संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| एकोनविंशोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - एकोनविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनविंशोऽध्यायः Translation - भाषांतर योगिनः स्थितिः, तस्य समक्षे भविष्ये प्रकटनीयानां विघ्नरूपाणां ऐश्वर्याणां वर्णनम्जनमेजय उवाचप्राग्वंशं श्रोतुमिच्छामि विस्तरेण महामुने ।आद्ययोर्युगयोर्ब्रह्मन् ब्रह्मप्राप्तस्य सर्वशः ॥१॥वैशम्पायन उवाचशृणु विस्तरशः सर्वं यन्मां पृच्छसि मेधया ।उपपन्नेन मनसा दैवप्रत्ययसाधिना ॥२॥ऋद्धि प्राप्तस्तु भगवान् योगात्मा ब्रह्मसम्भवः ।भूतानां बहुलत्वं च चकारेहेश्वरः प्रभुः ॥३॥स्थितो ब्रह्मासने ब्रह्मा विक्षिप्तः सहसा प्रभुः ।अचलेनैव भावेन स्थाणुभूतेन भारत ॥४॥रक्तश्च मोक्षविषये स च ज्ञानमये पदे ।यस्मात् पदसहस्राणि प्रभवन्ति भवन्ति च ॥५॥ब्रह्मयज्ञं तु यजते योगाद् वेदात्मकं सदा ।ब्रह्मणो विपुलं ज्ञानमैश्वर्यं च प्रवर्तते ॥६॥ततः प्रथममैश्वर्यं युञ्जानेन प्रवर्तितम् ।ब्रह्मणा ब्रह्मभूतेन भूतानां हितमिच्छता ॥७॥तदा त्वाकाशमैश्वर्यं युञ्जानस्य प्रवर्तते ।ब्रह्मणो ब्रह्मभूतस्य निर्विकारेण कर्मणा ॥८॥तदान्तरिक्षं सम्प्राप्तं निर्मलं ब्रह्म चाव्ययम् ।संहारः सर्वभूतानां नराणां ब्रह्मवादिनाम् ।ध्रुवमैश्वर्ययोगानां प्रतिपद्यन्ति देहिनः ॥९॥आकाशैश्वर्यभूतेन संयुगे ब्रह्मवादिना ।प्रवर्तमानमैश्वर्यं वायुभूतं करोति च ।विकारैर्बहुभिः प्राप्तैः सम्पतद्भिर्महाबलैः ॥१०॥एतैर्विकारैः संवृत्तैर्निरुद्धैश्च समन्ततः ।ध्रुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ॥११॥शरीरादभिनिष्क्रम्य आकाशेन प्रधावति ।निरालम्बो निरालम्बान्नालम्ब्य मनसा ततः ॥१२॥ऐश्वर्यभूतो भूतात्मा चरन् दिवि न दृश्यते ।चक्षुर्भिर्बहुभिर्लोकैः पुरंदरसमैरपि ॥१३॥ओंकारं ये त्वधीयन्ते मनसा ब्रह्मसत्तमाः ।विमुक्ताः सर्वकर्मभ्यस्ते तं पश्यन्ति साधवः ॥१४॥एतद्धि परमं ब्रह्म ब्राह्मणानां मनीषिणाम् ।अन्तश्चरति भूतानां विद्धि चेतनया सह ॥१५॥एष शब्दो महानादः पुराणो ब्रह्मसम्भवः ।वायुभूतोऽक्षरं प्राप्तो वदन्त्येवं द्विजातयः ॥१६॥अरूपी रूपसम्पन्नो धातुभिः सह संगतः ।अन्तश्चरति भूतेषु कामकारकरो वशी॥१७॥एतत् पूर्वमनुध्याय मनसाऽऽपूरयन्निव ।वेदात्मकं तदा यज्ञं चिन्तयन्तो मनीषिणः॥१८॥ब्राह्मणाः शुचयो दान्ता यशोयुञ्जस्तदन्वयाः ।ब्रह्मलोकं काङ्क्षमाणा वैष्णवं पदमुत्तमम् ॥१९॥पदहेतोः क्रियाः सर्वाः कुर्वन्ति विगतज्वराः ।न ह्येते प्रसवादाने भवमिच्छन्ति भारत ॥२०त्रिभिर्माल्योपहारैश्च प्रतिभावैश्च वै द्विजाः ।यजन्ति परमात्मानं विष्णुं सत्यपराक्रमम्॥२१॥यजनं विक्रमं चैव ब्रह्मपूर्वाः प्रचक्रिरे ।ब्रह्मापि वैष्णवं तेजो वेदोक्तैर्वचनैर्नृप ॥२२॥ब्राह्मणैर्ब्रह्मविद्भिश्च ब्रह्मज्ञैर्ब्रह्मवादिभिः ।शुचिभिः कर्मनिर्मुक्तैः सत्यव्रतपरायणैः ॥२३॥धातुभिर्मोक्षकाले च महात्मा सम्प्रदृश्यते ।तदेव परमं ब्रह्म वैष्णवं परमाद्भुतम् ॥२४॥रसात्मकं तदैश्वर्यं विकारान्ते प्रदृश्यते ।घोररूपा विकारास्ते व्यथयन्ति महात्मनः॥२५॥संछाद्यातीव तोयेन क्षुभ्यमाणो विचेतनः ।ऊर्मिभिश्छाद्यते चैव शीतोष्णाभिर्विकारतः ॥२६॥महार्णवगतश्चैव दह्यते न च मज्जते ।मग्नश्चैव महानद्याः सलिले नैव सीदति ॥२७॥सीदमानश्च सलिले स शीते पात्यते बलात् ।व्यसनाच्छादनाच्चैव मुच्यमानो विचेतनः ॥२८॥श्वभ्रे प्रपद्यमानश्च तोयेन परिषिच्यते ।शुक्लवर्णेन बहुना स्रोतसा मूर्ध्नि सर्वशः ॥२९॥ऊर्ध्वं ज्योतिरवेक्षंश्च शुक्लैः पीतैश्च बाध्यते ।वारिदपूर्णैः सुगम्भीरैर्विद्युद्भिरिव भासितैः ॥३०॥एतैर्विकारैः संवृत्तैनिर्रुद्धैश्चैव सर्वशः ।ध्रुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः ॥३१॥रसात्मकं तदैश्वर्यं जिह्वाग्रादभिनिःसृतम् ।सहस्रधारं विततं मेघत्वं समुपागतम् ॥३२॥रसांश्च विविधान् योगात् संसिद्धः सृजते प्रभुः ।धात्वर्थं सर्वभूतानां योगप्राप्तेन हेतुना ॥३३ ।तेजसो रूपमैश्वर्यं विकारैः सह वर्धते ।आत्मनो विघ्नजननं स्वस्थो ब्राह्मणकारणे ॥३४उप्ररूपैर्विरूपैश्च हन्यते दण्डपाणिभिः ।घोररूपैः सुगम्भीरैः पिङ्गाक्षैर्नरविग्रहैः ॥३५॥नेत्रं समुद्धरन् भीमो जिह्वाग्रं चास्य विन्दति ।नदन्ति युगपन्नादं जृम्भमाणाः पुनः पुनः ॥३६॥पुनरेव तदा भूत्वा बहुरूपास्तदाभवन् ।नृत्यमानाः प्रगायन्ति तर्पयन्तो विशेषतः ॥३७॥स्त्रीभूताश्च ततः सर्वे युञ्जानाश्चावलम्बिरे ।कण्ठेऽस्य बहुरूपत्वाद् विघ्नैश्चैव प्रलोभयन् ॥३८॥मधुरैरभिधानैश्च व्याहरन्ति न भीतवत् ।पतन्ति युगपत् सर्वे पादयोर्मूर्धभिर्युताः ॥३९॥प्रसादं काङ्क्षमाणाश्च योगस्यान्तरविघ्नतः ।बहुप्रकारं कथयन् नृत्यन्ति च तरन्ति च ॥४०॥एतैर्विकारैः संवृत्तैर्निरुद्धैश्चैव सर्वशः ।भुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः ॥४१॥तदर्चिष इवाग्नेया आदित्यस्येव रश्मयः ।तेजोरूपकमैश्वर्यं जनितास्तेजबिन्दवः ॥४२॥ज्योतींषि चैव संवृत्ता आकाशे गुणसंवृताः ।चरन्ति लोके सततं सूर्याचन्द्रमसोर्गतिम् ॥४३चन्द्रसूर्यात्मकं दिव्यं ज्योतिः सघनमुत्तमम् ।एतद् विभ्राजते लोके कालचक्रं ध्रुवं वरम् ॥४४॥अर्धमासाश्च मासाश्च ऋतुसंवत्सराण्यथ ।क्षणा लवा मुहूर्ताश्च कलाः काष्ठास्तथैव च ॥४५॥अहोरात्रप्रमाणं च निमिषोन्मेषणं तथा ।ताराणां गतयश्चैव ग्रहाणां च विशेषतः ॥४६॥अथ पार्थिवमैश्वर्यं विकारग्रहसम्भवम् ।योगयुक्तास्त्वभिग्रस्ताः पात्यन्ते ह्यचलासनात्॥४७॥अलोभाच्छिद्यते सद्यो वेपमानोऽनुकीर्त्यते ।सीदते वसुधामध्ये भिद्यमानः पुनः पुनः ॥४८॥भूतानां बहुरूपैश्च अन्यैश्च तलवासिभिः ।विषयैर्युज्यते क्षिप्रं संक्षेपात् समवरुद्ध्यते ॥४९॥ततः पार्थिवमैश्वर्यं सेवमानश्च सर्वतः ।मूर्तिमद्भिश्च बहुधा धातुभिः स च हन्यते ॥५०॥शक्तितोमरनिस्त्रिंशैर्गदाभिश्चाप्यनेकधा ।असिभिः पात्यते चैव क्षुरधारैः सहस्रशः ॥५१॥भिद्यते चैव बाणाग्रैः सुतीक्ष्णैर्मर्मभेदिभिः ।एभिर्विकारैर्निर्वृत्तैर्निरुद्धैश्चैव सर्वशः ॥५२॥भुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ।ततः पार्थिवमैश्वर्यं निर्मुक्तस्य विकारतः ॥५३॥प्रादुर्भवति संजाते समाधौ प्रलयं गते ।दिव्यं गन्धं समाघ्राय दिव्यार्थांस्ताञ्छृणोति च ॥५४॥दिव्यरूपैश्च पुरुषैश्छिद्यते न च भिद्यते ।गच्छन् सुकृतिनां चान्तः प्रधानात्मा क्षरन्निव ॥५५॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP