संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १०४

विष्णुधर्माः - अध्याय १०४

विष्णुधर्माः


अथ चतुरधिकशततमोऽध्यायः ।
शौनक उवाच ।
इत्युक्तं तव धर्मज्ञ विष्णोर्माहात्म्यमुत्तमम् ।
स्वरूपं च जगद्धातुराराधनविनिश्चयः १

आराधितात्फलं यच्च केशवात्प्राप्यते नरैः ।
कथितश्च महाभाग दानानां विस्तराद्विधिः २

योगद्वैधं च कथितमद्वैतं द्वैतमेव च ।
अद्वैतभावनोपायो विस्तराच्च तवोदितः ३

सङ्क्षेपविस्तराभ्यां च सर्वमेतत्तवोदितम् ।
देवदेवस्य माहात्म्यं सर्वगस्याव्ययात्मनः ४

स एष सर्वप्रवरः सर्वभूतश्च माधवः ।
सर्वमत्र च सर्वस्मिन्नेष एव प्रतिष्ठितः ५

त्रियुगं पुण्डरीकाक्षमपवर्गमहाह्रदम् ।
समुत्पत्य पराह्लादमनन्तं प्रतिपद्यते ६

शतानीक उवाच ।
श्रुतमेतन्मया पूर्वं विस्तरेण त्वयोदितम् ।
यत्त्वेतत्त्रियुगेत्युक्तं तस्य निर्वचनं वद ७

चतुर्युगेन कालस्य परिसङ्ख्या यदा द्विज ।
त्रियुगेन तदा विष्णोः क्रियते किं विशेषणम् ८

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
यदा जगति विख्यातं तदा त्रियुगता कुतः ९

शौनक उवाच ।
साधु पृष्टोऽस्मि भूपाल भवता त्रियुगाश्रितम् ।
विशेषणमनन्तस्य गदतस्तन्निशामय १०

काष्ठा पार्थिव विज्ञेया निमेषा दश पञ्च च ।
काष्ठात्रिंशत्कला ज्ञेया मुहूर्तं तावतीः कलाः ११

त्रिंशन्मुहूर्ता भूपाल तथाहोरात्रमुच्यते ।
तत्सङ्ख्यातैरहोरात्रैर्मासः पार्थिवसत्तम १२

अयनं दक्षिणं मासाः षण्मासाश्च तथोत्तरम् ।
अयनद्वितयाख्यश्च कालः संवत्सरः स्मृतः १३

दक्षिणं त्वयनं रात्रिर्देवानामुत्तरं दिनम् ।
संवत्सरेण देवानामहोरारमिहोच्यते १४

शतत्रयेण वर्षाणां षष्ट्या च पृथिवीपते ।
मनुष्यसङ्ख्यया वर्षं देवानामपि गण्यते १५

इति दिव्येन मानेन चतुर्युगविकल्पनाम् ।
कथ्यमानां मया राजन्यथावच्छ्रोतुमर्हसि १६

चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १७

त्रेता त्रीणि सहस्राणि दिव्याब्दानां नरर्षभ ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १८

द्वापरं द्वे सहस्रे तु वर्षाणामभिधीयते ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः १९

कलिः सहस्रमेकं तु दिव्याब्दानां नरर्षभ ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः २०

कृतं नामयुगं पूर्वं यत्र धर्मः सनातनः ।
कृतमेव च कर्तव्यं तस्मिन्काले नृपेप्सितम् २१

न तत्र धर्माः सीदन्ति न च क्षीयन्ति वै प्रजाः ।
ततः कृतयुगं नाअ गुणतः प्रोच्यते युगम् २२

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
नासन्कृतयुगे राजन्न तदा क्रयविक्रयः २३

न सामयजुरृग्वर्णाः क्रिया नासीच्च मानवी ।
नाभिसन्धाय च फलं कश्चिद्धर्मे प्रवर्तते २४

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।
नासूया नापि रुदितं न दर्पो नापि पैशुनम् २५

न विग्रहः कुतस्तन्द्रीन द्वेषो नापि दम्भनम् ।
न भयं नापि सन्तापो न चेर्ष्या नापि मत्सरः २६

ततः परमकं ब्रह्म या गतिर्योगिनां परा ।
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा २७

तस्मिन्नात्मनि लोकानां सर्वलोकमयेऽच्युते ।
स्वेच्छया शौक्ल्यमापन्ने सर्वं भवति निर्मलम् २८

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।
कृते युगे भवन्तीह स्वकर्मनिरताः प्रजाः २९

स्वमाश्रमं स्वमाचारं सम्यग्ज्ञानसमन्वितम् ।
जगद्भवति राजेन्द्रसत्यप्रायं तपोरतम् ३०

एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः ।
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ३१

चतुराश्रमयुक्तेन कर्मणा कालयोगिना ।
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ३२

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।
कृते युगे चतुष्पादश्चतुर्वर्ण्यस्य शाश्वतः ३३

एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ।
त्रेतामपि निबोध त्वं यादृग्रूपं प्रवर्तते ३४

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ।
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ३५

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः ।
त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः ३६

प्रचरन्ति ततो वर्णास्तपोदानपरायणाः ।
स्वकर्मस्थाः क्रियावन्तः समत्वाद्रजसान्विताः ३७

द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते ।
विष्णुः पीतत्वमभ्येति चतुर्धा वेद एव च ३८

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे ।
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ३९

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया ।
तपोदानप्रवृत्ता च राजसी भवति प्रजा ४०

अल्पायुषो नरा वेदः सुमहांश्चेति दुस्तरः ।
करोति बहुधा वेदान्व्यासरूपी तदा हरिः ४१

सत्त्वस्य चाप्यविज्ञानात्सत्त्वे कश्चिद्व्यवस्थितः ।
सत्त्वात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ४२

कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ।
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः ४३

धनकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ।
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ४४

पादेनैकेन राजेन्द्रधर्मः कलियुगेऽपि हि ।
तामसं युगमासाद्य कृष्णो भवति केशवः ४५

व्रताचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ।
ईतयो व्याधयस्तन्द्रीदोषाः क्रोधादयस्तथा ।
उपद्रवाश्च वर्धन्ते मनस्तापाश्च सङ्गताः ४६

युगेष्वावर्तमानेषु लोको व्यावर्तते पुनः ।
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः ।
युगद्वयकृतान्धर्मान्प्रार्थना न च कुर्वते ४७

एतत्कलियुगं भूप यत्र जातोऽसि पार्थिव ।
नात्रावतारं कुरुते कृष्णांशेन स्वरूपिणा ४८

कृतादिषु जगत्पाति दैत्येभ्यो रूपधृद्धरिः ।
कलौ त्वन्यं समाविश्य पूर्वोत्पन्नं बिभर्ति तम् ४९

प्रत्यग्ररूपधृग्देवो दृश्यते न कलौ हरिः ।
कृतादिष्वेव तेनैष त्रियुगः परिपठ्यते ५०

कलेरन्ते च सम्प्राप्ते कल्किनं ब्रह्मवादिनम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्स्थितिम् ५१

पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः ।
कृत्वा प्रवेशं कुरुते यदभिप्रेतमच्युतः ५२

स्वेच्छाशुक्ले जगच्छुक्लं रक्ते रक्तं च जायते ।
पीते च पीततामस्मिन्कृष्णे चात्रासितं नृप ५३

एष एव जगद्देवो जगत्स्रष्टा जगद्गुरुः ।
यद्रूप एव देवोऽयं तद्रूपं जायते जगत् ५४

इति विष्णुधर्मेषु चतुर्युगावस्था ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP