संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ९९ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ९९ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ९९ Translation - भाषांतर अथैकोनशततमोऽध्यायः ।शतानीक उवाच ।कथितं योगमाहात्म्यं भवता मुनिसत्तम ।स्वरूपं तु न मे प्रोक्तं श्रोतुमिच्छामि तद्ध्यहम् १शौनक उवाच ।द्वैविध्यं नृप योगस्य परं चापरमेव च ।तच्छृणुष्व वदाम्येष वाच्यं शुश्रूषतां सताम् २यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम् ।कृत्स्नां वा पृथिवीं दद्यान्न तत्तुल्यं कथञ्चन ३क्षयिष्णून्यपराणीह दानानि मनुजाधिप ।एकमेवाक्षयं शस्तं ज्ञानदानमनुत्तमम् ४दानान्येकफलानीह त्रैलोक्ये ददता सताम् ।ज्ञानं प्रयच्छता सम्यक् किं न दत्तं भवेन्नृप ५ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर ।एकमेव परं ज्ञानं यद्योगप्राप्तिकारकम् ६अहं वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः ।प्राणिनामुपकाराय सम्पदेषा गुणाधिका ७परेण ब्रह्मणा सार्धमेकत्वं यन्नृपात्मनः ।स एव योगो विख्यातः किमन्यद्योगलक्षणम् ८अपरं च परं चैव द्वौ योगौ पृथिवीपते ।तयोः स्वरूपं वक्ष्यामि तदिहैकमनाः शृणु ९सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम् ।दुर्विचिन्त्यं यतः पूर्वं तत्प्राप्त्यर्थमथोच्यते १०वातालीचञ्चलं चित्तमनालम्बनमस्थिति ।सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः ११सम्यगभ्यस्यतोऽजस्रमुपवृंहितशक्तिमत् ।जन्मान्तरशतैर्वापि ब्रह्मग्राह्यभिजायते १२यद्यन्तराय दोषेण नापकर्षो नराधिप ।योगिनो योगरूढस्य तालाग्रात्पतनं यथा १३ज्ञानं प्रयच्छतां सम्यक् किं वदतु भवेन्नृप ।तदाप्नोति परं ब्रह्म क्लेशेन महता नृप ।जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः १४विष्ण्वाख्यं ब्रह्म दुष्प्रापं विषयाकृष्टचेतसा ।मनुष्येणेति तत्प्राप्तावुपायमपरं शृणु १५सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् ।कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः १६तस्याश्च लक्षणं भूप शृणुष्व गदतो मम ।यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि १७सुवर्णरूप्यताम्रैस्तु आरकूटमयीं तथा ।शैलदारुमृदा वापि लेख्यजां वापि कारयेत् १८कार्यस्तु विष्णुर्भगवान्सौम्यरूपश्चतुर्भुजः ।सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः १९आबद्धमकुटः स्रग्वी हारभारार्पितोदरः ।स्वक्षेण चारुचिपुकः सुललाटेन सुभ्रुणा २०स्वोष्ठेन सुकपोलेन वदनेन विराजता ।कण्ठेन शुभलेखेन वराभरणधारिणा २१नानारत्नानतार्ताभ्यां श्रवणाभ्यामलङ्कृतः ।पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः २२मध्येन त्रिवलीभङ्गभूषितेन च चारुणा ।सुपादः सूरुयुगलः सुकटीगुल्फजानुकः २३वामपार्श्वे गदादेवी चक्रं देवस्य दक्षिणे ।शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् २४ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यग्दृष्टिं न कारयेत् ।निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः ।सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च २५कार्यश्चरणविन्यासः सर्वतः सुप्रतिष्ठितः ।चरणान्तरसंस्था च बिभ्रती रूपमुत्तमम् ।कार्या वसुन्धरा देवी तत्पादतलधारिणी २६यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका ।नृसिंहवामनादीनां तादृशीं कारयेद्बुधः २७ब्रह्म तस्यां समारोप्य मनसा तन्मयो भवेत् ।तामार्चयेत्तां प्रणमेत्तां स्मरेत्तां विचिन्तयेत् २८तामर्चयंस्तां प्रणमंस्तां स्मरंस्तां च चिन्तयन् ।विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् २९सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः ।कुर्वीत भावनां तत्र तद्भावोत्पत्तिकारणात् ।नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् ३०यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर ।मूर्तिं भगवतः संयक् पूजयेत्तन्मयः सदा ३१इति विष्णुधर्मेषु मूर्तिलक्षणम् । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP