TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
पञ्चनवतितमोऽध्यायः

भविष्यपर्व - पञ्चनवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


पञ्चनवतितमोऽध्यायः
पौण्ड्रकेन पूर्वद्वारस्य प्राकारचयानां भेदनस्य प्रयत्नं, सात्यक्यादि यादववीराणां रक्षार्थं आगमनम्, सात्यकिना वायव्यास्त्रेन पौण्ड्रकसैनिकान् अपनयित्वा पौण्ड्रकस्य युद्धाय आह्वानं, पौण्ड्रकस्य गर्वोक्तिः

वैशम्पायन उवाच
निवृत्तेष्वथ सैन्येषु वृष्णिवीरेषु चैव हि ।
भीतेष्वथ महाराज हतेषु युधि सर्वतः ॥१॥
दीपिकासु प्रशान्तासु निःशब्दे सति सर्वतः ।
जितमित्येव यन्मत्वा वृष्णीनां बलमुत्तमम् ॥२॥
ततः पौण्ड्रो महावीर्यो बभाषे सैनिकान् स्वकान् ।
शीघ्रं गच्छत राजेन्द्राष्टङ्कैः कुन्तैः पुरीमिमाम् ॥३॥
कुठारैः कुन्तलैश्चैव पाषाणैः सर्वतोदिशम् ।
कर्षणस्थैः सुपाषाणैः सर्वतो यात भूमिपाः ॥४॥
भिद्यन्तां प्राकारचयाः प्रासादाश्च समन्ततः ।
गृह्यन्तां कन्यकाः सर्वा दास्यश्चैव समन्ततः ॥५॥
गृह्यन्तां वसुमुख्यानि धनानि सुबहून्यथ ।
ते तथेति महात्मानो राजानः सर्व एव तु ॥६॥
कुठारैः सर्वतश्चैव चिच्छिदुः पौण्ड्रकाज्ञया ।
प्राकारांश्चैव सर्वत्र प्रासादान् नरसंचयान् ॥७॥
अथ तत्र महाशब्दः प्रादुरासीत् समन्ततः ।
टङ्केषु पात्यमानेषु प्राकारेषु महाबलैः ॥८॥
पूर्वद्वारे महाराज भिन्नाः प्राकारसंचयाः ।
श्रुत्वा शब्दं महाघोरं सात्यकिः क्रोधमूर्च्छितः ॥९॥
मयि सर्वं समारोप्य केशवो यादवेश्वरः ।
गतः कैलासशिखरं द्रष्टुं शंकरमव्ययम् ॥१०॥
अवश्यं हि मया रक्ष्या पुरी द्वारवती त्वियम् ।
इति संचिन्त्य मनसा धनुरादाय सत्वरम् ॥११॥
रथं महान्तमारुह्य दारुकस्य महात्मनः ।
पुत्रेण संस्कृतं घोरं यन्ता च स्वयमेव हि ॥१२॥
धनुर्महत् तदादाय शरांश्चाशीविषोपमान् ।
आमुच्य कवचं घोरं शस्त्रसम्पातदुःसहम् ॥१३॥
अङ्गदी कुण्डली तूणी शरी चापी गदासिमान् ।
ययौ युद्धाय शैनेयः संस्मरन् कैशवं वचः ॥१४॥
दीपिकादीपिते देशे ययौ सात्यकिरुत्तमः ।
तथैव बलदेवोऽपि रथमारुह्य भास्वरम् ॥१५॥
गदी शरी महावीर्यः प्रायाद् रणचिकीर्षया ।
सिंहनादं प्रकुर्वन्तो मुञ्चन्तो भैरवं रवम् ॥१६॥
उद्धवोऽपि बली साक्षाद् गजमारुह्य सत्वरम् ।
मत्तं महारवं घोरं संग्रामे नीतिमत्तरः ॥१७॥
ययौ नीतिं विचिन्वानः परां प्रीतिं महाबलः ।
अन्ये च वृष्णयः सर्वे ययुः संग्रामलालसाः ॥१८॥
रथान्गजान्समारुह्य हार्दिक्यप्रमुखास्तथा ।
दीपिकाभिश्च सर्वत्र पुरोवृत्ताभिरीश्वराः ॥१९॥
सिंहनादं प्रकुर्वन्तः स्मरन्तः कैशवं वचः ।
पूर्वद्वारं समागम्य वृष्णयो युद्धलालसाः ॥२०॥
ते समेत्य यथायोगं स्थितास्तत्र महाबलाः ।
स्थिते सैन्ये महाघोरे दीपिकादीपिते पथि ॥२१॥
शिनिर्वीरः शरी चापी गदी तूणीरवान्विभो ।
वायव्यास्त्रं समादाय योजयित्वा महाशरम् ॥२२॥
आकर्णं तूर्णमाकृष्य धनुःप्रवरमुत्तमम् ।
मुमोच परसैन्येषु शिनिर्वीरः प्रतापवान् ॥२३॥
वायव्यास्त्रेण ते सर्वे तत्रस्था नरसत्तमाः ।
विजिता ह्यस्त्रवीर्येण यत्र तिष्ठति पौण्ड्रकः ॥२४॥
तत्र गत्वा स्थिताः सर्वे निर्धूता वातरंहसा ।
यत्र पूर्वं स्थिताः सर्वे विद्रुता राजसत्तमाः ॥२५॥
तत्र स्थित्वा च शैनेयः शरमादाय सत्वरम् ।
निशितं सर्पभोगाभं बभाषे सात्यकिस्तदा ॥२६॥
क्व इदानीं महाबुद्धिः पौण्ड्रको राजसत्तमः ।
स्थितोऽस्मि व्यवसायेन शरी चापी महाबलः ॥२७॥
यदि द्रष्टा दुरात्मानं ततो हन्ता नृपाधमम् ।
भृत्योऽस्मि केशवस्याहं जिघांसुः पौण्ड्रकं स्थितः ॥२८॥
छित्त्वा शिरस्तु तस्यास्य सर्वक्षत्रस्य पश्यतः ।
बलिं दास्यामि गृध्रेभ्यः श्वभ्यश्चैव दुरात्मनः ॥२९॥
को नाम ईदृशं कर्म चौरवच्च समाचरेत् ।
सुप्तेषु निशि सर्वत्र यादवेषु महात्मसु ॥३०॥
चौरोऽयं सर्वथा राजा न हि राजा बलान्वितः ।
यदि शक्तो न कुर्याच्च चौर्यमेवं नृपाधमः ॥३१॥
अहोऽस्य बलिनो राज्ञश्चौरकार्यं प्रकुर्वतः ।
सर्वथाऽऽगमनं तस्य न हि पश्यामि साम्प्रतम् ॥३२॥
इत्युक्त्वा सात्यकिर्वीरः प्रजहास महाबलः ।
विस्फार्य सुदृढं चापं संदधे कार्मुके शरम् ॥३३॥
आकर्ण्य वचनं वीरः सात्यकेस्तस्य धीमतः ।
क्व नु कृष्णः क्व गोपालः कुतः सोऽथ प्रवर्तते ॥३४॥
स्त्रीहन्ता पशुहन्ता च क्व च स्वामीति सेवितः ।
स इदानीं क्व वर्तेत गृहीत्वा मम नाम तत् ॥३५॥
हन्ता सख्युर्महावीर्यो नरकस्य महात्मनः ।
ममैव तात युद्धेऽस्मिन्हते तस्मिन्दुरात्मनि ॥३६॥
गच्छ त्वं कामतो वीर योद्धुं न क्षमते भवान् ।
अथवा तिष्ठ किंचित्तु ततो द्रष्टासि मे बलम् ॥३७॥
शिरस्ते पातयिष्यामि शरैर्घोरैर्दुरासदैः ।
हतस्य तव वीरेह भूमिः पास्यति शोणितम् ॥३८॥
श्रोष्यते स तथा गोपो हतः सात्यकिरित्यपि ।
यो गर्वस्तस्य गोपस्य सर्वदा वर्तते महान् ॥३९॥
विनश्यति स तु क्षिप्रं हते त्वयि यदूत्तम ।
त्वयि रक्षां समादिश्य गोपः कैलासपर्वतम् ॥४०॥
गत इत्येवमस्माभिः श्रुतं पूर्वं महामते ।
शरं गृहाण निशितं यदि शक्तोऽसि सात्यके ।
इत्युक्त्वा बाणमादाय ययौ योद्धं व्यवस्थितः ॥४१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि रात्रियुद्धे सात्यकिपौण्ड्रकभाषणे पञ्चनवतितमोऽध्यायः ॥९५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T14:40:09.2300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

श्रेधीफल

  • श्रेढी , श्रेढीफल पहा . 
  • śrēdhīphala n S The sum of a series. 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.