संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ७७ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ७७ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ७७ Translation - भाषांतर अथ सप्तसप्ततितमोऽध्यायः ।शौनक उवाच ।सपर्वतवनामुर्वीं दृष्ट्वा सङ्क्षुभितां बलिः ।पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः १आचार्य क्षोभमायाति साब्धिभूभृद्धरा मही ।कस्माच्च नासुरान्भागान्प्रतिगृह्णन्ति वह्नयः २इति पृष्टोऽथ बलिना काव्यो वेदविदां वरः ।उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ३अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः ।वामनेनेह रूपेण परमात्मा सनातनः ४स नूनं यज्ञमायाति तव दानवपुङ्गव ।तत्पदन्यासविक्षोभादियं प्रचलिता मही ५कम्पन्ते गिरयश्चामी क्षुभिता मकरालयाः ।नैनं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ६सदेवासुरगन्धर्वयक्षराक्षसपन्नगा ।अनेनैव धृता भूमिरापोऽग्निः पवनो नभः ।धारयत्यखिलान्देवमनुष्यादीन्महासुर ७इयमस्य जगद्धातुर्माया कृष्णस्य गह्वरी ।धार्यधारकभावेन यया सम्पिण्डितं जगत् ८तत्सन्निधानादसुरा न भागार्हाः सुरद्विषः ।भुञ्जते चासुरान्भागानमी ते न तवाग्नयः ९बलिरुवाच ।शुक्रस्य वचनं श्रुत्वा हृष्टरोमाब्रवीद्बलिः ।धन्योऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम् ।यज्ञमभ्यागतो ब्रह्मन्मत्तः कोऽन्योऽधिकः पुमान् १०यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् ।द्रष्टुमिच्छन्ति देवोऽसौ मदध्वरमुपैष्यति ११होता भागप्रदो यस्य यमुद्गाता च गायति ।तमध्वरेश्वरं विष्णुं मत्तः कोऽन्य उपैष्यति १२सर्वेश्वरेश्वरे विष्णौ ममाध्वरमुपागते ।यन्मया चार्य कर्तव्यं तन्ममादेष्टुमर्हसि १३शुक्र उवाच ।यज्ञभागभुजो देवा वेदप्रामाण्यतोऽसुर ।त्वया तु दानवा दैत्या यज्ञभागभुजः कृताः १४अयं च देवः सत्त्वस्थः करोति स्थितिपालनम् ।निसृष्टेश्चायमन्ते च स्वयमत्ति प्रजाः प्रभुः १५त्वयानुबन्धी भविता नूनं विष्णुः स्थितौ स्थितः ।विदित्वैतन्महाभाग कुरु यत्ते मनोगतम् १६त्वयास्य दैत्याधिपते स्वल्पकेऽपि हि वस्तुनि ।प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाफलम् १७कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः ।नालं दातुं धनं देवेत्येवं वाच्यं तु याचतः ।कृष्णस्य देवभूत्यर्थं प्रवृत्तस्य महासुर १८बलिरुवाच ।ब्रह्मन्कथमहं ब्रूयामन्येनापि हि याचितः ।नास्तीति किमु देवेन संसाराघौघहारिणा १९व्रतोपवासैर्विविधैर्यः प्रतिग्राह्यते हरिः ।स चेद्वक्ष्यति देहीति गोविन्दः किमतोऽधिकम् २०यदर्थमुपहाराढ्या दमशौचगुणान्वितैः ।यज्ञाः क्रियन्ते देवेशः स मां देहीति वक्ष्यति २१तत्साधु सुकृतं कर्म तपः सुचरितं च नः ।यन्मया दत्तमीशेशः स्वयमादास्यते हरिः २२नास्तीत्यहं गुरो वक्ष्ये तमप्यागतमीश्वरम् ।यदि तद्वञ्च्यते प्राप्ते नूनमस्मद्विधः फलैः २३यज्ञेऽस्मिन्यदि यज्ञेशो याचते मां जनार्दनः ।निजमूर्धानमप्यद्य तद्दास्याम्यविचारितम् २४नास्तीति यन्मया नोक्तमन्येषामपि याचताम् ।वक्ष्यामि कथमायाते तदनभ्यस्तमच्युते २५श्लाघ्य एव हि धीराणां दानादापत्समागमः ।नाबाधाकारि यद्दानं तदङ्गमलवत्कथम् २६मद्राज्ये नासुखी कश्चिन्न दरिद्रोन चातुरः ।नातृषितो न चोद्विग्नो न स्रगादिविवर्जितः २७हृष्टतुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः ।जनः सर्वो महाभाग किमुताहं सदा सुखी २८एतद्विशिष्टपात्रोत्थं दानबीजफलं मम ।विदितं भृगुशार्दूल मयैतत्त्वत्प्रसादतः २१एतद्विजानतो दानबीजं पतति चेद्गुरो ।जनार्दने महापात्रे किं न प्राप्तं ततो मया ३०मत्तो दानमवाप्येशो यदि पुष्णाति देवताः ।उपभोगान्वयगुणं दानं श्लाघ्यतरं ततः ३१मत्प्रसादपरो नूनं यज्ञेनाराधितो हरिः ।तेनाभ्येति न सन्देहो दर्शनादुपकारकृत् ३२अथ कोपेन वाभ्येति देवभागोपरोधिनम् ।मां निहन्तुमतोऽपि स्याद्वधः श्लाघ्यतरोऽच्युतात् ३३यन्मयं सर्वमेवेदं नाप्राप्य यस्य विद्यते ।स मां याचितुमभ्येति नानुग्रहमृते हरिः ३४यः सृजत्यात्मभूः सर्वं चेतसैवापहन्ति च ।स मां हन्तुं हृषीकेशः कथं यत्नं करिष्यति ३५एतद्विदित्वा तु गुरो दानविघ्नपरेण मे ।नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ३६शौनक उवाच ।इत्येवं वदतस्तस्य प्राप्तस्तत्र जगपतिः ।सर्वदेवमयोऽचिन्त्यो मायावामनरूपधृक् ३७तं दृष्ट्वा यज्ञवाटान्तःप्रविष्टमसुराः प्रभुम् ।जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ३८जेपुश्च मुनयस्तत्र ये समेता महाध्वरे ।बलिश्चैवाखिलं जन्म मेने सफलमात्मनः ३९ततः सङ्क्षोभमापन्नो न कश्चित्किञ्चिदुक्तवान् ।प्रत्येको देवदेवेशं पूजयामास चेतसा ४०अथासुरपतिं प्रह्वं दृष्ट्वा मुनिवरांश्च तान् ।देवदेवपतिः साक्षाद्विष्णुर्वामनरूपधृक् ४१तुष्टाव यज्ञं वह्निंश्च यजमानमथ र्त्विजः ।यज्ञकराधिकारस्थान्सदस्यान्द्रव्यसम्पदम् ४२ततः प्रसन्नमखिलं वामनं प्रति तत्क्षणात् ।यज्ञवाटस्थितं वीरं साधु साध्वित्युदीरयन् ४३स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा ।पूजयामास गोविन्दं प्राह चेदं वचोऽसुरः ४४बलिरुवाच ।सुवर्णरत्नसङ्घातं गजाश्वममितं तथा ।स्त्रियो वस्त्राण्यलङ्कारान्गावो ग्रामांश्च पुष्कलान् ४५सर्वस्वं सकलामुर्वीं भवतो वा यदीप्सितम् ।तद्ददामि वृणुष्व त्वं ममार्थी सततं प्रियः ४६इत्युक्तो दैत्यपतिना प्रीतिगर्वान्वितं वचः ।प्राह सस्मितगम्भीरं भगवान्वामनाकृतिः ४७ममाग्निशरणार्थाय देहि राजन्पदत्रयम् ।सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ४८बलिरुवाच ।त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर ।शतं शतसहस्रं वा पदानां मार्गतां भवान् ४९वामन उवाच ।एतावता दैत्यपते कृतकृत्योऽस्मि मार्गताम् ।अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ५०एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः ।वाचयामास तत्तस्मै वामनाय पदत्रयम् ५१पाणौ तु पतिते तोये वामनो भूतभावनः ।सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ५२चन्द्रसूर्यौ च नयने द्यौः शिरश्चरणौ क्षितिः ।पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ५३विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।यक्षा नखेषु सम्भूता रेखास्वप्सरसः स्थिताः ५४दृष्टिर्धिष्णान्यशेषाणि केशाः सूर्यांशवः प्रभो ।तारका रोमकूपाणि रोमाणि च महर्षयः ५५बाहवो विदिशस्तस्य दिशः श्रोत्रं महात्मनः ।अश्विनौ श्रवणौ तस्य नासा वायुर्महाबलः ५६प्रसादश्चन्द्रमा देवो मनो धर्मः समाश्रितः ।सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ५७ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा ।स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ५८मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ५९पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु ।सर्वसूक्तानि दशना ज्योतींषि विमलप्रभाः ६०वक्षःस्थले तथा रुद्रोधैर्ये चास्य महार्णवः ।उदरे चास्य गन्धर्वा मरुतश्च महाबलाः ।लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ६१सर्वज्योतींषि यानीह तपश्च परमं महत् ।तस्य देवातिदेवस्य तेजः प्रोद्भूतमुत्तमम् ६२स्तनौ कुक्षौ च वेदाश्च जानू चास्य महामखाः ।इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ६३तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महाबलाः ।उपसर्पन्ति दैतेयाः पतङ्गा इव पावकम् ६४प्रमथ्य सर्वानसुरान्पादहस्ततलैर्विभुः ।कृत्वा रूपं महाकायं स जहाराशु मेदिनीम् ६५तस्य विक्रमतो भुमिं चन्द्रादित्यौ स्तनान्तरे ।नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ६६परं विक्रममाणस्य जानुमूले प्रभाकरौ ।विष्णोरास्तां महीपाल देवपालनकर्मणि ६७जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान् ।पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ६८सुतलं नाम पातालमधस्ताद्वसुधातलात् ।बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ६९अथ दैत्येश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः ७०यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया ।कल्पप्रमाणं तस्मात्ते भविष्यत्यायुरुत्तमम् ७१वैवस्वते तथातीते बले मन्वन्तरे ततः ।सावर्णके च सम्प्राप्ते भवानिन्द्रोभविष्यति ७२साम्प्रतं देवराजाय त्रैलोक्यमखिलं मया ।दत्तं चतुर्युगानां वै साधिका ह्येकसप्ततिः ७३नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः ।तेनाहं परया भक्त्या पूर्वमाराधितो बले ७४सुतलं नाम पातालं तमासाद्य मनोरमम् ।वसासुर ममादेशं यथावत्परिपालयन् ७५तत्र दिव्यवनोपेते प्रासादशतसङ्कुले ।प्रोत्फुल्लपद्मसरसि स्रवच्छुद्धसरिद्वरे ७६सुगन्धिधूपसम्बाधे वराभरणभूषितः ।स्रक्चन्दनादिदिग्धाङ्गो नृत्यगीतमनोरमैः ७७उपभुञ्जन्महाभोगान्विविधान्दानवेश्वर ।ममाज्ञया कालमिमं तिष्ठ स्त्रीशतसंवृतः ७८यावत्सुरैश्च विप्रैश्च न विरोधं करिष्यसि ।तावदेतान्महाभोगानवाप्स्यस्यसुरोत्तम ७९यदा च देवविप्राणां विरुद्धान्याचरिष्यसि ।बन्धिष्यन्ति तथा पाशा वारुणास्त्वामसंशयम् ८०एतद्विदित्वा भवता मयाज्ञप्तमशेषतः ।न विरोधः सुरैः कार्यो विप्रैर्वा दैत्यसत्तम ८१इत्येवमुक्तो देवेन विष्णुना प्रभविष्णुना ।बलिः प्राह महाराज प्रणिपत्य कृताञ्जलिः ८२बलिरुवाच ।तत्रासतो मे पाताले भगवन्भवदाज्ञया ।किं भविष्यत्युपादानमुपभोगोपपादकम् ८३भगवानुवाच ।आप्यायितो येन देव स्मरेयं त्वामहं सदा ।दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च ।हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ८४अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः ।फलानि तव दास्यन्ति अधीतान्यव्रतानि च ८५शौनक उवाच ।बलेर्वरमिदं दत्त्वा शक्राय त्रिविदं तथा ।व्यापिना तेन रूपेण जगामादर्शनं हरिः ८६शशास च यथा पूर्वमिन्द्रस्त्रैलोक्यमूर्जितम् ।सिषेव च परान्कामान्बलिः पातालमाश्रितः ८७इत्येतद्देवदेवस्य विष्णोर्माहात्म्यमुत्तमम् ।वामनस्य पठेद्यस्तु सर्वपापैः प्रमुच्यते ८८बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः ।बलिविष्ण्वोश्च कथितं यः स्मरिष्यति मानवः ८९नाधयो व्याधयो वास्य न च मोहाकुलं मनः ।भविष्यति कुरुश्रेष्ठ पुंसस्तस्य कदाचन ९०च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान् ।अवाप्नोति महाभाग नरः श्रुत्वा कथामिमाम् ९१इति विष्णुधर्मेषु बलिवञ्चनम् । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP