TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकविंशत्यधिकशततमोऽध्यायः

भविष्यपर्व - एकविंशत्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


एकविंशत्यधिकशततमोऽध्यायः
हंसडिम्भकयोः सेनयोः पुष्करतीर्थे प्रवेशः

वैशम्पायन उवाच
अथ तौ हंसडिम्भकौ जग्मतुः पुष्करं प्रति ।
प्रगृहीतमहाचापौ सरथौ सध्वजौ नृप ॥१॥
पुरःसरमहाभूतौ संहरन्ताविवोल्बणौ ।
प्रकुर्वन्तौ सिंहरवं भस्मना परिलेपितौ ॥२॥
त्रिपुण्ड्रकललाटान्तौ रुद्राक्षपरिशोभितौ ।
अन्यौ द्वाविव रुद्रौ तौ लोकसंहारकारकौ ॥३॥
ततोऽनुजग्मुः शतशः सैन्यानि नृपसत्तम ।
अक्षौहिण्यो दशैवासंस्तयोरथ समागताः ॥४॥
विचक्रस्तु महाराज दानवो नगसंनिभः ।
तयोरेव सखा पूर्वमासीच्च बलशालिनोः ॥५॥
शक्रो यस्य पुरःसरः स्थातुं शक्तो न वज्रभृत् ।
यो हि वीरो महाराज देवदैत्यसमागमे ॥६॥
देवान् निघ्नंस्तथा राजन् देवेन्द्रमजयन्महान् ।
अकरोच्च पुरा युद्धं विष्णुना प्रभविष्णुना ॥७॥
यो हि द्वारवतीं प्राप्य बबाधे यदुपुङ्गवान् ।
स तदानीं महाराज श्रुत्वा युद्धमुपस्थितम् ॥८॥
अनेकशतसाहस्रैर्दानवैः परिघायुधैः ।
वृतः समभवद् दैत्यो वृष्णिद्वेषान् नृपोत्तम ॥९॥
हंसस्य डिम्भकस्याथ साहाय्यं कर्तुमुद्यतः ।
विचक्रस्याथ दैत्यस्य हिडिम्बो राक्षसेश्वरः ॥१०॥
अतीव मित्रतां यातो दद्यात् प्राणांश्च संयति ।
राक्षसैरपरैः सार्धं शिलाशूलासिपाणिभिः ॥११॥
ययौ तस्य सहायार्थं हिडिम्बः पुरुषादपः ।
अष्टाशीति सहस्राणि राक्षसास्तस्य चाभवन् ॥१२॥
अनुयाता महाराज शिलापरिघबाहवः ।
तयोस्तत्र महासैन्यं गच्छतोः केशवं प्रति ॥१३॥
मिश्रितं दैत्यसंघैश्च राक्षसैश्च समन्ततः ।
अत्यद्भुतं महारौद्रं त्रैलौक्यभयदायकम् ॥१४॥
दैत्येन सहितौ तौ हि जग्मतुः पुष्करं प्रति ।
तावेतौ हंसडिम्भकौ हन्तुं केशवमञ्जसा ॥१५॥
ततः श्रुत्वा जरासंधो विग्रहं यदुभिः सह ।
नाकरोन्नृपसाहाय्यं पापं मे भवितेति ह ॥१६॥
गच्छतोः समितिं राजन्हंसस्य डिम्भकस्य च ।
अतित्वरितविक्रान्तास्ते ययुः पुष्करं प्रति ॥१७॥
सिंहनादं विमुञ्चन्तः कथयन्तः परस्परम् ।
अहमेव नृपा युद्धं करोमि प्रथमं हरेः ॥१८॥
इत्यब्रुवन् नृपा राजञ्छतशः केशवं प्रति ।
सम्प्राप्तास्ते नृपश्रेष्ठाः पुष्करं पुण्यवर्धनम् ॥१९॥
मुनिजुष्टं तपोवृद्धैर्ऋषिभिश्च निषेवितम् ।
अत्यन्तभद्रं लोकेषु पुष्करं प्रथमं नृप ॥२०॥
पुष्करं पुण्डरीकाक्षो द्वावेव जगतीपते ।
दर्शनात् स्पर्शनाच्चैव किल्विषच्छेदिनौ नृप॥२१॥
पुष्करं पुण्डरीकाक्षो द्वावेव नृपसत्तम ।
सेव्यमानौ मुनिश्रेष्ठैरमरौघैर्महात्मभिः ॥२२॥
द्वावेव हि नृपश्रेष्ठ सर्वपापप्रणाशकौ ।
तावुभौ यत्र सहितौ तत्र ते संस्थिता नृपाः ॥२३॥
दृष्टवन्तो हरिं विष्णुं विष्टरश्रवसं परम् ।
पुष्करं पुण्यनिलयं तीर्थं ब्रह्मनिषेवितम् ॥२४॥
ताभ्यां कुरु नमस्कारं मनसा नृपसत्तम ।
अहो निःशेषमभवत् तत्र भूयो न संशयः ॥२५॥
सैन्यं तत्र च सम्प्राप्तं दैत्यरक्षःसमाकुलम् ।
अनेकभेरीपणवझर्झरीडिण्डिमाकुलम् ॥२६॥
नानापणवसम्मिश्रं रक्षोनादविनादितम् ।
प्रविश्य सरसस्तीरं पुष्करस्य विशाम्पते ।
दर्शयामास देवेशं युद्धाय समुपस्थितम् ॥२७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने युद्धार्थं हंसडिम्भकसैन्यानां पुष्करागमने एकविंशत्यधिकशततमोऽध्यायः ॥१२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-07-20T15:06:33.0130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ataractic drug

  • प्रशामक औषध 
RANDOM WORD

Did you know?

मानवाच्या मनांत शुभ अशुभ विचार चालू असतांत, अशा क्रियेला काय म्हणतात?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.