संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय १०३ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय १०३ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय १०३ Translation - भाषांतर अथ त्र्! यधिकशततमोऽध्यायः ।शौनक उवाच ।इत्युक्तेऽप्सरसः सर्वाः प्रणिपत्यातिविस्मिताः ।ऊचुर्नारायणं देवं तद्दर्शनकुतूहलाः १उक्तो भगवता योऽयमुपदेशो हितार्थिनाम् ।प्रोक्तः स सर्वो विज्ञातो माहात्म्यं विदितं च ते २यत्त्वेतद्भवता प्रोक्तं प्रसन्नेनाव्ययात्मना ।दर्शितेयं विशालाक्षी दर्शयिष्यामि वो जगत् ३तन्नाथ सर्वभावेन प्रपन्नानां जगत्पते ।दर्शयात्मानमखिलं दर्शितेयं यथोर्वशी ४यदि देवापराद्धेषु नास्मासु कुपितं तव ।मनस्तज्जगतमीश दर्शयात्मानमात्मना ५देवदेव उवाच ।पश्यतेहाखिलांल्लोकान्मम देहे सुराङ्गनाः ।मधुं मदनमात्मानं यच्चान्यद्द्रष्टुमिच्छथ ६ ६शौनक उवाच ।इत्युक्त्वा भगवान्देवस्तदा नारायणो नृप ।उच्चैर्जहास स्वनवत्तत्राभूदखिलं जगत् ७ब्रह्मा प्रजापतिः शक्रः सह रुद्रैः! पिनाकधृक् ।आदित्या वसवः साध्या विश्वेदेवा महर्षयः ८नासत्यदस्रावनिलाः सर्वे सर्वे तथाग्नयः ।यक्षगन्धर्वसिद्धाश्च पिशाचाः किन्नरोरगाः ९समस्ताप्सरसो विद्याः साङ्गा वेदास्तदुक्तयः ।मनुष्याः पशवः कीटाः पक्षिणः पादपास्तथा १०सरीसृपाश्च ये सूक्ष्मा यच्चान्यज्जीवसञ्ज्ञितम् ।समुद्राः! सकलाः शैलाः सरितः काननानि च ११द्वीपान्यशेषाणि तथा नदाः सर्वसरांसि च ।नगरग्रामपूर्णा च मेदिनी मेदिनीपते ।देवाङ्गनाभिर्देवस्य देहे दृष्टं महात्मनः १२नक्षत्रग्रहताराभिः समवेतं नभस्तलम् ।ददृशुस्ताः सुचार्वङ्ग्यस्तस्यान्तर्विश्वरूपिणः १३नोर्ध्वं न तिर्यङ्नाधश्च यदान्तस्तस्य दृश्यते ।तमनन्तमनादिं च ततस्तास्तुष्टुवुः प्रभुम् १४मदनेन समं सर्वा मधुना च सुराङ्गनाः ।ससाध्वसा भक्तिमत्यः परं विस्मयमागताः १५अप्सरस ऊचुः ।पश्याम नादिं तव देव नान्तं न मध्यमव्याकृतरूपपारम् ।परायणं त्वा जगतामनन्तं नताः स्म नारायणमात्मभूतम् १६मही दिवं वायुजलाग्नयस्त्वं शब्दादिरूपश्च परापरात्मन् ।त्वत्तो भवत्यच्युत सर्वमेतदभेदरूपोऽसि विभो त्वमेभिः १७द्रष्टासि रूपस्य रसस्य वेत्ता श्रोता च शब्दस्य हरे त्वमेकः ।स्प्रष्टा भवान्स्प्रशवतोऽखिलस्य घ्रातासि गन्धस्य पृथक्शरीरी १८सुरेषु सर्वेषु न सोऽस्ति कश्चिन्मनुष्यलोके च न सोऽस्ति कश्चित् ।पश्वादिवर्गे च न सोऽस्ति कश्चिद्यो नांशभूतस्तव देवदेव १९ब्रह्माद्युपेन्द्रप्रमुखानि सौम्येष्विन्द्राग्निरूपाणि च वीर्यवत्सु ।रुद्रान्तकादीनि च रौद्रवत्सु रूपेषु रूपाणि तवोत्तमानि २०समुद्ररूपं तव धैर्यवत्सु तेजस्विरूपेषु रविस्तथाग्निः ।क्षमाधनेषु क्षितिरूपमग्र्यं रूपं तवाग्र्यं बलवत्सु वायुः २१मनुष्यरूपं तव राजसेषु मूढेषु सर्वेश्वर पादपोऽसि ।दर्पान्वितेष्वच्युत दानवस्त्वं सनत्सुजातश्च विवेकवत्सु २२रसस्वरूपेण जले स्थितोऽसि गन्धस्वरूपो भवतो धरित्र्! यम् ।दृश्यस्वरूपश्च हुताशने त्वं स्पर्शस्वरूपो भगवान्समीरे २३शब्दात्मकं ते नभसि स्वरूपं मन्तव्यरूपो मनसि प्रभो त्वम् ।बोधव्यरूपश्च विभो त्वमेकः सर्वत्र सर्वेश्वर सर्वभूतः २४पश्याम ते नाभिसरोजमध्ये ब्रह्माणमेतं च हरं भ्रुकूट्यम् ।तत्राश्विनौ कर्णगतौ समस्ताणवस्थितान्बाहुषु लोकपालान् २५घ्राणेऽनिलं नेत्रगतौ रवीन्दू जिह्वा च ते नाथ सरस्वतीयम् ।पादौ धरित्रीं जठरं समस्तांल्लोकान्हृषीकेश विलोकयामः २६जङ्घे वियत्पादकराङ्गुलीषु पिशाचरक्षोरगसिद्धसङ्घान् ।पुंस्त्वे प्रजानां पतिरोष्ठयुग्मे प्रतिष्ठितास्ते क्रतवः समस्ताः २७सर्वेष्टयस्ते दशनेषु देव दंष्टृआसु विद्या भवतश्चतस्रः ।रोमस्वशेषास्तव देवसङ्घा विद्याधरा नाथ कराङ्घ्रिरेखाः ।साङ्घाः समस्तास्तव देव वेदाः समास्थिता बहुषु सन्धिभूताः २८वराहरूपं धरणीधृतस्ते नृसिंहरूपं च सटाकरालम् ।पश्याम ते वाजिशिरस्तथोच्चैस्त्रिविक्रमे यश्च तवाप्रमेयः २९अमी समुद्रास्तव देव देहे मेर्वादयः शैलवरास्तवामी ।इमाश्च गङ्गाप्रमुखाः स्रवत्यो द्वीपान्यशेषाणि वनानि चैव ३०स्तुवन्ति चैते मुनयस्तवेश देहे स्थितास्त्वन्महिमानमग्र्यम् ।त्वामीशितारं जगतामनन्तं यज्ञेशमर्चन्ति च यज्विनोऽमी ३१त्वत्तो न सौम्यं जगतीह किञ्चित्त्वत्तो न रौद्रंच समस्तमूर्ते ।त्वत्तो न शीतं न च केशवोष्णं सर्वस्वरूपातिशयी त्वमेकः ३२प्रसीद सर्वेश्वर सर्वभूत सनातनात्मन्परमेश्वरेश ।त्वन्मायया मोहितमानसाभिर्यत्तेऽपराद्धं तदिदं क्षमस्व ३३किं वापराद्धं तव देव मूढैर्यन्मायया नो हृदयं तथापि ।पापावशं किं प्रणतार्तिहारिन्मनो हि नो विङ्कलतामुपैति ३४न तेऽपराद्धं यदि वापराद्धमस्माभिरुन्मार्गविवर्तनीभिः ।तत्क्षम्यतां सृष्टिकरस्तवैव देवापराधं सृजतो विवेकान् ३५नमो नमस्ते गोविन्द नारायण जनार्दन ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३६ततोऽनन्त नमस्तुभ्यं विश्वात्मन्विश्वभावन ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ।नमो नमस्ते वैकुण्ठ श्रीवत्साङ्काब्जलोचन ।वरेण्य यज्ञपुरुष प्रजापालक वामन ।नमोऽस्तु तेऽब्जनाभाय प्रजापतिकृते हरे ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३७संसारार्णवपोताय नमस्तुभ्यमधोक्षज ।त्वन्नामस्मरणात्पापमशेषं नः प्रणश्यतु ३८नमः परस्मै श्रीशाय वासुदेवाय वेधसे ।स्वेच्छया गुणभोक्तृत्वे सर्गान्तस्थितिकारिणे ३९उपसंहार विश्वात्मन्रूपमेतत्समन्ततः ।वर्धमानं न नो द्रष्टुं समर्थं चक्षुरीश्वर ४०प्रलयाग्निसहस्रस्य समा दीप्तिस्तवाच्युत ।प्रमाणेन दिशो भूमिर्गगनं च समावृतम् ४१न विद्मः क्व नु वर्तामो भवान्नैवोपलक्ष्यते ।सर्वं जगदिहैकस्थं पिण्डितं लक्षयामहे ४२किं वर्णयामो रूपं ते किं प्रमाणमिदं हरे ।माहात्म्यं किन्तु ते देव जिह्वाया यन्न गोचरम् ४३वक्त्राणामयुतेनापि बुद्धीनामयुतायुतैः ।गुणानां वर्णनं नाथ तव वक्तुं न शक्यते ४४तदेतद्दर्शितं रूपं प्रसादः परमः कृतः ।छन्दतो जगतामीश तदेतदुपसंहर ४५शौनक उवाच ।इत्येवं संस्तुतस्ताभिरप्सरोभिर्जनार्दनः ।दिव्यज्ञानोपपन्नानां तासां प्रत्यक्षमीश्वरः ।विवेश सर्वभूतानि स्वैरंशैर्भूतभावनः ४६तं दृष्ट्वा सर्वभूतेषु लीयमानमधोक्षजम् ।विस्मयं परमं जग्मुः समस्ता देवयोषितः ४७स च सर्वेश्वरः शैलान्पादपान्सागरान्भुवम् ।जलमग्निं तथा वायुमाकाशं च विवेश ह ४८काले दिक्ष्वथ सर्वात्मा मनुष्यात्मन्यथापि च ।आत्मरूपः स्थितः स्वेन महिम्ना भावयञ्जगत् ४९देवदानवरक्षांसि यक्षविद्याधरोरगान् ।मनुष्यपशुकीटादीन्मृगपक्ष्यन्तरिक्षगान् ५०येऽन्तरिक्षे तथा भूमौ दिवि ये ये जलाश्रयाः ।तान्प्रविश्य स विश्वात्मा पुनस्तद्रूपमास्थितः ।नरेण सार्छं यत्ताभिर्दृष्टपूर्वमरिन्दम ५१ताः परं विस्मयं गत्वा सर्वास्त्रिदशयोषितः ।प्रणेमुः साध्यसाः पाण्डुवदना नृपसत्तम ५२नारायणोऽपि भगवानाह तास्त्रिदशाङ्गनाः ।नीयतामुर्वशी भद्रायत्रास्ते त्रिदशेश्वरः ५३भवतीनां हितार्थाय सर्वभूतेष्वसाविति ।ज्ञानमुत्पादितं भूयो लयं भूतेषु कुर्वता ५४तद्गच्छत समस्तोऽयं भूतग्रामो मदंशकः ।अहमप्यात्मभूतस्य वासुदेवस्य योगिनः ५५यस्मात्परतरं नास्ति योऽनन्तः परिपठ्यते ।तमजं सर्वभूतेशं जानीत परमं पदम् ५६अहं भवत्यो देवाश्च मनुष्याः पशवश्च ये ।एतत्सर्वमनन्तस्य देवदेवस्य विस्तृतिः ५७एतज्ज्ञात्वा समं सर्गं सदेवासुरमानुषम् ।सपश्वादिगणं चैव द्रष्टव्यं त्रिदशाङ्गनाः ५८शौनक उवाच ।इत्युक्तस्तेन देवेन समस्तास्ताः सुरस्त्रियः ।प्रणम्य तौ समदनाः सवसन्ताश्च पार्थिव ५९आदाय चोर्वशीं भूयो देवराजमुपागताः ।आचख्युश्च यथावृत्तं देवराजाय तत्तथा ६०तथा त्वमपि राजेन्द्रसर्वभूतेषु केशवम् ।चिन्तयन्समतां गच्छ समतैव हि मुक्तये ६१जानन्नेवमशेषेषु भूतेषु परमेश्वरम् ।वासुदेवं कथं दोषांल्लोभादीन्न प्रहास्यसि ६२सर्वभूतानि गोविन्दाद्यदा नान्यानि भूपते ।तदा वैरादयो भावाः क्रियतां कुत्र पार्थिव ६३इह पश्यञ्जगत्सर्वं वासुदेवात्मकं नृप ।एतदेव हि कृष्णेन रूपमाविष्कृतं तदा ६४परमस्मादपि महद्रूपं यत्कथितं तव ।जन्मादिभावरहितं तद्विष्णोः परमं पदम् ६५सङ्क्षेपेण च भूपाल श्रूयतां यद्वदामि ते ।यन्मतौ पुरुषः कृत्वा परं निर्वाणमृच्छति ६६सर्वं विष्णुः समस्तौ हि भावाभावौ च तन्मयौ ।सदसत्सर्वमीशेशो वासुदेवः परं पदम् ६७भवजलधिगतानां द्वन्द्ववाताहतानां ।सुतदुहितृकलत्रत्राणभारार्दितानाम् ।विषमविषयतोये मज्जतामप्लवानां ।भवति शरणमेको विष्णुपोतो नराणाम् ६८इति विष्णुधर्मेषूर्वशीसम्भवे विश्वरूपप्रदर्शनम् । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP