संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय २७ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय २७ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय २७ Translation - भाषांतर अथ सप्तविंशोऽध्यायः ।पुलस्त्य उवाच ।अत्रापि श्रूयते सिद्धा काचित्स्वर्गे महाव्रता ।नारी तपोधना भूत्वा प्रख्याता शाम्भरायणी ।समस्तसन्देहहरा सदा स्वर्गौकसां हि सा १कस्यचित्त्वथ कालस्य देवराजः शतक्रतुः ।पूर्वेन्द्रचरितं ब्रह्मन्पप्रच्छेदं बृहस्पतिम् २पूर्वेन्द्रापरतः पूर्वे ये बभूवुः सुरेश्वराः ।तेषां चरितमिच्छामि श्रोतुमाङ्गिरसां वर ३पुलस्त्य उवाच ।एवमुक्तस्तदा तेन देवेन्द्रेणामलद्युतिः ।प्राह धर्मभृतां श्रेष्ठः परमर्षिर्बृहस्पतिः ४नाहं चिरन्तनान्वेद्मि देवराज सुरेश्वरान् ।आत्मनः समकालीनं मामवैहि सुरेश्वर ५ततः पप्रच्छ देवेन्द्रः! कोऽस्माभिर्मुनिपुङ्गव ।प्रष्टव्योऽत्र महाभाग कृतादिवसतिर्दिवि ६पुलस्त्य उवाच ।बृहस्पतिश्चिरं ध्यात्वा पुनराह शचीपतिम् ।तपस्विनीं महाभागां स्मृत्वासौ शाम्भरायणीम् ७न देवा न च गन्धर्वा न चान्ये चिरसंस्थिताः ।चिरन्तनानां चरितेष्वभिज्ञा त्रिदशेश्वर ८एकैव चिरकालज्ञा धर्मज्ञा शक्र केवलम् ।जानात्यखिलदेवेन्द्रचरितं शाम्भरायणी ९इत्युक्तस्तेन देवेन्द्रः! कौतूहलसमन्वितः ।ययौ यत्र महाभागा तापसी शाम्भरायणी १०सा तौ दृष्ट्वा समायातौ देवराजबृहस्पती ।सम्यगर्घ्येन सम्पूज्य प्रणिपत्य शुभव्रता ११शाम्भरायण्युवाच ।नमोऽस्तु देवराजाय तथैवाङ्गिरसे नमः ।यद्वां कार्यं महाभागौ सकलं तदिहोच्यताम् १२बृहस्पतिरुवाच ।आवामभ्यागतौ प्रष्टुं त्वामत्रातिविवेकिनीम् ।यच्च कार्यं महाभागे तत्पृष्टा कथयेह नौ १३यदि स्मरसि कल्याणि पूर्वेन्द्रचरितानि नौ ।तदाख्याहि महाभागे देवेन्द्रस्य कुतूहलात् १४शाम्भरायण्युवाच ।यदि शक्यं मया कर्तुं तत्करिष्ये विमृष्यतु ।यो वै पूर्वः सुरेन्द्रस्य ततश्च प्रथमो हि यः ।तस्मात्पूर्वतरो यश्च तस्यापि प्रथमाश्च ये १५तेषां पूर्वतरा ये च वेद्मि तानखिलानहम् ।तेषां च चरितं कृत्स्नं जानाम्याङ्गिरसां वर १६मन्वन्तराण्यनेकानि सृष्टिं च त्रिदिवौकसाम् ।सप्तर्षीन्सुबहून्देव मनूनां च सुतान्नृप ।तत्पृच्छ त्वं वदाम्येषा पूर्वेन्द्रचरितं मुने १७पुलस्त्य उवाच ।एवमुक्ते ततस्ताभ्यां पृष्टा सा शाम्भरायणी ।यथावदाचष्ट तयोः पूर्वेन्द्रचरितं द्विज १८स्वायम्भुवे यस्तु मनौ मनौ स्वारोचिषे तु यः ।उत्तमे तामसे चैव रैवते चाक्षुषे तथा १९यो यो बभूव देवेन्द्रस्तस्य तस्य तपस्विनी ।तयोर्जगाद चरितं यथावच्छाम्भरायणी २०ततः कौतूहलपरो देवराट्तां तपस्विनीम् ।उवाच जानासि कथं त्वमेतच्छाम्भरायणि २१शाम्भरायण्युवाच ।सर्व एव हि देवेन्द्राः! स्वर्गस्था ये मनीषिणः ।बभूवुरेतच्चरितमेतेषां वेद्मि तेन वै २२इन्द्रउवाच ।किं कृतं वद धर्मज्ञे त्वया येनेयमक्षया ।स्वर्लोके वसतिः प्राप्ता यथा नान्येन केनचित् २३अहो सर्वव्रतानां तदुपोषितं महद्व्रतम् ।प्रधानतरमत्यर्थं स्वर्गसंवासदं मतम् २४पुलस्त्य उवाच ।चरितं च मया तेषां श्रुतं दृष्टं तथैव च ।एवमुक्ता ततस्तेन देवेन्द्रेण यशस्विनी ।प्रत्युवाच महाभागा यथावच्छाम्भरायणी २५शाम्भरायण्युवाच ।मासर्क्षेष्वच्युतो देवः प्रतिमासं सुरेश्वर ।यथोक्तव्रतया सम्यक् सप्त वर्षाणि पूजितः २६तस्येयं कर्मणो व्युष्टिरच्युताराधनस्य मे ।देवलोकादभिमता देवराज यदच्युतिः २७स्वर्गं द्रव्यमयैश्वर्यं सन्ततिं वापि योऽच्युताम् ।नरो वाञ्छति तेनेत्थं तोषणीयोऽच्युतः प्रभुः २८एतत्ते पूर्वदेवेन्द्रचरितं सकलं मया ।स्वर्गवासाक्षयत्वं च मासर्क्षाच्युतपूजनात् २९यथावत्कथितं देव पृच्छतस्त्रिदशेश्वर ।धर्मार्थकाममोक्षांस्तु वाञ्छतां विबुधाधिप ।विष्णोराराधनान्नान्यत्परमं सिद्धिकारणम् ३०पुलस्त्य उवाच ।तस्यास्तद्वचनं श्रुत्वा देवराजबृहस्पती ।तां तथेत्यूचतुः साध्वीं चेरतुश्चापि तद्व्रतम् ३१तस्माद्दाल्भ्य प्रयत्नेन प्रतिमासं समाहितः ।मासर्क्षाच्युतपूजायां भवेथास्तन्मनाः सदा ३२इति विष्णुधर्मेषु मासर्क्षपूजाप्रशंसा । N/A References : N/A Last Updated : February 19, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP