संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ५९ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ५९ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ५९ Translation - भाषांतर अथैकोनषष्टितमोऽध्यायः ।भगवानुवाच ।लोकांस्तु सृजता पूर्वं गावः सृष्टाः स्वयम्भुवा ।प्रीत्यर्थं सर्वभूतानां तस्मात्ता मातरः स्मृताः १तास्तु दत्त्वा सौरभेयीः स्वर्गलोके महीयते ।तस्मात्ता वर्णयिष्यामि दानं चासां यथाविधि २यादृशी विधिना येन दातव्या यादृशाय च ।द्विजाय पोषणार्थं तु होमधेनुकृते न वै ३प्रथमा गौरकपिला ।द्वितीया गौरपिङ्गला ।तृतीया रक्तकपिला ।चतुर्थी नीलपिङ्गला ।पञ्चमी शुक्लपिङ्गाक्षी ।षष्ठी तु शुक्लपिङ्गला ।सप्तमी चित्रपिङ्गाक्षी ।अष्टमी बभ्रुरोहिणी ।नवमी श्वेतपिङ्गाक्षी ।दशमी श्वेतपिङ्गला ।तादृशा येऽप्यनड्वाहः कपिलास्ते प्रकीर्तिताः ।ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कदाचन ।धेनुं दत्त्वा सुव्रतां सोपधानां कल्याणवत्सां च पयस्विनीं च ।यावन्ति रोमाणि भवन्ति धेन्वा दुह्येत कामान्नृप वर्षाणि तावत् ४प्रयच्छते यः कपिलां सवत्सां ।कांस्योपदोहां कनकाग्रशृङ्गीम् ।तैस्तैर्गुणैः कामदुघा हि भूत्वा ।नरं प्रदातारमुपैति सा गौः ५गोसहस्रं तु यो दद्यात्सर्वकामैरलङ्कृतम् ।परां वृद्धिं श्रियं प्राप्य स्वर्गलोके महीयते ६दश चोभयतः प्रेत्य मातामहपितामहैः ।गच्छेत्सुकृतिनां लोकान्गावो दत्त्वा यथाविधि ७दायादलब्धैरर्थैर्यो गवाः क्रीत्वा प्रयच्छति ।तस्यापि चाक्षया लोका भवन्तीह परत्र च ८यो द्यूतेन धनं जित्वा क्रीत्वा गावः प्रयच्छति ।स गच्छेद्विरजांल्लोकान्गोप्रदानफलार्जितान् ९प्रतिगृह्य तु यो दद्याद्गावः शुद्धेन चेतसा ।स गत्वा दुर्गमं स्थानममरैः सह मोदते १०यश्चात्मविक्रयं कृत्वा गावो दद्याद्यथाविधि ।स गत्वा विरजांल्लोकान्सुखं वसति देववत् ११सङ्ग्रामे यस्तनुं त्यक्त्वा गावः क्रीत्वा प्रयच्छति ।देहविक्रयमूल्यस्ताः शाश्वताः कामदोहनाः १२रूपान्विताः शीलवयोपपन्नाः सर्वाः प्रशस्ता हि सुगन्धवत्यः ।यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा १३अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणांस्त्यक्त्वा सोदकाः सोद्वहाश्च ।कृच्छ्रोत्सृष्टाः पोषणायाभ्युपेता द्वारैरेतैर्गोविशेषा वरिष्ठाः १४तिस्रो रात्र्! यश्चाप्युपोष्येह दाता तृप्ता गा वै तर्पितेभ्यः ।प्रयच्छेत् ।वत्सैः पीताः सोपधानास्त्र्! यहं च दत्त्वा गा वै गोरसैर्वर्तितव्यम् १५लोके ज्येष्ठा लोकवृत्तान्तवृत्ता ।वेदैर्गीताः सोमनिष्यन्दभूताः ।सौम्याः पुण्याः कामदाः प्राणदाश्च ।गावो दत्त्वा सर्वदा सन्ति सन्तः १६न चैवासां दानमात्रं प्रशस्तं ।पात्रं कालो गोविशेषो विधिश्च ।दृष्ट्वा गावः पावकादित्यभूताः ।स्वाध्यायाढ्ये पात्रवर्ये विशिष्टे १७वैतानस्थं सत्यवाक्यं कृतज्ञं ।गोषु क्षान्तं गोशरण्यं सुवृत्तं ।शस्तं पात्रं गोप्रदानस्य भूमेस् ।तथा सुवर्णस्य च सर्वकालम् १८भिक्षादानं चाधिकं सम्प्रशस्तं पाथोदानं चान्नदानं तथा च ।भिक्षते बहुभृत्याय श्रोत्रियायाहिताग्नये ।दातव्या गौः प्रयत्नेन एकाप्यतिफला हि सा १९तां चेद्विक्रीणते राजन्वचसा कलुषीकृताम् ।नासौ प्रशस्यते विप्रो ब्राह्मणो नैव स स्मृतः २०तस्याधर्मप्रवृत्तस्य लुब्धस्यानृतवादिनः ।हव्यकव्यव्यपेतस्य न देया गौः कथञ्चन २१जीर्णां चैवोपभुक्तां च जरत्कूपमिवाफलाम् ।तमः प्रविशते दाता द्विजं क्लेशेन योजयन् २२दुष्टाः कृशाश्चैव पालयतीश्च ।नैतादृशा दानयोग्या भवन्ति ।क्लेशैर्विप्रं योऽफलैः संयुनक्ति ।गच्छेत्स तिर्यग्विफलांश्च लोकान् २३अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् ।युगन्धरं बलवन्तं युवानं प्राप्नोति लोकान्दशधेनुदस्य २४प्रयच्छते यः पुरुषो द्विजाय स्वाध्यायचारित्रगुणान्विताय ।बलेन युक्तं वृषभं तु नीलं षडाङ्गवं प्रीतिकरं सुरूपम् २५युवानं बलिनं श्यामं शतेन सह यूथपम् ।गवेन्द्रंब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् २६वृषभं ये प्रयच्छन्ति श्रोत्रियायाहिताग्नये ।ते गत्वा तद्गवां लोकं देवलोकान्महत्तरम् ।तत्र स्थित्वा तु सुचिरं सर्वकामैः सुतर्पिताः ।ऐश्वर्ये तेऽभिजायन्ते जायमानाः पुनः पुनः २७सदक्षिणां काञ्चनरूप्यशृङ्गीं कांस्योपदोहां कनकोत्तरीयाम् ।धेनुं तिलानां कनकोत्तरीयां लोका वसूनामचला भवन्ति २८तिलालाभे तु यो दद्याद्घृतधेनुं यतव्रतः ।स दुर्गात्तारितो धेन्वा ब्रह्मलोके महीयते २९घृतालाभे तु यो दद्याज्जलधेनुं यतव्रतः ।स सर्वं तरते दुर्गं जलं दिव्यं समश्नुते ३०ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ।एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ३१उपगम्य तु यो दद्याद्गावः शुद्धेन चेतसा ।यावन्ति तासां रोमाणि तावत्स्वर्गे महीयते ३२शृणु त्वं मे गवां लोका यादृशा यत्र वा स्थिताः ।मनोज्ञा रमणीयाश्च सर्वकामदुघाः सदा ३३पुण्याः पापहराश्चैव गवां लोका न संशयः ।अत्यन्तसुखिनस्तत्र सर्वपापविवर्जिताः ३४प्रमोदन्ते महास्थाने नरा विगतकल्मषाः ।ते व्रजन्ते विमानेषु ग्रहा दिवि गता इव ३५एवं यैर्दत्तसत्काराः सुरभ्यश्चार्चिताः सदा ।काअरूपा महात्मानः पूता विगतकिल्बिषाः ३६तुल्यप्रभावा देवैस्ते मोदन्तेऽप्सरसां गणैः ।गन्धर्वैरुपगीयन्ते गोशरण्या न संशयः ३७ब्रह्मण्याः साधुवृत्ताश्च दयावन्तोऽनुकम्पिनः ।घृणिनः शुभकर्माणो मोदन्ते तेऽमरैः सह ३८यथैव सलिले मत्स्यः सलिलेन सहोह्यते ।गोभिः पापकृतं कर्म दृढमेव मयोह्यते ३९मातरः सर्वभूतानां प्रजासंरक्षणे स्मृताः ।ब्रह्मणा लोकसारेण गावः पापभयापहाः ४०तासु दत्तासु राजेन्द्रकिं न दत्तं भवेदिह ।कृशाय तु विशेषेण वृत्तिग्लानाय सीदते ४१इति विष्णुधर्मेषु गोप्रदानम् । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP