संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| अष्टपञ्चाशत्तमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - अष्टपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टपञ्चाशत्तमोऽध्यायः Translation - भाषांतर रणाजेः एकचक्रस्य सार्द्धं, मृगव्याधस्य बलासुरेण, अजैकपादस्य राहोः, सुधूम्राक्षस्य केशीदैत्येन सार्द्धं युद्धस्य वर्णनम्वैशम्पायन उवाचतत्रैव तु महायुद्धे रणाजिर्देवसत्तमः ।युध्यते सह दैत्येन एकचक्रेण धीमता ॥१॥प्रच्छाद्य रथपन्थानमुत्क्रोशंश्च महाबलः ।एकचक्रस्य सैन्यं तच्छरवर्षैरवाकिरत् ॥२॥महासुरा महावीर्या महापट्टिशयोधिनः ।शूलानि च भुशुण्डीश्च क्षिपन्ति स्म महारणे ॥३॥तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।अविशद् दितिजैर्मुक्तं दुर्निवार्यं चराचरैः ॥४॥अन्योन्यमभिवर्तन्ते देवासुरगणा युधि ।महाद्रिशिखराकारा वीर्यवन्तो महाबलाः ॥५॥तुरङ्गमाणां तु शतं युक्तं तस्य महारथे ।महासुरवरस्येव हिरण्यकशिपोर्युधि ॥६॥तेषां चरणपातेन चक्रनेमिस्वनेन च ।तथा बाणनिपातैश्च हता वै शतशः सुराः ॥७॥ततः स लघुभिश्चित्रैः शरैः संनतपर्वभिः ।सायुधानच्छिनत्क्रुद्धः शतशोऽथ सहस्रशः ॥८॥वध्यमानाः शरैस्तीक्ष्णै रथद्विरदवाजिनः ।गमिताः प्रक्षयं केचित् त्रिदशैर्दानवा रणे ॥९॥ततः प्रमीयमाणास्तानुपप्रेक्ष्य दितेः सुताः ।त्यक्त्वा प्राणान् न्यवर्तन्त प्रगृहीतवरायुधाः ॥१०॥ते दिशो विदिशश्चैव प्रतियुद्धप्रहारिणः ।अभ्यघ्नन् निशितैः शस्त्रैर्देवान्दितिसुता रणे ॥११॥रणाजिर्ज्वलितं घोरं परमं तिग्मतेजसम् ।मुमोचास्त्रं महाबाहुर्मथनं नाम संयुगे ॥१२॥ततः शस्त्राणि शूलानि निशितानि सहस्रशः ।अस्त्रवीर्येण महता दितिजः सम्प्रचिच्छिदे ॥१३॥छित्त्वा शूलेन तान् सर्वानेकचक्रो महासुरः ।अभ्यविध्वत तं साध्यं दशभिर्निशितैः शरैः ॥१४॥अस्त्रवेगं निहत्यैवं सोऽस्त्रैस्तस्यानुसैनिकान् ।ज्वलितैरपरैः शीघ्रैस्तानविध्यत् सहस्रशः ॥१५॥तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।प्रावृषीवास्त्रवृष्टीनि शृङ्गाणि धरणीभृताम् ॥१६॥इन्द्राशनिसमस्पशैर्निपतद्भिरजिह्मगैः ।दितिजैर्बध्यमानास्ते वित्रेसुः सुरसत्तमाः ॥१७॥एकचक्रो रथे तिष्ठन्नपश्यद् गजयूथपान् ।वराभरणनिर्ह्रादान् समुद्रस्वननिःस्वनान् ॥१८॥मत्तान् सुविहितान् दृप्तान् महामात्रैरधिष्ठितान् ।कुलीनान् वीर्यसम्पन्नान् प्रतिद्विरदघातिनः ॥१९॥शिक्षितान् गजशिक्षायामैरावतसमान् युधि ।न्यहनत् सुरसैन्यस्य गजान् गज इवासुरः ॥२०॥विक्षरन्तो महानागान् भीमवेगांस्त्रिधा मदम् ।मेघस्तनितनिर्घोषान् महाद्रीनिव चोत्थितान् ॥२१॥सहस्रसम्मितान् दिव्याञ्जाम्बूनदपरिष्कृतान् ।सुवर्णजालैर्विततांस्तरुणादित्यवर्चसः ॥२२॥एकचक्रो गदापाणिर्बलवान् गदिनां वरः ।उत्सारयामास गजान् महाभ्राणीव मारुतः ॥२३॥निहत्य गदया सर्वांस्तान् गजान् गजमर्दनः ।भूयोऽश्वसंघान् स बली निरैक्षत महासुरः ॥२४॥शुकवर्णानृष्यवर्णान् मयूरसदृशांस्तथा ।पारावतसवर्णांश्च हंसवर्णांस्तथैव च ॥२५॥मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनोजवान् ।अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः ।निषूदयामास बली गदया भीमविक्रमः ॥२६॥रणाजिर्व्यस्य समरे सर्वान् दृष्ट्वा सुरद्विषः ।अजिन्त्यविक्रमः श्रीमान् स युद्धाद् विरराम ह ॥२७॥गदायुद्धेषु कुशलो रथेन रथयूथपः ।नष्टसैन्यो महाबाहुः प्रस्थितः शक्रसंनिधौ ॥२८॥त्रिंशच्छतसहस्राणि रथानां विनिहत्य सः ।रणेऽतिष्ठत दैत्येन्द्रो विधूम इव पावकः ॥२९॥तस्मिन्तेव तु संग्रामे बलो दृप्तो महासुरः ।मृगव्याधं महात्मानं योधयत्यजितं रणे ॥३०॥मृगव्याधस्य रुद्रस्य महापारिषदास्तथा ।समुत्पेतुर्बलं दृष्ट्वा हुताग्निसमतेजसः ॥३१॥गजैर्मत्तै रथैर्दिव्यैर्वाजिभिश्च महाजवैः ।अस्त्रैश्च निशितैर्बाणैः शरैश्चानलसंनिभैः ॥३२॥ददृशुस्ते ततो वीरा दीप्यमानं महासुरम् ।रश्मिवन्तमिवोद्यन्तं सुतेजोरश्मिमालिनम् ॥३३॥संग्रामस्थं महावेगं महासत्त्वं महाबलम् ।महामतिं महोत्साहं महाकायं महारथम् ॥३४॥समीक्ष्य तं महायोधं दिक्षु सर्वास्ववस्थितम् ।ततः प्रहरणैर्घोरैरभिपेतुः समन्ततः ॥३५॥तस्य सर्वायसास्तीक्ष्णाः शराः पीतमुखाः शिताः ।शिरस्यद्रिप्रतीकाशे मृगव्याधेन पातिताः ॥३६॥तैश्च सप्तभिराविष्टः शरैः शिरसि चार्पितैः ।उत्पपात तदा व्योम्नि दिशो दश विनादयन् ॥३७॥ततस्तं त्रिदशो वीरः सरथः सज्जकार्मुकः ।अनुवव्राज संहृष्टः खे तदा स महाबलः ॥३८॥असुरं छादयामास तं व्योम्नि शरवृष्टिभिः ।वृष्टिमानिव जीमूतो निदाघान्ते धराधरम् ॥३९॥अर्द्यमानस्ततस्तेन मृगव्याधेन दानवः ।चकार निनदं घोरमम्बरे जलदो यथा ॥४०॥स दूरं सहसोत्पत्य मृगव्याधरथं प्रति ।निपपात महावेगः पक्षवातैर्गिरिर्यथा ॥४१॥बभञ्ज च ततो दैत्यो भग्नेषाकूबरं रथम् ।मृगव्याधः परित्यज्य स्थितो भूमौ महाबलः॥४२॥विरथं प्रेक्ष्य रुद्रं तु तस्य पारिषदाः शुभाः ।उत्थिता घोररक्ताक्षा व्योम्नि मुद्गरपाणयः ॥४३॥स तैः सहसोत्थाय वेष्टितो विमलेऽम्परे ।भीमेर्भ्रूकः परशुभिर्यथा ॥४४॥तेषां वेगवतां वेगं निहत्य स महारथः ।निपपात पुनर्भूमौ सुपर्णसमविक्रमः ॥४५॥स शालवृक्षमुत्पाट्य महाशासं महाबलः ।सर्वान् पारिषदान्संणये सूदयामास दानवः ॥४६॥स तैर्विक्षतदेहस्तु रुधिरौघपरिप्लुतः ।शुशुभे दानवश्रेष्ठो बालसूर्य इवोदितः ॥४७॥अथोत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ।जघान तान् पारिषदान् समरे दानवेश्वरः ॥४८॥ततस्तेपु च भग्नेषु महापारिवदेतु वै ।बलं तदवशेषं तु नाशयामास वीर्यवान् ॥४९॥अल्पैरश्वादगणैर्नागान् योधान्योधे रथान्रथैः ।दानवः स्त्वयामास युगान्तेऽन्तकवत्प्रजाः ॥५०॥हतैरश्वैश्च नागैश्च भग्नाक्षैश्च महारथैः ।त्रिदशैश्चाभवद् भूमी रुद्धमार्गा समन्ततः ॥५१॥एवं बलः स दैत्येन्द्रो मृगव्याधश्च वीर्यवान् ।युधि प्रवृद्धौ बलिनौ प्रभिन्नाविव वारणौ ॥५२॥वैशम्पायन उवाचतत्रैव युध्यते रुद्रो द्वितीयो राहुणा सह ।विश्रुतस्त्रिषु लोकेषु क्रोधात्मा ह्यज एकपात् ॥५३॥तत् यथा सुमहद् युद्धं तुमुलं लोमहर्षणम् ।आसीत्प्रतिभयं रौद्रं वीराणां जयमिच्छताम् ॥५४॥देवदानवदेहैस्तु दुस्तरा केशशाद्वला ।शरीरसंघातवहा प्रसृता लोहितापगा ॥५५॥आजघानाथ संक्रुद्धो रुद्रो रौद्राकृतिः प्रभुः ।राहुं शतमुखं युद्धे शत्रुसैन्यनिवारणम् ॥५६॥तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।जघान समरे श्रीमान् क्रुद्धो दैत्यस्य सायकैः ॥५७॥तस्य पारिषदस्त्वेकः शरशक्त्या महाबलः ।बिभेद समरे हृष्टो दानवं तं स्तनान्तरे ॥५८॥स भिन्नगात्रो रुद्रेण तथा पारिषदैरपि ।रुद्रस्य रथमायान्तं स राहुर्दानवोत्तमः ॥५९॥प्रममाथ तलेनाशु सहसा क्रोधमूर्च्छितः ।भिन्नगात्रं शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ॥६०॥हतैर्दानवमुख्यैस्तु रुद्रेणामिततेजसा ।रुद्रपारिषदान् सर्वान् निजघान महासुरः ॥६१॥सृजन्तं शरवर्षाणि दानवं घोरदर्शनम् ।बिभेद समरे रुद्रो बाणैः संनतपर्वभिः ॥६२॥वर्तमाने महाघोरे संग्रामे लोमहर्षणे ।रुधिरौघा महावेगा महानद्यः प्रसुस्रवुः ॥६३॥दानवं समरे रुद्रो नीलाञ्जनचयोपमम् ।निर्बिभेद शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः ॥६४॥हतैर्दानवमुख्यैश्च शक्तिशूलपरश्वधैः ।पतितैः पर्वताभैश्च दानवैः कामरूपिभिः ॥६५॥वर्तमाने महाघोरे संग्रामे लोमहर्षणे ।विरेजुस्ते तदा दैत्याः पुष्पिता इव किंशुकाः ॥६६॥महाभेरीमृदङ्गानां पणवानां च निःस्वनः ।शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ॥६७॥हतानां स्वनतां तत्र दैत्यानां चापि निःस्वनः ।देवानां च तथा तत्र शुश्रुवे दारुणो महान् ॥६८॥तुरङ्गमखुरोत्कीर्णं रथनेमिसमुत्थितम् ।रुरोध मार्गं योधानां चक्षूंषि च धरारजः ॥६९॥शस्त्रपुष्पोपहारा सा तत्रासीद् युद्धमेदिनी ।दुर्दर्शा दुर्विगाह्या च मांसशोणितकर्दमा ॥७०॥भग्नैः खड्गैर्गदाभिश्च शक्तितोमरपट्टिशैः ।अपविद्धैश्च भग्नैश्च रथैः सांग्रामिकैर्हतैः ॥७१॥निहतैः कुञ्जरैर्मत्तैस्तथा त्रिदशदानवैः ।चक्राक्षयुगशस्त्रैश्च भग्नैरवनिपातितैः ॥७२॥बभूवायोधनं घोरं पिशिताशनसंकुलम् ।उत्पेतुश्च कबन्धानि दिक्षु सर्वासु संयुगे ॥७३॥अन्योन्यबद्धवैराणां दैत्यानां जयगृद्धिनाम् ।सम्प्रहारस्तथा युद्धे वर्ततेऽतिभयंकरः ॥७४॥सैन्यानां सम्प्रयुद्धानां शूराणामनिवर्तिनाम् ।अजस्य चैकपादस्य राहोश्चैव महात्मनः ॥७५॥तेषां तु तत्र पततां क्रुद्धानाशतिनिःस्वनः ।उद्वर्त इव भूतानां समुद्राणां तु शुश्रुवे ॥७६॥तत्रैकस्तु सुधूम्राक्षः श्रीमान् रुद्रो मुनीश्वरः ।बिभेद केशिनं शक्त्या गदापरिघशूलभृत् ॥७७॥नानाप्रहरणा घोरा भीमाक्षा भीमविक्रमाः ।निष्पेतू रुद्रदयिता महापारिषदास्तथा ॥७८॥रथमास्थाय च श्रीमांस्तप्तकाञ्चनकुण्डलः ।दानवैः संवृतः केशी युध्यते युद्धदुर्जयैः ॥७९॥तस्य संग्रामशौण्डस्य संग्रामेषु युयुत्सतः ।निपेतुरुग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ॥८०॥स तु सिंहर्षभस्कन्धः शार्दूलसमविक्रमः ।महाजलदसंकाशो मृदङ्गध्वनिनिःस्वनः ॥८१॥तस्य निष्पतमानस्य दानवैः संवृतस्य च ।बभूव सुमहानादः क्षोभयंस्त्रिदिवं यथा ॥८२॥तेन शब्देन वित्रस्ता त्रिदशानां महाचमूः ।द्रुमशैलप्रहरणा योद्धुमेवाभ्यवर्तत ॥८३॥तेषां च देवदैत्यानां युयुत्सूनां परस्परम् ।संनिपातः सुतुमुलो रौद्रो लोकभयावहः ॥८४॥तेषां युद्धं महाघोरं संजज्ञे लोमहर्षणम् ।देवदानवसंघानां प्राणांस्त्यक्त्वा महाहवे ॥८५॥सर्वे ह्यतिबलाः शूरा सर्वे पर्वतसंनिभाः ।सर्वे सर्वास्त्रविद्वांसः सर्वे सर्वायुधोद्यताः ।त्रिदशा दानवाश्चैव परस्परजिघांसवः ॥८६॥तेषां वै नदतां शब्दः संयुगे मेघनिःस्वनः ।शुश्रुवेऽतिमहाघोरश्चरस्थावरकम्पनः ॥८७॥रेणुश्चारुणसंकाशो भीमः स समपद्यत ।उद्भूतो देवदैत्यौघैः संरुरोध दिशो दश ॥८८॥अन्योन्यं रजसा तेन कौशेयारुणपाण्डुना ।संवृता बहुरूपेण ददृशुर्न च किंचन ॥८९॥न ध्वजो न पताकाश्च न वर्म तुरगोऽपि वा ।आयुधं स्यन्दनो वापि दृश्यते नैव सारथिः ॥९०॥स शब्दस्तुमुलस्तेषामन्योन्यमभिधावताम् ।श्रूयते तुमुलः शब्दो न रूपाणि चकाशिरे ॥९१॥दानवास्तत्र संक्रुद्धा दानवानेव जघ्निरे ।त्रिदशास्त्रिदशाश्चैव निजघ्नुस्तुमुले तदा ॥९२॥ते परांश्च विनिघ्नन्तः स्वांश्च युद्धे महासुरान् ।रुधिरार्द्रा तथा चक्रुर्मेदिनीमसुराः सुराः ॥९३॥ततस्तु रुधिरौघेण संसिक्तमुदितं रजः ।शरीरशतसंकीर्णं बभूव धरणीतलम् ॥९४॥शूलशक्तिगदाखड्गपरिघप्रासतोमरैः ।त्रिदशा दानवाश्चैव जघ्नुरन्योन्यमाहवे ॥९५॥बाहुभिः परिघाकारैर्निघ्नतः परिघैस्तथा ।रुद्रपारिषदान् सर्वान् सूदयन्ति स्म दानवाः ॥९६॥रुद्रपारिषदाश्चैव महाद्रुममहाश्मभिः ।व्यदारयन्नतिक्रम्य शस्त्रैश्चादित्यसंनिभैः ॥९७ ।एतस्मिन्नन्तरे क्रुद्धः केशी दानवसत्तमः ।संग्रामामर्षघोरः सन् स्वान्यनीकानि हर्षयन् ।तेषां परमसंक्रुद्धो वज्रमस्त्रमुदीरयत् ॥९८॥वज्रेणास्त्रेण दिव्येन शस्त्रेण च महात्मना ।महापारिषदाः सर्वे निहता युधि दुर्जयाः ॥९९॥वज्रास्त्रपीडिता भ्रान्ता रुद्रपारिषदा युधि ।विप्रकीर्णद्रुमाः पेतुः शैला वज्रहता इव ॥१००॥एवं सुतुमुलं युद्धमभवल्लोमहर्षणम् ।केशिनः सह रुद्रेण तदद्भुतमिवाभवत् ॥१०१॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धकेशिरुद्रयुद्धकथने अष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP