संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व| चतुर्विंशत्यधिकशततमोऽध्यायः भविष्य पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्याय पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्याय्ः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशाधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः पञ्चविंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः एकोनत्रिंशदधिकशततमोऽध्यायः त्रिंशदधिकशततमोऽध्यायः एकत्रिंशदधिकशततमोऽध्यायः द्वात्रिंशदधिकशततमोऽध्यायः त्रयस्त्रिंशदधिकशततमोऽध्यायः चतुस्त्रिंशदधिकशततमोऽध्यायः पञ्चत्रिंशदधिकशततमोऽध्यायः भविष्यपर्व - चतुर्विंशत्यधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुर्विंशत्यधिकशततमोऽध्यायः Translation - भाषांतर हंसबलभद्रयोः युद्धम्वैशम्पायन उवाचबलदेवस्तु धर्मात्मा धनुरादाय सत्वरम्जघान हंसं दशभिर्बाणैर्बाणभृतां वर॥तं प्रत्यविध्यन्नाराचैर्हंसः पञ्चभिराशुगैःतानन्तरे हली छित्त्वा नाराचैर्दशभिः पुनः ।नाराचेनाशु विव्याध ललाटे हंसमोजसा ॥२॥दृढं पतन् स नाराचस्तस्य संज्ञां समाददे ।रथोपस्थे चिरं स्थित्वा तूणाद् बाणं समाददे ॥३॥लब्ध्वा हंसः स संज्ञां तु विद्ध्वा तेन यदूत्तमम् ।सिंहवद् व्यनदद्धंसो देवान् विस्मापयन् रणे ॥४॥ततः क्रुद्धो हली विद्धस्तेन बाणेन माधवः ।वमञ्छोणितमत्युष्णं निःश्वसंश्च रणाजिरे ॥५॥लोहिताविष्टगात्रस्तु कुंकुमार्द्र इवाभवत् ।नाराचैः शतसाहस्रैरर्दयामास माधवः ॥६॥हंसं हंसगतिं वीरं नीलवासा हलायुधः ।ते मुक्ता निशिता घोरा नाराचाश्च सुवाजिनः ॥७॥रथे ध्वजे तथा चापे चक्रे तूणीद्वये नृप ।पतिताः सर्वतो राजन् व्यथां चैव तथा ददुः ॥८॥ततः क्रुद्धो महाराज हंसो वीर्यमदान्वितः ।शरेण हलिनं विद्ध्वा ध्वजं चिच्छेद कालवित् ॥९॥शरैश्चतुर्भिरश्वांश्च सूतं प्रेताधिपे ददौ ।ततः क्रुद्धो हली तस्मै गदां गृह्य महारणे ॥१०॥आपपात महाबाहुर्हंसं शेष इव श्वसन् ।तया रथं ध्वजं चक्रमश्वान् सूतं हलायुधः ।बभञ्ज तिलशः सर्वं ननाद च पुनः पुनः ॥११॥भूयश्च गदया हंसं चिक्षेप च बली किल ।सोऽपि हंसो गदां गृह्य रथात्तस्मादवापतत् ॥१२॥ततस्तौ हंसहलिनौ युयुधाते महारणे ।महारथौ महाबाहू लोके प्रथिततेजसौ ॥१३॥अत्यद्भुतं सुविक्रान्तौ परस्परवधैषिणौ ।कृतश्रमौ महायुद्धे हंसविक्रान्तगामिनौ ॥१४॥यथा देवासुरे युद्धे शक्रवृत्रौ पुराम्बरे ।उभौ संसिक्तसर्वाङ्गौ शोणितेन महारणे ॥१५॥अत्यन्तखेदिनौ युद्धे परस्परबलेन ह ।ततश्च दक्षिणं मार्गं बलभद्रोऽन्वगच्छत ॥१६॥सव्यं तु हंसो राजेन्द्र व्यगृह्णात् स्वयमेव हि ।पोथयाञ्चक्रतुर्युद्धे गदाभ्यां गजविक्रमौ ॥१७॥यथाप्राणं महाबाहू जघ्नतुर्मरणाय तौ ।अतिप्रवृद्धं संग्रामं देवासुररणोपमम् ॥१८॥विदधाते महारङ्गे पश्यतां त्रिदिवौकसाम् ।देवाश्च मुनयश्चैव विस्मयं परिजग्मिरे ॥१९॥अहो खल्वीदृशं युद्धं दृष्टं पूर्वं न च श्रुतम् ।इत्यूचुर्विस्मयवशाद् देवगन्धर्वकिन्नराः ॥२०॥परस्परकृतोत्साहौ चक्रतुर्युद्धमुत्तमम् ।अथ हंसो महारङ्गे दक्षिणं दक्षिणोत्तमः ।व्यचरन्मार्गमत्यर्थं सव्यं तु बलवान् बलः ॥२१॥निकुञ्च्य जानुनी पूर्वं चक्रतुर्गदया भृशम् ।रणे रणविदां श्रेष्ठौ पश्यतां त्रिदिवौकसाम् ॥२२॥इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसबलभद्रयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः ॥१२४॥ N/A References : N/A Last Updated : July 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP