संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ५३ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ५३ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ५३ Translation - भाषांतर अथ त्रिपञ्चाशोऽध्यायः ।भगवानुवाच ।दानं देवाः प्रशंसन्ति इति धर्मविदो विदुः ।नानादानविधिं तस्माच्छृणुष्व सुसमाहितः १हिरण्यदानं गोदानं पृथिवीदानमेव च ।एतानि वै पवित्राणि तारयन्ति परत्र च २यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे ।तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ३सुवर्णदानं गोदानं पृथिवीदानमेव च ।एतत्प्रयच्छमानो वै सर्वपाऐः प्रमुच्यते ४यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने ।तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ५तुल्यनामानि शस्तानि त्रीणि तुल्यफलानि च ।नित्यं देयानि राजेन्द्रगावः पृथ्वी सरस्वती ६तद्वज्जलममित्रघ्न तत्तुल्यफलनामतः ।दत्त्वा तृप्तिमवाप्नोति यत्रतत्राभिजायते ७सङ्कल्पविहितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते ।अर्थिभ्यो ह्यर्थहेतुभ्यो मनस्वी तेन जायते ८सीदते द्विजमुख्याय योऽर्थिने न प्रयच्छति ।अमर्थे सति दुर्बुद्धिर्नरकायोपपद्यते ९धेनवोऽनडुहश्चैव छत्त्रं वस्त्रमुपानहौ ।देयानि याचमानेभ्यः पानमन्नं तथैव च ।एवं दानं समुद्दिष्टं व्युष्टिमत्तारकं परम् १०एष ते विहितो यज्ञः श्रद्धापूतः सदक्षिणः ।विशिष्टः स च यज्ञेषु ददतामनसूयया ११दानविद्भिः कृतः पन्था येन यान्ति मनीषिणः ।यैर्दानैस्तर्पयिष्यन्ति श्रद्धापूतैर्द्विजोत्तमान् १२यथा हि सुकृते क्षेत्रे फलं विन्दति क्षेत्रिकः ।एवं दत्त्वा ब्राह्मणेभ्यो दाता फलमुपाश्नुते १३ब्राह्मणाश्चैव विद्यन्ते सत्यवन्तो बहुश्रुताः ।न ददाति च दानानि मोघं तस्य धनार्जनम् १४उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं मया ।दत्तं वा दापितं वापि वोत्साह्यमपि वा कृतम् १५उत्थायोत्थाय दातव्यं ब्राह्मणेभ्यो युधिष्ठिर ।आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति १६यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम् ।असङ्कीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति १७इति विष्णुधर्मेषु दानप्रशंसा । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP