TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
अष्टाविंशोऽध्यायः

भविष्यपर्व - अष्टाविंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


अष्टाविंशोऽध्यायः
पुष्करे श्रीविष्ण्वादीनां तपःकरणं, तस्य प्रभावस्य वर्णनम्

वैशम्पायन उवाच
दिशं जिगमिषुर्दिव्यामुत्तरां सत्यसाधनः ।
तथा स धातुनिचये पुण्ये पर्वतरोधसि ॥१॥
विष्णुः परमधर्मात्मा एकपादेन तिष्ठति ।
दशवर्षसहस्राणि पुष्करे पुष्करेक्षणः ॥२॥
आत्मन्यात्मानमाधाय तपसा ब्रह्मसम्भवः ।
घटते कर्मणोग्रेण लोकमुत्थानकारणात् ॥३॥
भासुरो भस्मनाऽऽच्छाद्य गात्राणि स्वयमात्मनः ।
अष्टौ वर्षसहस्राणि सहस्रं च तपोधनः ॥४॥
तेजसा तेन ज्योतींषि विभाव्य ब्राह्मणर्षभः ।
तिष्ठते नभसो मध्ये योगात्मा भावयञ्जगत् ॥५॥
सोमो विषयमाक्षिप्य मनसा धारयन्मनः ।
युक्तः परमधर्मात्मा ब्राह्मीं सिद्धिमुपागतः ॥६॥
सम्प्रदृश्यत सर्वत्र दिवि भुव्यन्तरे तथा ।
ज्योतिष्णु कर्म कुर्वाणो बहुरूपः स सम्पदा ॥७॥
महेश्वरोऽतिगूढान्मा वृषरूपेण तिष्ठति ।
उद्धृत्य दक्षिणं पादं वायुभक्षः समाहितः ॥८॥
अष्टौ वर्षसहस्राणि स्रहस्रं शतमेव च ।
महायोगी महादेवो नियमाद् ब्रह्मसम्भवः ॥९॥
अथ वायुर्घनीभूतो अन्ते चरति गोपतेः ।
फेनीभूतं समुद्गारैः पवनं निर्गिरन्मुखात् ॥१०॥
स निष्क्रान्तस्ततो वक्त्रात्प्राणेन परमाप्तवान् ।
निर्यासभूतः पतितो नैवार्द्रो नैव पार्थिवः ॥११॥
स फेनो वारिणाऽऽविश्य चचार वसुधातले ।
नैवार्द्रो नैव शुष्काङ्गो वायुसंघातमागतः ॥१२॥
तत्काले फेनमुत्क्षिप्य पवनः सह वारिणा ।
निरालम्बे निरालम्बस्त्वभ्राणि समपद्यत ॥१३॥
ते क्षिपन्ति पयो भूमावात्मानं स्वेन घट्टिताः ।
नीलमेघारुणप्रख्या नैवाद्रा नैव पार्थिवाः ॥१४॥
ब्राह्मीं मूर्तिं समाधाय वायुः सर्वत्रगो वशी ।
समाः सहस्रं सम्पूर्णं चचार विपुल तपः ॥१५॥
वह्निर्बहुजटी भूत्वा चीरवल्कलवासभृत्
तपस्तप्यदनाहारो मौनमास्थाय पौष्करे ॥१६॥
वर्षाणां च सहस्राणि त्रीणि चैकं च यत्नतः ।
तस्याग्नेस्तेजः सम्भूतो महानग्निः प्रवर्तते ॥१७॥
स्वर्गप्रकाशं कृत्वा च स्वर्गवासी तमोनुदः ।
दिवि भूतप्रकाशाख्यस्तपसा ब्रह्मसम्भवः ॥१८॥
तत्तमो भुवि राजेन्द्र मानुषेषु प्रतिष्ठितम् ।
भास्करस्तेजसंहारस्ततो भवति सत्तमः ॥१९॥
मर्त्यानां सर्वभूतानां तेज आक्षिप्य वर्तते ।
न तु योगबले राजन् ब्राह्मणस्य विशेषतः ।
तत्तमोनाशयेद् रात्रौ नाप्यहोभविताद्वयम्॥२०॥
पुष्पमित्रो महातेजा यक्षः सर्वत्रगो वशी ।
तपश्चरति धर्मात्मा पुष्करेषु समाहितः ॥२१॥
महेन्द्रशिखराद्धारा यावन्त्यो यान्ति मेदिनीम् ।
तावत्स्वरूपमास्थाय तिष्ठते निखिलाः समाः ॥२२॥
जानुभ्यां पतितो भूमौ ज्योतिर्नभसि पश्यति ।
समाः सहस्रं निखिलं नेत्रैरनिमिषैर्जगत् ॥२३॥
नेत्राणि बहुधा तस्य नेत्रान्तैरभिनिःसृताः ।
मध्यन्दिनकरे प्राप्ते रश्मिवान् सपरिग्रहे ॥२४॥
ते रश्मयः प्रभानेत्रैः शतशोऽथ सहस्रशः ।
रराज तेजःसंयोगाद् विद्वद्भिरिव पावकः ॥२५॥
स विस्फुलिङ्गैर्नेत्रान्तैरादित्यमनुवर्तते ।
कर्मणोऽन्ते युगान्ते वा जगतो बहुरूपिणः ॥२६॥
बहुतापः पुनर्भूत्वा निषण्णो वसुधातले ।
समाः सहस्रं सम्पूर्णं तपस्तेपे सुदारुणम् ॥२७॥
निगृहीतेन्द्रियो भूत्वा अप्सरोभिर्ललाम ह ।
मेरोः शिखरमासाद्य कामं कामेन निर्वमन् ॥२८॥
तपःकामः स यक्षस्तु कुबेरो नरवाहनः ।
विष्णुरेव तपोऽध्यक्षस्तेजसोऽन्ते विजृम्भति ॥२९॥
न हि कश्चित् पुमानस्ति य एवं तप आचरेत् ।
त्रिषु लोकेषु राजेन्द्र ऋते विष्णुं सनातनम् ॥३०॥
वासुकिर्बहुशीर्षस्तु नागेन्द्रो मौनमास्थितः ।
तप आचरते सम्यङ् निधाय मनसा मनः ॥३१॥
शेषः सत्यधृतिर्नागो बलवान् ब्रह्मसम्भवः ।
वृक्षमारुह्य धर्मात्मा अवाक्छीर्षोऽवलम्बते ॥३२॥
जिह्वाभिर्लेलिहानाभिर्गात्रजं विषमुत्सृजन् ।
समाः सहस्रं सम्पूर्णं निराहारस्तपोधनः ॥३३॥
कालकूटं विषं तद्धि सुमहत् समपद्यत ।
येन लोको ह्यभिग्रस्तो न सुखं विन्दते नृप ॥३४ ।
सर्वत्रानुगतं तीक्ष्णं भुजङ्गेषु महीपते ।
जङ्गमं स्थावरं चैव सर्वत्रानुगतं विषम् ॥३५॥
परस्परविवृद्धेन हिंसायुक्तेन भारत ।
नाशयत्यान्मनोऽङ्गानि तेन तीक्ष्णेन भारत ॥३६॥
अथ ब्रह्मा महाभागो भूतानां हितकाम्यया ।
मन्त्रं विसृजते राजन् ब्रह्माक्षरमहिंसकम् ॥३७॥
गरुत्मान् विततैः पक्षैर्नखाग्रैः सलिलं महीम् ।
समाः सहस्रं सम्पूर्णं चूलाग्रेणावलम्बिना ॥३८॥
पर्णभारैश्च विकचैर्विस्तीर्णैर्वसुधातले ।
रराज वसुधा चैव पर्णैर्बहुविचित्रितैः ॥३९॥
येन वृत्तेन जीवेयुः सर्वभूतानि भारत ।
इह लोके मनुष्येन्द्र देवलोके च भारत ।
द्यौरिवाचितनक्षत्रा मही तलविसर्पिभिः ॥४०॥
हिमवान् हिमसम्पाते भवत्येकचरो वशी ।
पुष्कराम्भसि धर्मात्मा मत्स्योल्लिखितमूर्धजः ॥४१॥
अथ स्वबलमाक्रम्य पृथिवीं प्रांशुद्वाहिनीम् ।
तपश्चरति धर्मात्मा बाहुमुद्यम्य दक्षिणम् ॥४२॥
साग्रं वर्षसहस्रं च शतमेकं च सुव्रत ।
तपश्चरति संयोगाद् वायुभक्षः समाहितः ॥४३॥
समाधियोगात् सङ्गाद् वा ब्रह्मयोगस्य भारत ।
येनेयं पृथिवी राजन् धार्यते ब्रह्मयोनिना ॥४४॥
अनाद्यन्तेन नित्येन सर्वत्र विषयैषिणा ।
योऽसौ विष्णुरगाधात्मा परमात्मा निराकृतिः ॥४५॥
दिने निषण्णो भवति रात्रौ भवति वै स्थिरः ।
सत्यसंधः स धर्मात्मा कामकारकरो भवेत् ॥४६॥
तस्य यः सोद्यतः पाणिः पृथिव्यां पृथिवीसमः ।
रात्रौ स तपनो भवति मण्डलं विपुलं नभः ॥४७॥
स चन्द्रविषयं राजञ्छमयामास रुन्धति ।
ग्रहाणां गतयश्चैव ताराणां च विशेषतः ॥४८॥
तां छायामाक्षिपन् सोमात्स्रवद्भिर्मण्डलेन वै ।
पृथिव्यां दक्षिणो हस्तो महायोगी महामनाः ॥४९॥
सैषा छाया शशीभूता शशिमण्डलमाविशत् ।
अलिङ्गा पृथिवीलिङ्गादद्भुतादक्षया दिवि ॥५०॥
अङ्गाङ्गान्युपगृह्यैव तपश्चरति निश्चयात् ।
प्रोक्ष्य पादौ तु सतलौ पृथिवी तपसि स्थिता ॥५१॥
सूर्यार्चिभिः पीयमानादाक्षिप्यत मही तले ।
महीमिवाम्बुवसनां युगान्ते विष्णुतेजसा ॥५२॥
रराज सूर्यरश्मिभिर्व्यतिषिक्ता महानदी ।
स्फाटिकेव शुभा सैषा काञ्चनैर्धातुभिर्वृता ॥५३॥
आदित्येन समादत्ता रश्मितेजोऽभिसम्भवैः ।
मण्डलान्तर्गता देवी चक्षुषा नोपलभ्यते ॥५४॥
रश्मिभिः पुनरुत्तीर्णा ततो योगेन धावति ।
आकाशगङ्गा संवृत्ता विपुलैरम्बुविग्रहैः ॥५५॥
शीतच्छायैश्च तरुभिर्लताभिश्च सुगन्धिभिः ।
पद्मखण्डैश्च विविधैः शुशुभे दिव्यगन्धिभिः ॥५६॥
काञ्चनापीडजघना स्फाटिकान्तरमेखला ।
पद्मरेणुसिता पीता चक्रवाकावतंसिका ॥५७॥
नीलगर्भसुकेशान्ता पुष्पसंचयसंकुला ।
शोभते विप्रसर्पन्ति प्रमदेव विभूषिता ॥५८॥
सैषा गङ्गा फलं लेभे पुष्करेण समाहिता ।
सुतपा चन्द्रविहिता लोकानां धारणे रता ॥५९॥
सरस्वती स्वरैर्व्यक्तैरधीते ब्रह्मवादिनी ।
पृष्ठात् प्रयाता शैलेन्द्रे मन्दरे मन्दगामिनी ॥६०॥
ऋङ्मयांश्चतुरो वेदान् पादैश्चतुर्भिरावृतान् ।
यजुर्भिः सामभिश्चैव ग्रथिताञ्छिक्षया तदा ॥६१॥
ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।
सुपार्श्वस्य गिरेः पादे परिदायैः सुपारणैः ॥६२॥
निःस्वनं सर्वभूतानि नियमैश्च न शृण्वते ।
मन्दराग्रे विसर्पन्तं जगत्कृत्स्नमतीन्द्रियम् ॥६३॥
विरामनियमे प्राप्ते तूष्णींभूता बभूव ह ।
न वाचमीरयेद् देवी नियमात् सत्यवादिनी ॥६४॥
अथ भूतानि सर्वाणि तूष्णींभूतानि सर्वशः ।
न शेकुरभिधानार्थं व्याहर्तुं वदनैर्बलात् ॥६५॥
विभज्य योगं मनसा सर्वभूतेष्वनुग्रहम् ।
सरस्वती तीरयुता व्याजहार महास्वनम् ॥६६॥
सरस्वत्या समायुक्तां शिक्षां गृह्णन्ति देहिनः ।
तस्मिन्नेवाथ ते सर्वे गानं गायन्ति शिक्षया ॥६७॥
आदित्या वसवो रुद्रा मरुतश्चाश्विभिः सह ।
जटिलाश्चीरवसना मुञ्जमेखलधारिणः ॥६८॥
गन्धर्वाः किन्नराश्चैव सनागाः सह चाम्भसः ।
तपश्चरन्ति सहिताः पुष्करेषु मनीषिणः ॥६९॥
अपि कीटपतङ्गैश्च सह सर्वैः सरीसृपैः ।
शोषयन्ति शरीराणि तपसोग्रेण यत्नतः ॥७०॥
विष्णुर्विष्णुत्वमापन्नो देहान्तरविसृष्टवान् ।
संरक्षति महायोगी सर्वांस्तान् सहचारिणः ॥७१॥
पुष्करे रमते विष्णुर्विष्णुरेव द्विधा कृतः ।
दीप्यमानः स्वतेजोभिर्विधूम इव पावकः ॥७२॥
सोऽग्निर्मनःसमुद्भूतः पृथिवीं तापयन्निव ।
प्रधावति समं तेन मण्डलं दशयोजनम् ॥७३॥
विरराजार्चिभिर्दीप्तैः पृष्ठतश्चावलम्बिभिः ।
विशीर्णपार्थिविभवैर्मयूखैरिव दीपितः ॥७४॥
तस्याग्नेर्विस्फुलिङ्गानां न शेकुर्लङ्घने रताः ।
विप्रकीर्णस्य वसुधामर्यादामिव भास्करम् ॥७५॥
सोऽग्निर्दीप्य विभज्यांशून्विधूम इव पावकः ।
ऋत्विग्भिर्ज्वलनप्रख्यैर्विक्रीयत इवाध्वरे ॥७६॥
सोऽग्निर्धूमगतस्तत्र तिष्ठते विपुलं तदा ।
यावद्विष्णुक्रमः प्राप्तो नियमस्य समापनात् ॥७७॥
रक्षां कृत्वा स्थितं विद्याद् विष्णुर्विष्णुपराक्रमः ।
भूत्वा शतशरीरो वै नागो बालाहकोऽभवत् ॥७८॥
तमग्निमात्मसंसृष्टं लेलिहानं महामतिम् ।
प्रतिप्रवृत्तं तेजोभिर्भूतानां हितकाम्यया ॥७९॥
वारिणा सुखशीतेन प्राणिनां प्राणवर्धनः ।
न्यषिञ्चद् दहनं तत्र नागो बालाहकस्तदा ॥८०॥
ततः सिद्धगणैर्जुष्टः पुष्करे तप्यते तपः ।
संहृत्य मनसाऽऽत्मानं महायोगी महाबलः ॥८१॥
पादगात्राणि संहृत्य मनो मूर्ध्नि विधारयन् ।
अचलं स्थानमासाद्य तूष्णीभूतो बभूव ह ॥८२॥
एष धर्मो हि धर्माणां नोपधानविकल्पितः ।
हितः सर्वेषु भूतेषु इह चामुत्र चोभयोः ॥८३॥
अथ दैत्या हतास्तत्र समागम्योद्यतायुधाः ।
मायाप्राप्तैर्बहुविधैर्नगरैरभिसंवृताः ॥८४॥
अग्निं दैत्याः पर्वताग्रैरभिघ्नन्ति परंतप ।
ज्वलन्तं ज्वलनप्रख्या महाकाया महाबलाः ॥८५॥
मेघीभूताश्च मायाभिर्वर्षन्ति बलदर्पिताः ।
तस्मिन्नेवाभिसंघाते ससंघातं महाबलम् ॥८६॥
ते शैलास्त्वर्षिषा दग्धाः शतशोऽथ सहस्रशः ।
युगान्ते प्रभुरादित्यः प्रजा इव दिधक्षति ॥८७॥
न शेकुरग्निं दैत्यास्ते मायाभिर्मुखमुद्यतम् ।
आदित्यमिव दीप्यन्तं नभः सूर्योदये यथा ॥८८॥
विहितैरुद्यमैः सर्वे देत्या भग्नपराक्रमाः ।
गन्धमादनमासाद्य निषण्णा नगमूर्धनि ॥८९॥
स चाग्निर्वैष्णवैर्लोकैर्विद्युद्भिः सह संगतः ।
अन्तरिक्षचरान् दैत्यान् निर्दहन्व्यचरद् दिवि॥९०॥
नागो बालाहकश्चैव मेघैः संघातमागतः ।
मुमोच सलिलं भूमौ पर्जन्य इव वृष्टिमान् ॥९१॥
मन्त्रैः संचोदितो नागो द्विजेभ्यो वदनोद्गतैः ।
मुमोच तोयसंघातं मानयन् विप्रजं जनम् ॥९२॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे अष्टाविंशोऽध्यायः ॥२८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T13:33:38.1600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भागी

  • f  Partnership; a share in a partnership. 
RANDOM WORD

Did you know?

देव्हार्‍यात कोणत्या दिशेला दिव्याची वात असावी, त्याचे फायदे तोटे काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.