TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकोनपञ्चाशत्तमोऽध्यायः

भविष्यपर्व - एकोनपञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


एकोनपञ्चाशत्तमोऽध्यायः
वैशम्पायन उवाच॥
निशम्य तेषां वचनं महामतिर्बलिस्तदा प्रीतमना महाबलः॥
आज्ञापयामास स दैत्यकोटिं त्रैलोक्यमद्यैव जयाम सर्वम् ॥१॥
तस्य तद्वचनं श्रुत्वा बलेर्वैरोचनस्य तु॥
उद्योगं परमं चक्रुर्दानवा युद्धदुर्मदाः ॥२॥
महापद्मो निकुम्भश्च कुम्भकर्णश्च वीर्यं-
वान् ॥काञ्चनाक्षः कपिस्कन्धो मैनाकः क्षितिकम्पनः ॥३॥
शितकेशोर्ध्ववक्त्रश्च पद्मनाभः शिखी जटी॥
सहस्रबाहुर्विकटो व्याघ्राक्षः प्रियदर्शनः ॥४॥
एकाक्ष एकपान्मुण्डो विद्युदक्षश्चतुर्भुजः॥
गजोदरो गजशिरा गजस्कन्धो गवेक्षणः ॥५॥
अष्टदंष्ट्रश्चतुर्वक्त्रो मेघनादी जलंधरः॥
करालो ज्वालजिह्वास्यः शताङ्गः शतलोचनः ॥६॥
सहस्रपादः सुमुखः कृष्णश्चैव महासुरः॥
रणोत्कटो दानपतिः शैलकम्पी कुलाकुलिः ॥७॥
समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः॥
गोत्रजो गोक्षुरो रौद्रो गोदन्तः स्वस्तिको ध्रुवः ॥८॥
मांसलो मांसभक्षश्च वेगवान्केतुमाञ्छिबिः॥
पङ्कदिग्धशरीरश्च बृहत्कीर्तिर्महाहनुः ॥९॥
समप्रभो विकुम्भाण्डो विरूपाक्षो महोदरः॥
श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा चन्द्रतापनः ॥१०॥
विक्षरो दीर्घबाहुश्च मद्यपो मारुताशनः॥
तालजङ्घो महाभागः सरभः शलभः क्रथः ॥११॥
समुद्रमथनो नादी विततश्च महाबलः॥
प्रलम्बो नरको व्याली धेनुकः काललोचनः ॥१२॥
वरिष्ठश्च गरिष्ठश्च भूतलोमा तथा विभुः॥
दुष्प्रसादः किरीटी च सूचीवक्त्रो महासुरः ॥१३॥
वरिष्ठश्च गरिष्ठश्च भूतलोमा तथा विधुः ।
दुष्प्रसादः किरीटी च सूचीवक्त्रो महासुरः ॥१३॥
सुबाहुः कञ्जबाहुश्च करणः कलशोदरः ।
सोमपो देवयाजी च प्रवरो वीरमर्दनः ॥१४॥
सुपथः खण्डमुक्तिश्च शिखिनेत्रः शिखिध्वजः ।
यथास्मृति मया प्रोक्ता मरीचेः कीर्तिवर्धनाः ॥१५॥
एते चान्ये च बहवो नानाभूषणभूषिताः ।
रथौघैर्बहुसाहस्रैर्ययुर्योद्धुमरिंदमाः ॥१६॥
दिव्याम्बरधरा दैत्या दिव्यमाल्यानुलेपनाः ।
दिव्यैश्च कवचैर्नद्धा दिव्यैश्चैवोच्छ्रितैर्ध्वजैः ॥१७॥
दिव्यायुधधरा दैत्या गर्जमाना यथाम्बुदाः ।
बृहद्भी रथघोषैश्च चालयन्तो वसुंधराम् ॥१८॥
महाबला दिव्यबलास्त्रधारिणो
भुजङ्गभोगप्रतिभैर्महाभुजैः ।
सुदुर्जया दैत्यवृषाः सुरारयो
दितिप्रिया लोहितलोहितेक्षणाः ॥१९॥
ते जग्मुरर्कज्वलनेन्द्रवीर्या
महेन्द्रवज्राशनितुल्यवेगाः ।
विवृत्तदंष्ट्रा हरिधूम्रकेशा
विवर्धमानाः शरदीव मेघाः॥२०॥
सहस्रबाहुर्बाणश्च बलेः पुत्रो महाबलः ।
रथातिरथकोट्या वै संनह्यत महाबलः ॥२१॥
सर्वे मायाधरा दैत्याः सर्वे दिव्यास्त्रयोधिनः ।
सर्वे मदबलोत्सिक्ताः सर्वे लब्धवराः पुरा ॥२२॥
 सर्वे काञ्चनशैलाभाः पीतकौशेयवाससः ।
किरीटोष्णीषमुकुटा दिव्यभूषणभूषिताः ॥२३॥
हिरण्यकवचाः सर्वे हिरण्यध्वजकेतवः ।
स्यन्दनस्था व्यराजन्त शारदा इव खे ग्रहाः ॥२४॥
तापनीयैर्वरैर्निष्कैरनलज्वलितप्रभैः ।
हेमपर्वतशृङ्गस्थाः पुष्पिता इव किंशुकाः ॥२५॥
तेषां मध्यगतो बाणः प्रावृषीवोत्थितो घनः ।
स्थितः शक्तिगदापाणिस्त्रिनल्वप्रतिमे रथे ॥२६॥
विचित्राश्वध्वजयुगे चित्रभक्तिविराजिते ।
गदापरिघसम्पूर्णे हेमजालविभूषिते ॥२७॥
अन्वीयमानो दितिजैर्वालखिल्यैरिवांशुमान् ।
नानाप्रहरणैर्घोरैस्तीक्ष्णदंष्ट्रैरिवोरगैः ॥२८॥
पञ्च तस्य महावीर्या दानवा युद्धदुर्मदाः ।
ररक्षू रथमव्यग्रा व्यादितास्या भयावहाः ॥२९॥
सुबाहुर्मेघनादश्च भीमगर्भश्च वीर्यवान् ।
तथा कनकमूर्धा च वेगवान् केतुमानिति ॥३०॥
कनकरजतभक्तिचित्रपार्श्वे
पतगपतिप्रतिमे रथे स्थितोऽभूत् ।
जलदनिनदतुल्यनेमिघोषे
सुरगणसैन्यवधाय दानवेन्द्रः ॥३१॥
दनायुषायाः पुत्रस्तु बलो नाम महासुरः ।
वृतः शतसहस्रेण रथानां भीमवर्चसाम् ॥३२॥
युक्तमृक्षसहस्रेण रथमारुह्य वीर्यवान् ।
नीलायसमयं घोरं वायसाङ्कं सुदुर्जयम् ॥३३॥
नीलाम्बरधरः श्रीमान् वैदूर्याचलसंनिभः ।
महता रथवेगेन प्रययौ दानवस्तदा ॥३४॥
तत्रैकार्णवसंकाशे सैन्यमध्ये व्यराजत ।
प्रभातसमये श्रीमान् समुद्रस्य इवांशुमान् ॥३५॥
सुतप्तजाम्बूनदतुल्यवर्चसा
निशाकराकारतडिद्गुणाकरः ।
किरीटमुख्येन विभाति शोभिना
यथा गिरिः शृङ्गवरेण भास्वता ॥३६॥
षष्टी रथसहस्राणि नमुचेरसुरस्य वै ।
खरयुक्तानि सर्वाणि मेघतुल्यरवाणि च ॥३७॥
नानाप्रहरणाः सर्वे सर्वे ते चित्रयोधिनः ।
महाभ्रघनसंकाशा वेगवन्तो महाबलाः॥३८ ।
रथो व्याघ्रसहस्रेण युक्तः परमवेगवान् ।
नमुचेरसुरेन्द्रस्य सर्वरत्नविभूषितः ॥३९॥
शार्दूलचिह्नः शुशुभे तस्य केतुर्हिरण्मयः ।
रथमध्येऽसुरेशस्य मध्यंदिनरविर्यथा ॥४०॥
स भीमवेगश्च महाबलश्च
प्रगृह्य चापं हिमवानिव स्थितः ।
नीलाम्बरः काञ्चनपट्टनद्धो
दिशागजो यद्वदुपेतकक्षः ॥४१॥
किङ्किणीजालनिर्घोषं तपनीयविभूषितम् ।
सपताकध्वजोपेतं ससंध्यमिव तोयदम् ॥४२॥
चक्रैश्चतुर्भिः संयुक्तमष्टनल्वायतान्तरम् ।
हेमजालाकुलं दीप्तं कालचक्रमिवोदितम् ॥४३॥
नानायुधधरं घोरं व्याघ्रचर्मपरिष्कृतम् ।
ईहामृगगणाकीर्णं चित्रभक्तिविराजितम् ॥४४॥
तूणीरशरसम्पूर्णं शक्तितोमरसंकुलम् ।
गदामुद्गरसम्बाधं चापरत्नविभूषितम् ॥४५॥
युक्तमृक्षसहस्रेण लंबकेसरवर्चसा ।
राजतेन विकीर्णेन शोभितं सिंहकेतुना ॥४६॥
स तेन शुशुभे दैत्यो मयो मायाविसर्पिणा ।
रथरत्ने स्थितः श्रीमानुदयस्य इवांशुमान् ॥४७॥
विमलरजतबिन्दुशोभिताङ्गं
मणिकनकोज्ज्वलचारुभक्तिचित्रम् ।
अयुतशतसहस्रमूर्जितानां
मयमनुयाति तदा महारथानाम्॥४८॥

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे मयस्य युद्धाभिगमने एकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:56:21.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कर्मवाद

  • m  The doctrine that salvation is by works. 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.