संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| चतुर्दशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - चतुर्दशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुर्दशोऽध्यायः Translation - भाषांतर ब्रह्मणः त्रिभिः पुत्रैः परमपदस्य प्राप्तिः, तत्पश्चात् तेन मैथुनीसृष्ट्याः विस्तारं, दक्षकन्यानां संततीनां वर्णनम्वैशम्पायन उवाचस्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदां वरः ।ऊर्ध्वबाहुर्महाबाहुस्तपो घोरं समाश्रितः ॥१॥ज्वलन्निव च तेजस्वी भाभिः स्वाभिस्तमोनुदः ।बभासे सर्वधर्मज्ञः सहस्रांशुरिवांशुमान् ॥२॥अथान्यद्रूमास्थाय शम्भुर्नारायणोऽव्ययः ।द्विधा कृत्वाऽऽत्मनाऽऽत्मानमचिन्त्यात्मा सनातनः ।३ ।आजगाम महातेजा योगाचार्यो महायशाः ।सांख्याचार्यश्च मतिमान् कपिलो ब्राह्मणो वरः ॥४॥देवर्षिभिस्तु तावेतौ ब्रह्म ब्रह्मविदां वरौ ।उभावपि महात्मानावूर्जितौ क्षेत्रतत्परौ ॥५॥तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् ।परावरविशेषज्ञौ पूजितौ परमर्षिभिः ॥६॥बहुत्वाद् दृढपादश्च विश्वात्मा जगतः स्थितिः ।ग्रामणीः सर्वलोकानां ब्रह्मा लोकगुरुर्वरः ॥७॥तयोस्तद् वचनं श्रुत्वा तिस्रो व्याहृतयो जपन् ।त्रीनिमान्कृतवाँल्लोकान्यथाह ब्राह्मणी श्रुतिः ॥८॥पुत्रं भूसंज्ञकं चैव समुत्पादितवान् प्रभुः ।ततोऽग्रे तद्गतस्नेहो ब्रह्मा मानसमव्ययम् ॥९॥सोत्पन्नस्त्वग्रे ब्रह्माणमुवाच मानसः सुतः ।करोमि किं ते साहाय्यं ब्रवीतु भगवानिति ॥१०॥ब्रह्मोवाचय एष कपिलो नाम ब्रह्मा नारायणस्तथा ।वदते वरदस्त्वां तु तत्कुरुष्व महामते ॥११॥वैशम्पायन उवाचब्रह्मणोक्तस्तदा भूयः संशयं समुपस्थितः ।शुश्रूषुरस्मि युवयोः किं कुर्मीति कृताञ्जलिः ॥१२॥परमेश्वरावूचतुःयत् सत्यमक्षरं ब्रह्म ह्यष्टादशनिधं स्मृतम् ।यत् सत्यममृतं चैव परं तत् समनुस्मर ॥१३॥वैशम्पायन उवाचएतद् वचो निशम्याथ स ययौ दिशमुत्तराम् ।गत्वा च तत्र ब्रह्मत्वमगमज्ज्ञानचक्षुषा ॥१४॥ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत् प्रभुः ।संकल्पयित्वा च पुनर्मनसैव महामनाः ॥१५॥ततः सोऽप्यब्रवीद् वाक्यं किं कुर्मीति पितामहम् ।पितामहसमाज्ञप्तो ब्रह्माणौ समुपस्थितः ॥१६॥ब्रह्मभ्यां सहितः सोऽथ भूयो भागवतीं गतः ।प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ॥१७॥तस्मिन्नपि गते पुत्रं तृतीयमसृजत् प्रभुः ।मोक्षोपायेति कुशलं भूर्भुवर्नाम तं विभुः ॥१८॥आससाद स तद्धर्मं तयोरेवागमद् गतिम् ।एवं पुत्रास्त्रयोऽप्येते उक्ताः शम्भोर्महात्मनः ॥१९॥तान् गृहीत्वा सुतांस्तस्य प्रययौ स्वां गतिं तथा ।नारायणोऽथ भगवान् कपिलश्च यतीश्वरः ॥२०॥यं कालं तौ गतौ मुक्तौ ब्रह्मा तत्कालमेव तु ।तेपे घोरतरं भूयः स तपः संशितव्रतः ॥२१॥न रराम ततो ब्रह्मा प्रभुरेकस्तपश्चरन् ।शरीरार्द्धमथो भार्यां समुत्पादितवाञ्छुभाम् ॥२२॥तपसा तेजसा चैव वर्चसा नियमेन च ।सदृशीमात्मनो भार्यां समर्थां लोकसर्जने ॥२३॥तया सह ततस्तत्र रेमे ब्रह्मा तपोमयः ।सृजन् प्रजापतीन् सर्वान्सागरान् सरितस्तथा॥२४॥ततोऽसृजद् वै त्रिपदां गायत्रीं वेदमातरम् ।अकरोच्चैव चत्वारो वेदान् गायत्रिसम्भवान्॥२५॥आत्मार्थे चासृजत् पुत्राँल्लोककर्तॄन् पितामहः ।विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ॥२६॥विश्वेशं प्रथमं नाम महातपसमात्मजम् ।सर्वाश्रमतमं पुण्यं नाम्ना धर्मं स सृष्टवान् ॥२७॥दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम् ॥२८॥अथर्वभूता इत्येते ख्याता ब्रह्ममहर्षयः ।त्रयोदशसुतानां तु ये वंशा वै महर्षिणाम् ॥२९॥अदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः ।प्रबोधा सुरसा क्रोधा विनता कद्रुरेव च ॥३०॥दक्षस्यैता दुहितरः कन्या द्वादश भारत ।नक्षत्राणि च भद्रं ते सप्तविंशतिरूर्जिताः ॥३१॥मरीचेः कश्यपः पुत्रस्तपसा निर्मितः प्रभुः ।तस्मै कन्या द्वादशेमा दक्षस्ता अन्वमन्यत ॥३२॥नक्षत्राख्यानि सोमाय वसवे दत्तवानृषिः ।रोहिण्यादीनि सर्वाणि पुण्यानि जनमेजय ॥३३॥लक्ष्मीः कीर्तिस्तथा साध्या विश्वा कामानुगा शुभा ।देवी मरुत्वती चैव ब्रह्मणा निर्मिता पुरा ॥३४॥एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय भारत ।दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टधर्मणा ॥३५॥या रूपार्द्धमयी पत्नी ब्रह्मणः कामरूपिणी ।सुरभिः सा तु गौर्भूत्वा ब्रह्माणं समुपस्थिता ॥३६॥ततस्तामगमद् ब्रह्मा मैथुने लोकपूजितः ।लोकसर्जनहेतुज्ञो गवामर्थाय भारत ॥३७॥जज्ञे चैकादश सुतान् विपुलान् धर्मसंहितान् ।रक्तसंध्याभ्रसदृशान् दहनोपमतेजसः ॥३८॥ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् ।रोदनाद् रावणाच्चैव ततो रुद्रा इति स्मृताः ॥३९॥निर्ऋतिश्चैव सर्पश्च तृतीयो ह्यज एकपात् ।मृगव्याधः पिनाकी च दहनोऽथेश्वरश्च वै ॥४०॥अहिर्बुध्न्यश्च भगवान् कपाली चापराजितः ।सेनानीश्च महातेजा रुद्रा एकादश स्मृताः ४१॥तस्यामेव सुरभ्यां तु जज्ञे गोवृषभस्तथा ।अकृष्टाश्च तथा माषाः सिकताः प्रश्रयोऽक्षताः॥४२॥अजाश्चैव तु वत्साश्च तथैवामृतमुत्तमम् ।ओषध्यः प्रवरा याश्च सुरभ्यां ताः समुत्थिताः ॥४३॥धर्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत ।भवं च प्रभवं चैवमीशानं सुरभी तथा ॥४४॥अरुन्धत्यारुणी चैव विश्वावसुबलध्रुवौ ।महिषश्च तनूजश्च विज्ञातमनसावपि ॥४५॥मत्सरश्च विभूतिश्च सर्वाः सुरभिसूनवः ।सुपर्वतं विषं नागं साध्या लोकनमस्कृता ॥४६॥वासवानुगता देवी जनयामास वै सुतान् ।धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् ॥४७॥विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् ।पञ्चमं पर्वतं चैव योगेन्द्रं तदनन्तरम् ॥४८॥सप्तमं च ततो वायुमष्टमं निर्ऋतिं वसुम् ।धर्मस्यापत्यमित्येवं सुरभ्यां समजायत ॥४९॥विश्वेदेवास्तु विश्वायां धर्माज्जाता इति श्रुतिः ।सुधर्मा च महाबाहुः शङ्खपाच्च महाबलः ॥५०॥दक्षश्चैव महाबाहुर्वपुष्मांश्च तथैव च ।चाक्षुषस्य मनोरेते तथानन्तमहीरणौ ॥५१॥विश्वावसुसुपर्वाणौ विष्टरश्च महायशाः ।रुरुश्च ऋषिपुत्रो वै भास्करप्रतिमद्युतिः ॥५२॥विश्वेदेवान्देवमाता विश्वेशाञ्जनयत्सुतान् ।मरुत्वती मरुत्वत्तो देवानजनयच्छुभान् ॥५३॥अग्निं चक्षुर्हविर्ज्योतिः सावित्रं मित्रमेव च ।अमरं शरवृष्टिं च संक्षयं च महाभुजम् ॥५४॥विरजं चैव शुक्रं च विश्वावसुविभावसू ।अश्मन्तं चित्ररश्मिं च तथा निष्कुपितं नृपम् ॥५५॥हूयमानं च हूतिं च चारित्रं बहुपन्नगम् ।बृहन्तं च बृहद्रूपं तथैव परतापनम् ॥५६॥मरुत्वत्यां पुरा धर्माज्जज्ञे पुत्रद्वयं शुभम् ।अदित्यां जज्ञिरे राजन्नादित्याः कश्यपादथ ।इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंऽशोऽर्यमा रविः ॥५७॥पूषा मित्रश्च वरदो मनुः पर्जन्य एव च ।इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसः ॥५८॥आदित्यस्य सरस्वत्यां जज्ञे पुत्रद्वयं शुभम् ।रूपश्रेष्ठं बलश्रेष्ठं त्रिदिवे रूपिणां वरम् ॥५९॥दनुस्तु दानवाञ्जज्ञे दितिर्दैत्यान् व्यजायत ।काला नु कालकेयांश्च ह्यसुरान्राक्षसांस्तथा ॥६०॥दनायुषायास्तनया व्याधयश्चाधयस्तथा ।सिंहिका ग्रहमाता च गन्धर्वजननी मुनिः ॥६१॥प्रबोधाप्सरसां माता सुरसायां सरीसृपाः ।क्रोधायाः सर्वभूतानि पिशाचाश्चैव भारत ॥६२॥तथा यक्षगणाश्चैव गुह्यकाश्च विशाम्पते ।चतुष्पदानि सर्वाणि ऋते गावस्तु सौरभाः ॥६३॥अरुणो गरुडश्चैव विनतायां व्यजायत ।महीधरान् सर्पनागान् देवी कद्रूर्व्यजायत ॥६४॥एवं विवृद्धिमगमन् विश्वेलोकाः परस्परम् ।तदा पौष्करके राजन् प्रादुर्भावे महात्मनः ॥६५॥पुराणे पौष्करं चैव मया द्वैपायनाच्छ्रुतम् ।कथितं तेन पूर्वेण यत् कृतं परमर्षिभिः ॥६६॥यश्चेदमग्र्यं प्रथमं पुराणंसदाप्रमत्तः पठते महात्मा ।अवाप्य कामानिह वीतशोकःपरत्र स स्वर्गफलानि भुङ्क्ते ॥६७॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे सर्वभूतोत्पत्तौ चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP