संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| द्व्यशीतितमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - द्व्यशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्व्यशीतितमोऽध्यायः Translation - भाषांतर घण्टाकर्णेन भगवतः विष्णोः स्तुतिःवैशम्पायन उवाचपिशिताशो जगन्नाथं ददर्शाथ जगद्गुरुम् ।समाधौ च यथा दृष्टं भूमौ चापि तथा हरिम् ॥१॥अयं विष्णुरयं विष्णुरित्यूचे पिशिताशनः ।समाधौ च यथा दृष्टः सोऽयमत्रापि दृश्यते ।इत्युक्त्वा च पुनर्ब्रूते नृत्यन्निव हसन्निव ॥२॥अयं स चक्री शरशार्ङ्गधन्वा गदी रथी सध्वजतूणपाणिः ।सहस्रमूर्धा सकलामरेशो जगत्प्रसूतिर्जगतां निवासः ॥३॥विष्णुर्जिष्णुर्जगन्नाथः पुराणः पुरुषोत्तमः ।विश्वात्मा विश्वकर्ता यः सोऽयमेष सनातनः ॥४॥अस्यैव देवस्य हरेः स्तनान्तरे विराजते कौस्तुभरत्नदीपः ।यस्य प्रसादाज्जगदेतदादौ विराजते चन्द्रमसेव रात्रिः ॥५॥योऽसौ पृथ्वीं दधाराशु दंष्ट्रया जलसंचयात् ।योऽयमेव हरिः साक्षाद् वाराहं वपुरास्थितः ॥६॥बद्ध्वा तथा दानवमुग्रपौरुषं ददौ च शक्राय ततोऽनुराज्यम् ।बलिं बलादेव हरिः स वामनः स्तुतश्च भक्त्या मुनिभिः पुरातनैः ॥७॥दंष्ट्राकरालः सुमहान् हत्वा यो दानवान् रणे ।निःशोकमखिलं लोकं चकारासौ जनार्दनः ॥८॥आदौ दधारैकभुजेन मन्दरं निर्जित्य सर्वानसुरान् महार्णवे ।ददौ च शक्राय सुधामयं महान् स एष साक्षादिह मामवस्थितः ॥९॥यः शेते जलधौ नागे देव्या लक्ष्म्या सुखावहे ।हत्वा तौ दानवौ घोरौ मधुकैटभसंज्ञितौ ॥१०॥यमाहुराद्य विबुधा जगत्पतिं सर्वस्य धातारमजं जनित्रम् ।अणोरणीयांसमतिप्रमाणं स्थूलात्स्थविष्ठं हरिमेव विष्णुम् ॥११॥यत्र स्थितमिदं सर्वं प्राप्ते लोकस्य नाशने ।आदौ यस्मात्समुत्पन्नं सोऽयं विष्णुरिति स्थितः ॥१२॥यस्येच्छया सर्वमिदं प्रवृत्तं प्रवर्तते चापि जनार्दनस्य ।अयं स विष्णुः पुरुषोत्तमः शिवः प्रवर्तते मामिह यादवेश्वरः ॥१३॥भृगोर्वंशे समुत्पन्नो जामदग्न्य इति श्रुतः ।शिष्यत्वं समवाप्यैव मृगव्याधस्य यः स्थितः ॥१४॥जघान वीर्याद् बलिनं महारणे कुठारशस्त्रेण गिरीशशिष्यः ।सहस्रबाहुं कृतवीर्यसम्भवं हयैर्गजैश्चैव रथैश्च निर्गतम् ॥१५॥कुरुक्षेत्रं समासाद्य यश्चकार पितृक्रियाम् ।निःक्षत्रियमिमं लोकं कृतवानेकविंशतिः ॥१६॥रघोरथ कुले जातो रामो नाम जनार्दनः ।सीतया च श्रिया युक्तो लक्ष्मणानुचरः कृती ॥१७॥कृत्वा च सेतुं जलधौ जनार्दनो हत्वा च रक्षःपतिमाशुगैः शरैः ।दत्त्वा च राज्यं स विभीषणाय दशाश्वमेधैरयजच्च योऽसौ ॥१८॥वसुदेवकुले जातो वासुदेवेति शब्दितः ।गोकुले क्रीडते योऽसौ संकर्षणसहायवान् ॥१९॥उत्तानशायी शिशुरूपधारी पीत्वा स्तनं पूतनिकाप्रदत्तम् ।व्यसुं चकाराशु जनार्दनस्तदा दनोः सुतां तामवसत् सुखं हरिः ॥२०॥पयःपानं तथा कुर्वन् भक्षयन् दधिपिण्डकम् ।दाम्ना बद्धोदरो विष्णुर्मात्रा रुषितया दृढम् ॥२१॥ततश्च दाम्ना सुदृढेन बद्धो जघान योऽसौ यमलार्जुनौ च ।क्रीडन् हरिर्गोकुलवासवासी गोपीभिरास्वाद्य मुखं स्तनं च ॥२२॥वृन्दावने वसन् विष्णुर्गोपैर्गोकुलवासिभिः ।तत्र हत्वा हयं राजन् विरराजांशुमानिव ॥२३॥यः क्रीडते नागफणौ जनार्दनो निषेव्यमाणः सह गोपदारकैः ।महाह्रदे नागपतिं जगत्पतिर्ममर्द वीर्यातिशयं प्रदर्शयन् ॥२४॥यो धेनुकं तालवने तत्फलैः सममच्छिनत् ।हत्वा दानवमुग्रं तं गोपान् विस्मापयत्यसौ ॥२५॥दधार यो गोधरमुग्रपौरुषान् महामतिर्मेघसमागमे सति ।विडम्बयञ्छक्रबलं प्रमोदयन् गोपांश्च गोपीश्च स गोकुलं हरिः ॥२६॥गोपीनां स्तनमध्ये तु क्रीडते काममीश्वरः ।योऽसौ पिबंस्तदधरं मायामानुषदेहवान् ॥२७॥गोपीभिरास्वाद्य मुखं विविक्ते शेते स्म रात्रौ सुखमेव केशवः ।स्तनान्तरेष्वेव तदा च तासां कामीव कान्ताधरपल्लवं पिबन् ॥२८॥अक्रूरेण समाहूतस्तेन गच्छन् हि यामुने ।जले यो ह्यर्चितस्तेन नागलोके स एव हि ॥२९॥ततश्च गच्छन्बलवाज्जनार्दनो हत्वा तमुग्रं रजकं बलात्पथि ।हृत्वा च वस्त्राणि यथेष्टमीश्वरो ययौ सरामो मथुरां पुरीं हरिः ॥३०॥लब्ध्वा च दामानि बहूनि कामदो दत्त्वा वरं माल्यकृते महान्तम् ।लब्ध्वानुलेपं सुरभिं च यादवः कुब्जां चकाराशु महार्हरूपाम् ॥३१॥योऽसौ चापं समादाय मध्ये छित्त्वा महद्धनुः ।सिंहनादं महांश्चक्रे कल्पान्ते जलदो यथा ॥३२॥हत्वा गजं घोरमुदग्ररूपं विषाणमादाय ततोऽनु केशवः ।ननर्त रङ्गे बहुरूपमीश्वरः कंसस्य दत्त्वा भयमुग्रवीर्यः ॥३३॥योऽसौ हत्वा महामल्लं चाणूरं निहतद्विषम् ।यादवेभ्यो ददौ प्रीतिं कंसस्यैव तु पश्यतः ॥३४॥जघान कंसं रिपुपक्षघातिनं पितृद्विषं यादवनामधेयम् ।संस्थाप्य राज्ये हरिरुग्रसेनं सान्दीपनं काश्यमुपागतो यः ॥३५॥विद्यामवाप्य सकलां दत्त्वा पुत्रं महामुनेः ।साग्रजोऽथ जगामाशु मथुरां यादवीं पुरीम् ॥३६॥हत्वा निशुम्भं नरकं महामतिः कृत्वा स घोरं कदनं जनार्दनः ।ररक्ष विप्रान् मुनिवीरसंघान् देवांश्च सर्वाञ्जगतो जगत्पतिः ॥३७॥स एष भगवान् विष्णुरद्य दृष्टो जनार्दनः ।कृतकृत्योऽस्मि संजातः सायुज्यं प्राप्तवानहम् ॥३८॥येन दृष्टो हरिः साक्षात्तस्य मुक्तिः करे स्थिता ।सोऽयमेष हरिः साक्षात् प्रत्यक्षमिह वर्तते ॥३९॥नूनं जन्मान्तरे पूर्वं धर्मः संचित एव मे ।यस्य पाकः समुत्पन्नौ येनासौ दृश्यते मया ॥४०॥सर्वथा पुण्यवानस्मि नष्टसंसारबन्धनः ।किमस्मै दीयते वस्तु किं नु वक्ष्यामि साम्प्रतम् ।करिष्ये किमहं विष्णो वदस्वाद्य यथेप्सितम् ॥४१॥वैशम्पायन उवाचइत्युक्त्वा विस्तरं नादं ननर्द बहुशस्तदा ।जहास विकृतं भूयो ननर्त पिशिताशनः ॥४२॥नमो नमो हरे कृष्ण यादवेश्वर केशव ।प्रत्यक्षं च हरेस्तत्र ननर्त विविधं नृप ॥४३॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि कैलासयात्रायां घण्टाकर्णस्तुतौ द्व्यशीतितमोऽध्यायः ॥८२॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP