संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ६२ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ६२ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ६२ Translation - भाषांतर अथ द्विषष्टितमोऽध्यायः ।भगवानुवाच ।अमांसभक्षणे राजन्यो धर्मः कुरुपुङ्गव ।तन्मे शृणु यथातथ्यं यश्चास्य विधिरुत्तमः १मासि मास्यश्वमेधेन यो यजेत शतं समाः ।न च खादति यो मांसं सममेतद्युधिष्ठिर २सदा यजति सत्त्रेण सदा दानं प्रयच्छति ।सदा तपस्वी भवति मधुमांसविवर्जनात् ३सर्ववेदा न तत्कुर्युः सर्वदानानि चैव हि ।यो मांसरसमास्वाद्य सर्वमांसानि वर्जयेत् ४दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् ।चतुर्व्रतमिदं श्रेष्ठं प्राणिनां मृत्युभीरुणाम् ५तदा भवति लोकेऽस्मिन्प्राणिनां जीवितैषिणाम् ।विश्वास्यश्चोपगम्यश्च न हि हिंसारुदिर्यदा ६दुष्टरांस्तरते म ।आं मांसस्य परिवर्जनात् ।प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ७अहिंसा परमो धर्मः सत्यमेव च पाण्डव ।अहिंसा चैव सत्यं च धर्मो हि परमः स्मृतः ८न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते ।जीवादुत्पद्यते मांसं तस्माद्गर्हन्ति तद्बुधाः ।यदि वै खादको न स्यान्न तदा घातको भवेत् ९लोभाद्वा बुद्धिमोहाद्वा यो मांसान्यत्ति मानवः ।निर्घृणः स हि मन्तव्यः सद्धर्मपरिवर्जितः १०स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।उद्विग्नवासे वसति यत्रतत्राभिजायते ११धनेन क्रायको हन्ति उपभोगेन खादकः ।घातको वधबन्धाभ्यामित्येष त्रिविधो वधः १२भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते ।तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ।वरमेकस्य सत्त्वस्य दद्यादक्षयदक्षिणाम् ।न तु विप्रसहस्रस्य गोसहस्रं सकाञ्चनम् ।यो दद्यात्काञ्चनं मेरुं कृत्स्नां वापि वसुन्धराम् ।अभक्षणं च मांसस्य न तु तुल्यं युधिष्ठिर ।इदमन्यत्प्रवक्ष्यामि पुराणमृषिनिर्मितम् १३श्रूयते च पुराकल्पे ह्यृषीणां व्रीहयः पशुः ।यजन्ते येन वै यज्ञानृषयः पुण्यकर्मिणः १४ऋषिभिः संशयं पृष्टो वसू राजा ततः पुरा ।अभक्ष्यं भक्ष्यमिति वै मांसमाह नराधिप १५आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः ।एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् १६कौमुदं तु विशेषेण शुक्लपक्षे नराधिप ।वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते १७चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् ।चत्वारि भद्राण्याप्नोति कीर्तिरायुर्यशो बलम् १८अप्येकमिह यो मासं सर्वमांसानि वर्जयेत् ।अतीत्य सर्वदुःखानि सुखं जीवेन्निरामयः १९यो हि वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् ।अप्येकं वर्जयेन्मासं मांसमेतत्समं मतम् २०यो वर्जयति मांसानि मासं पक्षमथापि वा ।स वै हिंसानिवृत्तस्तु ब्रह्मलोके महीयते २१सर्वकालं तु मांसानि वर्जितानि महर्षिभिः ।मन्वा क्षुपेण श्वेतेन तथैवेक्ष्वाकुनापि च २२भृगुणा नलरामाभ्यां दिलीपरघुपौरवैः ।आयुषा चैव गार्ग्येण जनकैश्चक्रवर्तिभिः २३धुन्धुमाराम्बरीषाभ्यां नहुषेण च धीमता ।गाधिना पुरुकुत्सेन कुरुणा पुरुणा तथा २४मुचुकुन्देन मान्धात्रा सगरेण महात्मना ।शिबिना चाश्वपतिना वीरसेनादिभिस्तथा २५सञ्जयेनाथ भीष्मेण पुष्करेणाथ पाण्डुना ।सुवर्णष्ठीविना चैव दुष्वन्तनृगरोहितैः २६एतैश्चान्यैश्च बहुभिः सर्वैर्मांसं न भक्षितम् ।शरत्कौमुदिकं मासं ततः स्वर्गं गता नृपाः ।सर्वकामसमृद्धास्ते वसन्ति दिवि संस्थिताः २७ब्रह्मलोके च पूज्यन्ते ज्वलमानाः श्रियावृताः ।उपास्यमाना गान्धर्वैः स्त्रीसहस्रसमन्विताः २८तदेवमुत्तमं धर्ममहिंसालक्षणं शुभन् ।ये रक्षन्ति महात्मानो नाकपृष्ठे वसन्ति ते २९मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः ।जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ३०आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् ।व्याधितो मुच्यते रोगाद्दुःखान्मुच्येत दुःखितः ३१यश्चैनं पठते नित्यं प्रयत्नाद्भरतर्षभ ।घोरं सन्तरते दुर्गं स्वर्गवासं च विन्दति ।तिर्यग्योनिं न गच्छेच्च रूपवांश्चैव जायते ३२एतत्ते कथितं राजन्मांसस्य परिवर्जनम् ।प्रवृत्तौ च निवृत्तौ च प्रमाणमृषिसत्तमैः ३३इति विष्णुधर्मेष्वमांसभक्षणम् । N/A References : N/A Last Updated : February 22, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP