संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
अष्टाविंशत्यधिकशततमोऽध्यायः

भविष्यपर्व - अष्टाविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णेन हंसस्य वधम्

वैशम्पायन उवाच
अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तम ।
हंसो राजा महाराज निश्चेष्ट इव सम्बभौ ॥१॥
उत्प्लुत्य स रथात्तस्माद् यमुनामभ्यधावत ।
यत्र कृष्णो हृषीकेशः कालियाहिं ममर्द ह ॥२॥
महाह्रदं महारौद्रं यावत्पातालसंस्थितम् ।
तावद्दीर्घं महानीलं कालाञ्जननिभं हि यत् ॥३॥
तस्मिन् ह्रदे महाघोरे पपाताथ स हंसकः ।
हंसे पतति तस्मिंस्तु महान् रावो बभूव ह ॥४॥
गिरीणां पात्यमानानां समुद्र इव वज्रिणा ।
रथादुत्प्लुत्य कृष्णोऽपि तस्योपरि पपात ह ॥५॥
देवदेवो जगन्नाथो जगद् विस्मापयन्निव ।
प्राहरन् तं महाबाहुः पादाभ्यामथ केशवः ॥६॥
पादक्षेपं नृपस्तस्माल्लब्ध्वा हंसो नृपोत्तम ।
ममार च नृपश्रेष्ठ केचिदेवं वदन्ति हि ॥७॥
अन्ये पातालमायातो भक्षितः पन्नगैरिति ।
अद्यापि नैव राजेन्द्र दृष्ट इत्यनुशुश्रुम ॥८॥
यथापूर्वं जगन्नाथो रथं समुपजग्मिवान् ।
हते तस्मिन् महाराज धर्मपुत्रो युधिष्ठिरः ॥९॥
अकरोत् राजसूयं च तव पूर्वपितामहः ।
यदि जीवेदसौ हंसः को नमस्यति तं क्रतुम् ॥१०॥
स च सर्वास्त्रविन्नित्यं रुद्राल्लब्धवरः प्रभो ।
क्षणादेव महाराज वार्तेयं गामगाहत ॥११॥
हतो हंसो हतो हंसः कृष्णेन रिपुमर्दिना ।
जगुर्गन्धर्वपतयो देवलोके दिवानिशम् ॥१२॥
कृष्णेन लोकनाथेन विष्णुना प्रभविष्णुना ।
यमुनाया ह्रदे घोरे हंसो निहत इत्यपि ॥१३॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवधे अष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP