संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४७

विष्णुधर्माः - अध्याय ४७

विष्णुधर्माः


अथ सप्तचत्वारिंशोऽध्यायः ।
भगवानुवाच ।
धनं प्राप्नोति पुण्येन मौनेनाज्ञां प्रयच्छति ।
उपभोगं तु दानेन जीवितं ब्रह्मचर्यया १

अहिंसया परं रूपं दीक्षया कुलजन्म च ।
फलमूलाशनाद्राज्यं स्वर्गः पर्णाशनो भवेत् २

पयोभक्ष दिवं यान्ति स्नानेन द्रविणाधिकाः ।
शाकं साधयतो राज्यं नाकपृष्ठमनाशनात् ३

स्थण्डिले च शयानस्य गृहाणि शयनानि च ।
चीरवल्कलधारिणां वस्त्राण्याभरणानि च ४

शयनासनयानानि ये गता हि तपोवनम् ।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ५

रसानां प्रतिसंहारात्सौभाग्यमभिजायते ।
आमिषप्रतिषेधात्तु भवत्यायुष्मती प्रजा ६

उदवासं वसेद्यस्तु नागानामधिपो भवेत् ।
सत्यवादी नरश्रेष्ठ देवतैः सह मोदते ७

कीर्तिर्भवति दानेन आरोग्यं चाप्यहिंसया ।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ।
द्विजशुश्रूषया राज्यं दिव्यरूपमवाप्नुते ८

अन्नपानप्रदानेन कामभोगैस्तु तृप्यते ।
दीपालोकप्रदानेन चक्षुष्माञ्जायते नरः ९

गन्धमाल्यप्रदानेन तुष्टिर्भवति पुष्कला ।
केशश्मश्रून्धारयतो ह्यग्रा भवति सन्ततिः १०

वाक्शौचं मनसः शौचं यच्च शौचं जलाश्रयम् ।
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ११

ताम्रायसानां भण्डानां दाता रत्नाधिपो भवेत् ।
लभते तु परं स्थानं बलवान्पुष्यते सदा १२

इति विष्णुधर्मेषु नियमफलानि ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP