संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ६३ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ६३ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ६३ Translation - भाषांतर अथ त्रिषष्टितमोऽध्यायः ।शौनक उवाच ।गोब्राह्मणहितार्थाय चातुर्वर्ण्यहिताय च ।अशिष्टनिग्रहार्थाय शिष्टानां रक्षणाय च ।युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् १पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च २तान्न हिंसेन्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ।देवा मानुषरूपेण चरन्ति पृथिवीमिमाम् ३इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं ।क्रौर्यं यमाद्वैश्रवणात्प्रभावम् ।सत्त्वस्थितिं रामजनार्दनाभाम् ।आदाय राज्ञः क्रियते शरीरम् ४न चापि राजा मन्तव्यो मनुष्योऽयमिति प्रभो ।महती देवता ह्येषा नररूपेण तिष्ठति ५स्वयमिन्द्रोनरो भूत्वा पृथिवीमनुशासति ।न हि पालयितुं शक्तो मनुष्यः पृथिवीमिमाम् ६यत्प्रजापालनैः पुण्यं प्राप्नुवन्तीह पार्थिवाः ।न तत्क्रतुसहस्रेण प्राप्नुवन्ति द्विजोत्तमाः ७अधीतहुततप्तस्य कर्मणः सुकृतस्य च ।षष्ठं लभति भागं तु प्रजा धर्मेण पालयन् ८ग्रामाधिपत्यं नगराधिपत्यं देशाधिपत्यं पृथिवीपतित्वम् ।न प्राप्नुवन्तीह मनुष्यमात्रा ये देवतानां न भवन्ति भागाः ९न तदस्ति व्रतं लोके यद्राज्ञश्चरितोपमम् ।न तद्वेदरहस्यं वा यद्राज्ञः फलतोऽधिकम् ।एवंवृत्तास्तु राजानो देवभागा न मानुषाः १०चतुर्वेद्यं हुतचन यो हिंसेत नराधिपः ।दण्डस्यैते भयाद्भीता न खादन्ति परस्परम् ।जदण्डभयात्के न दुर्वन्ति हि पातकम् ।यमदण्डभयादन्ये न दुर्वन्ति परस्परम् ।नाभीतो यजते कांश्चन्नाभीतो दण्डमिच्छति ।य एव देवा हन्तारस्तांल्लोकोऽर्चयते भृशम् ।हन्ता शक्रश्च रुद्रश्च हन्ता वैश्रवणो यमः ।वरुणो वायुरादित्यः पर्जन्योऽग्निर्बृहस्पतिः ११एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः ।न ब्रह्माणं न धातारं न पूषाणं कथञ्चन १२दण्डग्रस्तं जगत्सर्वं वश्यत्वमनुगच्छति ।नायं क्लीबस्य लोकोऽस्ति न परः पार्थिवोत्तम १३न हि पश्यामि जीवन्तं राजन्कञ्चिदहिंसया ।उदके जन्तवो नित्यं पृथिव्यां च फलेषु च ।न हत्वा लिप्यते राजा प्रजा धर्मेण पालयन् १४यदि दण्डो न विद्येत दुर्विनीतास्तथो नराः ।हन्युः पशून्मनुष्यांश्च याज्ञियानि हविंषि च १५वृकवत्क्षपयेयुश्च यो यस्य बलवत्तरः ।तस्मात्प्राणिहिते दण्डे हिंसादोषो न बाधते ।नैवोस्त्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः ।युक्ता वहेयुर्यानानि दण्डश्चेन्नोद्यतो भवेत् १६सत्यं किलैतद्यदुवाच शक्रो ।दण्डः प्रजा रक्षति साधुवृत्तः ।यस्याग्नयः प्रतिमासस्य भीताः ।सन्तर्जिता दण्डभयाज्ज्वलन्ति १७यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।प्रजास्तत्र न मुह्यन्ते नेता चेत्साधु पश्यति १८दण्डनीतौ सुनीतायां सर्वे सिध्यन्त्युपक्रमाः ।दण्डश्चेन्न प्रवर्तेत विनश्येयुरिमाः प्रजाः १९वृकवद्भक्षयेयुश्च यो यस्य बलवत्तरः ।काकाद्याश्च पुरोदाशं श्वा चैवावलिहेद्धविः २०स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् ।चातुर्वर्ण्यविमोक्षाय दुर्विनीतभयाय च २१दण्डेन नियतो लोको धर्मस्थानं च रक्षति ।सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः २२दण्डस्य हि भयाद्भीता नरास्तिष्ठन्ति शासने ।तिऽपि भोगाय कल्पन्ते दण्डेनोपरिपीडिताः २३गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनां ।इहप्रच्छन्नपापानां शास्ता वैवस्वतो यमः २४पापानामथ मूढानां परद्रव्यापहारिणाम् ।परदाररता ये च ये च पातकसञ्ज्ञिताः ।तेषां तु शासनार्थाय मयैतत्समुदाहृतम् २५ब्राह्मण्यं दुष्करं ज्ञात्वा तस्य दण्डं निपातयेत् ।कर्मानुरूपो दण्डः स्याद्गोहिरण्यादिको भवेत् ।अवध्यो ब्राह्मणो राजन्स्त्री वृद्धो बाल एव च २६यश्चरेदशुभं कर्म पापं राजविगर्हितम् ।पातकेषु च वर्तेत निग्रहं तस्य कारयेत् २७शिरसो मुण्डनं कृत्वा गोमयेनानुलेपयेत् ।खरयानेन नगरं डिण्डिमेन तु भ्रामयेत् ।राजनिर्दिष्टदण्डस्य प्रायश्चित्तं न विद्यते २८एष ते कथितो दण्डो ब्राह्मणस्य युधिष्ठिर ।क्षत्रियस्य तु यो दण्डस्तं वक्ष्याम्यनुपूर्वशः २९परद्रव्यादिहरणे परदाराभिमर्दने ।पातकेषु च सर्वेषु यो हि वर्तेत क्षत्रियः ।तस्य दण्डं प्रवक्ष्यामि तन्मे निगदतः शृणु ३०हस्तपादपरिच्छेदं कर्णनासावकर्तनम् ।सर्वस्वहरणं कृत्वा परराष्ट्राय प्रेशयेत् ३१राज्यं काङ्क्षेत यो मूढो राजपत्नीमथापि वा ।शरैस्तु राजा विध्येत शक्तिचक्रगदादिभिः ३२क्षत्रियस्य तु दुष्टस्य दण्ड एष विधीयते ।वैश्यस्यापि च यो दण्डस्तं प्रवक्ष्यामि भारत ३३पातकेष्वेव क्रूरेषु यस्तु वैश्यः प्रवर्तते ।परदारे परद्रव्ये तस्य निग्रहमादिशेत् ३४शूलायां भेदनं तस्य वृक्षशाखावलम्बनम् ।एतद्वैश्यस्य निर्दिष्टं शूद्रस्याप्यनुपूर्वशः ३५शूले शूद्रस्य यो दुष्टस्तस्यैकस्य वधः स्मृतः ।कुञ्जरेणाभिमर्देत मीनीयामथ पाचयेत् ।एतच्छूद्रस्य निर्दिष्टं नान्यो दण्डो विधीयते ३६नैकस्यार्थे कुलं हन्यान्न राष्ट्रं न च ग्रामकम् ।धनलोभान्न मोक्तव्यो रागाद्वा शासनं विना ।एकं सुशिष्टितं कृत्वा शेषं कोशं प्रवेशयेत् ३७शौनक उवाच ।युधिष्ठिरस्य राजर्षेरेवं नारायणोऽब्रवीत् ।समासेन यथान्यायं दण्डनीतिमनुत्तमाम् ३८उत्तमाधमकार्येषु समेषु विषमेषु च ।राजधर्मांस्तु पश्येत विष्णुना समुदाहृतान् ३९इति विष्णुधर्मेषु दण्डनीतिः । N/A References : N/A Last Updated : February 22, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP