरुणेनाथ तस्यान्ते सुमहाक्रतोः ।देवासुरं महायुद्धं सर्वभूतक्षयावहम् ॥१७॥हरिश्चन्द्रश्च राजर्षिः क्रतुमेनमुपाहरत् ।तत्राप्याडीबकं नाम युद्धं क्षत्रियनाशनम्॥१८॥ततोऽनन्तरमार्येण पाण्डवेनातिदुस्तरः ।महाभारत आरम्भः सम्भूतोऽग्निरिव क्रतुः ॥१९॥तदस्य मूलं युद्धस्य लोकक्षयकरस्य तु ।राजसूयो महायज्ञः किमर्थं न निवारितः ॥२०॥राजसूयो ह्यसंहार्यो यज्ञाङ्गैश्च दुरत्ययैः ।मिथ्या प्रणीते यज्ञाङ्गे प्रजानां संक्षयो ध्रुवः ॥२१॥भवानपि च सर्वेषां पूर्वेषां नः पितामहः ।अतीतानागतज्ञश्च नाथश्चादिकरश्च नः ॥२२॥ते कथं भवता नेत्रा बुद्धिमन्तश्च्युता नयात् ।अनाथा ह्यपराध्यन्ते कुनेतारश्च मानवाः ॥२३॥व्यास उवाचकालेन विपरीतास्ते तव पूर्वपितामहाः ।न मां भविष्यं पृच्छन्ति न चापृष्टो ब्रवीम्यहम् ॥२४॥सामर्थ्यं च न पश्यामि भविष्यस्य निवर्तने ।परिहर्तुं न शक्या हि कालेन विहिता गतिः ॥२५॥त्वया त्विदमहं पृष्टो वक्ष्याम्यागन्तु भावि यत् ।अतश्च बलवान् कालः श्रुत्वापि न करिष्यसि ॥२६॥न संरम्भान्न चारम्भान्न वै स्थास्यसि पौरुषे ।लेखा हि काललिखिताः सर्वथा दुरतिक्रमाः ॥२७॥अश्वमेधः क्रतुः श्रेष्ठः क्षत्रियाणां परिश्रुतः ।तेन भावेन ते यज्ञं वासवो धर्षयिष्यति ॥२८॥यदि तच्छक्यते राजन् परिहर्तुं कथंचन ।दैवं पुरुषकारेण मा यजेथाश्च तं क्रतुम् ॥२९॥न चापराधः शक्रस्य नोपाध्यायगणस्य ते ।तव वा यजमानस्य कालोऽत्र दुरतिक्रमः ॥३०॥तस्य संस्थाकृतमिदं कालस्य परमेष्ठिनः ।यथा दृष्टं प्रजासर्गे गमिष्यति युगक्षये ॥३१॥तथा यज्ञफलानां च विक्रेतारो द्विजातयः ।तत्प्रणेयं निबोधस्व त्रैलोक्यं सचराचरम् ॥३२॥जनमेजय उवाचनिवृत्तावश्वमेधस्य किं निमित्तं भविष्यति ।श्रुत्वा परिहरिष्यामि भगवन् यदि मन्यसे ॥३३॥व्यास उवाचनिमित्तं भविता तत्र ब्रह्मकोपकृतं प्रभो ।यतेथाः परिहर्तुं त्वमित्येतद् भद्रमस्तु ते ॥३४॥त्वया वृत्तं क्रतुं चैव वाजिमेधं परंतप ।क्षत्रिया नाहरिष्यन्ति यावद् भूमिर्धरिष्यति ॥३५॥जनमेजय उवाचनिवृत्तावश्वमेधस्य ब्रह्मशापाग्नितेजसा ।अहं निमित्तमिति मे भयं तीव्रं तु जायते ॥३६॥कथं ह्यकीर्त्या युज्येत सुकृती मद्विधो जनः ।लोकानुत्सहते गन्तुं खं सपाश इव द्विजः ॥३७॥यथा ह्यनागतमिदं दृष्टमत्र प्रणाशनम् ।यद्यस्ति पुनरावृत्तिर्यज्ञस्याश्वासयस्व माम् ॥३८॥व्यास उवाचउपात्तयज्ञो देवेषु ब्राह्मणेषूपपत्स्यते ।तेजसा व्याहतं तेजस्तेजस्येवावतिष्ठते ॥३९॥औद्भिज्जो भविता कश्चित्सेनानीः काश्यपो द्विजः ।अश्वमेधं कलियुगे पुनः प्रत्याहरिष्यति ॥४०॥तदन्ते तत्कुलीनश्च राजसूयमपि क्रतुम् ।आहरिष्यति राजेन्द्र श्वेतग्रहमिवान्तकः ॥४१॥यथाबलं मनुष्याणां कर्तॄणां दास्यते फलम् ।युगान्तद्वारमृषिभिः संवृतं विचरिष्यति ॥४२तदा प्रभृति हास्यन्ति नृणां प्राणाः पुराकृतीः ।न निवर्तिष्यते लोके वृत्तान्तावर्तनेष्विह ॥४३॥तदा सूक्ष्मो महोदर्को दुस्तरो दानमूलवान् ।चातुराश्रम्यशिथिलो धर्मः प्रविचलिष्यति ॥४४॥तदा ह्यल्पेन तपसा सिद्धिं प्राप्स्यन्ति मानवाः ।धन्या धर्मं चरिष्यन्ति युगान्ते जनमेजय ॥४५॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि जनमेजयप्रश्ने द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP