संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
चतुर्नवतितमोऽध्यायः

भविष्यपर्व - चतुर्नवतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


यादववीरेभिः पौण्ड्रकस्य सैन्यस्य एवं एकलव्येन यादवसैन्यस्य संहारम्
वैशम्पायन उवाच
ततश्च यादवाः सर्वे दृष्ट्वा सैनिकसंचयम् ।
रात्रौ व व्यसनं प्राप्तं महाशस्त्रसमाकुलम् ॥१॥
महावातसमुद्भूतं कल्पान्ते सागरोपमम् ।
संनद्धाः समपद्यन्त शस्त्रिणो युद्धलालसाः ॥२॥
गृहीतदीपिकाः सर्वे यादवाः शस्त्रयोधिनः ।
सात्यकिर्बलभद्रश्च हार्दिक्यो निशठस्तथा ॥३॥
उद्धवोऽथ महाबुद्धिरुग्रसेनो महाबलः ।
अन्ये च यादवाः सर्वे कवचप्रग्रहे रताः ॥४॥
समस्तयुद्धकुशला रात्रौ सन्नाहयोधिनः ।
शस्त्रिणः खड्गिनश्चैव सर्वे शस्त्रसमाकुलाः ॥'५॥
युद्धाय समपद्यन्त बहवो बाहुशालिनः ।
रथिनो गजिनश्चैव सादिनः सायुधास्तथा ॥६॥
नित्ययुक्ता महात्मानो धन्विनः पुरुषोत्तमाः ।
निर्ययुर्नगरात् तूर्णं दीपिकाभिः समन्ततः ॥७॥
कुतः पौण्ड्रक इत्येवं वदन्तः सर्वसात्वताः ।
दीपिकादीपितो देशो निस्तमाः समपद्यत ॥८॥
ततो वितिमिरो देशः समन्तात् प्रत्यपद्यत ।
युद्धं समभवद् घोरं वृष्णिभिः शत्रुभिः सह ॥९॥
ततो महान् समभवत् संनादो रोमहर्षणः ।
हया हयैः समायुक्ताः गजाश्च गजयूथपैः ॥१०॥
रथा रथैः समायुक्ताः सादिभिः सादिनस्तथा ।
खड्गिनः खड्गिभिः सार्धं गदिभिर्गदिनस्तथा ॥११॥
परस्परव्यतीकारो रण आसीत् सुदारुणः ।
महाप्रलयसंक्षोभः शब्दस्तेषां महात्मनाम् ॥१२॥
धावन्तः प्रहरन्त्येतान् घ्नन्त्येतान् सर्वतो नृपान् ।
अयमेष महाबाहुः खड्गी पतति वीर्यवान् ॥१३॥
अयमेष शरो घोरो वर्ततेऽतिसुदारुणः ।
गदी चायं महावीर्यः सर्वान् नो बाधते नृपः ॥१४॥
अयं रथी शरी चापी गदी तूणी तनुत्रवान् ।
पट्टिशी सर्वतो याति कुन्तपाणिरयं बली ॥१५॥
अयमत्र महाशूली संश्रितः सर्वतो दिशम् ।
गजोऽयं सविषाणाग्रो वर्तते सर्वतः प्रति ॥१६॥
अतिसर्वत्रगः शूरो वेगवान् वातसंनिभः ।
शराञ्च्छरैः समाहन्ति दण्डान् दण्डैर्जगत्पते ॥१७॥
कुन्तान् कुन्तैः समाजघ्नुर्गदाभिश्च गदास्तथा ।
परिघान् परिघैः सार्धं शूलाञ्च्छूलैः समन्ततः ॥१८॥
एवं तेषां महाराज कुर्वतां रणमुत्तमम् ।
संग्रामः सुमहानासीच्छब्दश्चापि महानभूत् ॥१९॥
भूतानि सुबहून्याजौ शब्दवन्ति महान्ति च ।
प्रादुरासन् सहस्राणि शङ्खानां भीमनिःस्वनः ॥२०॥
रात्रौ प्रादुरभूच्छब्दः संग्रामे रोमहर्षणः ।
वर्तमाने महायुद्धे वृष्णीनां चैव तैः सह ॥२१॥
केचिद् ग्रस्ताः समापेतुः पृथिव्यां पृथिवीक्षितः ।
केचिच्च पतिताः क्लिष्टाः विप्रकीर्णशिरोरुहाः ॥२२॥
पेतुरुर्व्यां महावीर्या राजानः शस्त्रपाणयः ।
केचित् तु भिन्नवर्माणः समापेतुः सहस्रधा ॥२३॥
परस्परं समाश्रित्य परस्परवधैषिणः ।
न्यस्तशस्त्रा महात्मानः समन्तात् क्षतविग्रहाः ॥२४॥
पेतुर्गतासवः केचिद् यमराष्ट्रविवर्धनाः ।
एवं ते निहता राजन् योधिताः सर्व एव तु ॥२५॥
एतस्मिन्नन्तरे शूर एकलव्यो निषादपः ।
धनुर्गृह्य महाघोरं कालान्तकयमोपमः ॥२६॥
शरैरनेकसाहस्रैरर्दयामास यादवान् ।
परःशतैः शराणां तु निशितैर्मर्मभेदिभिः ॥२७ ॥
वृष्णीनां च बलं सर्वं पोथयामास सर्वतः ।
युद्ध्यतः शस्त्रपाणींश्च क्षत्रियान् वीर्यवत्तरान् ॥२८॥
निशठं पञ्चविंशत्या शराणां नतपर्वणाम् ।
सारणं दशभिर्विद्ध्वा हार्दिक्यं पञ्चभिः शरैः ॥२९॥
उग्रसेनं नवत्याशु वसुदेवं च सप्तभिः ।
उद्धवं दशभिश्चैव ह्यक्रूरं पञ्चभिः शरैः ॥३०॥
एवमेकैकशः सर्वे निहता निशितैः शरैः ।
विद्राव्य यादवीं सेनां नाम विश्राव्य वीर्यवान् ॥३१॥
एकलव्यो यदुवृषान् वीर्यवान् बलवानहम् ।
इदानीं सात्यकिर्वीरः क्व यास्यति महाबलः ॥३२॥
मदमत्तो हली साक्षात् क्व यातीह गदाधरः ।
इत्याह सिंहनादेन सिंहान् विस्मापयन्निव ॥३३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौण्ड्रकवधे रात्रियुद्धे चतुर्नवतितमोऽध्यायः ॥९४॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP