संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ८२ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ८२ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ८२ Translation - भाषांतर N/Aअथ द्व्यशीतितमोऽध्यायः ।प्रह्लाद उवाच ।चक्रवर्ती महावीर्यो मान्धाता युवनाश्वजः ।शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् १अगायन्त च या गाथा ये पुराणविदो जनाः ।मान्धातरि महाबाहो यौवनाश्वे समाश्रिताः २यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ३स यौवनगतः संराट्सप्तद्वीपवतीं महीम् ।शशास धर्मेण पुरा चक्रवर्ती महाबलः ४नान्यायकृन्न चाशक्तो न दरिद्रोन कीकटः ।तस्याभूत्पुरुषो राज्ये सम्यग्धर्मानुशासिनः ५चतस्रो गतयस्तस्य यौवनाश्वस्य धीमतः ।बभूवुरप्रतिहता हतारातिबलस्य वै ६तस्य भक्तिरतीवाभून्निसर्गादेव भूपतेः ।वासुदेवे जगद्धाम्नि सर्वकारणकारणे ७तस्य र्द्धिं महिमानं च विलोक्य पृथिवीपतेः ।न केवलं जनस्याभूत्तस्याप्यत्यन्तविस्मयः ८स चिन्तयामास नृपः समृद्ध्या विस्मितस्तया ।कथं स्यात्सम्पदेषा मे पुनरप्यन्यजन्मनि ९एवं सुबहुशो राजा दैत्येन्द्रसुमहाबलः ।चिन्तयन्नपि तन्मूलं न चासीन्निश्चयान्वितः १०यदा न निश्चयं राजा स ययौ युवनाश्वजः ।तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ११वसिष्ठप्रमुखान्वत्स विविक्तान्तःपुरस्थितः ।प्रणिपत्य महाबाहुर्गृहीतासनसत्क्रियान् १२यदि सानुग्रहा बुद्धिर्भवतां मयि सत्तमाः ।तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ १३समेत्याखिलविज्ञानं सम्यग्धौतान्तरात्मभिः ।भवद्भिर्यद्यहं न स्यां विमलस्तन्महाद्भुतम् १४यद्यथा तन्मया पृष्टा भवन्तो मत्प्रसाधिताः ।वक्तुमर्हन्ति विद्वांसः सर्वस्यैवोपकारिणः १५ब्राह्मणा ऊचुः ।यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते ।गदिष्यामो यथान्यायं यत्ते सांशयिकं हृदि १६वयं हि नरशार्दूल भवता परितोषिताः ।सम्यक् प्रजाः पालयता सप्तद्वीपे महीतले १७सुतुष्टो ब्राह्मणोऽश्नीयाच्छिन्द्याद्वा धर्मसंशयम् ।हितं वोपदिशेद्धर्ममहिताद्वा निवर्तयेत् १८प्रह्लाद उवाच ।विवक्षुमथ भूपालं भार्या तस्यैव धीमतः ।प्रणामपूर्वमाहेदं विनयात्प्रणयान्वितम् १९न स्त्रीणामवनीपाल वक्तुमीदृगिहेश्यते ।तथापि भूपते वक्ष्ये सम्पदीदृक् सुदुर्लभा २०भूयोऽपि संशयं प्रष्टुमलमीश भवानृषीन् ।न त्वहं पुरुषव्याघ्र सदान्तःपुरचारिणी २१स प्रसादं यदि भवान्करोति मम पार्थिव ।तन्मदीयमृषीन्प्रष्टुं संशयं पार्थिवार्हसि २२मन्धातोवाच ।ब्रूहि सुभ्रु मतं यत्ते प्रष्टव्या यन्मया द्विजाः ।भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतान्द्विजोत्तमान् २३पत्न्युवाच ।श्रूयन्ते पृथिवीपाल नृप ये च पुरातनाः ।तेषां न सम्पद्भूपाल यथा तव किलाभवत् २४तदीदृक्सम्पदां धाम त्वमशेषक्षितीश्वरः ।येन कर्मविपाकेन तद्वदन्तु महर्षयः २५अहं च भवतो भार्या सर्वसीमन्तिनी भुवि ।विधिना केन तपसा नियुक्ता भवतो गृहे ।अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् २६तारतम्यतयेशित्वमन्येष्वपि हि विद्यते ।निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा २७तदन्यजन्मचरितं नरनाथ निजं भवान् ।मुनीन्पृच्छतु या चाहं यन्मया च पुरा कृतम् २८प्रह्लाद उवाच ।स तथोक्तस्तया राजा पत्न्या विस्मितमानसः ।मुनीनां पुरतो भार्यां प्रशंसन्वाक्यमब्रवीत् २९मान्धातोवाच ।साधु देवि मतं यन्मे त्वया तदिदमीरितम् ।सत्यं मुनिवचः पुंसामर्धं वै गृहिणी यथा ३०ममाप्येतदभिप्रेतमिमान्प्रष्टुं महामुनीन् ।यत्त्वयाभिहितं भद्रेमत्स्वभावानुयातया ३१सोऽहमेतन्महाभागे प्रक्ष्याम्येतान्महामुनीन् ।नैषामविदितं किञ्चित्त्रिषु लोकेषु विद्यते ३२प्रह्लाद उवाच ।एवमुक्त्वा प्रियां भार्यां प्रणिपत्य च तानृषीन् ।यथावदेतदखिलं पप्रच्छासुरसत्तम ३३राजोवाच ।भगवन्तो ममाशेषं प्रसादाहृतचेतसः ।कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ३४कोऽहमासं पुरा विप्राः किं च कर्म मया कृतम् ।किं वानया सुचार्वङ्ग्या मम पत्न्या कृतं द्विजाः ३५येनावयोरियं स्फीतिर्मर्त्यलोके सुदुर्लभा ।चत्वारश्चाप्रतिहता गतयो मम गच्छतः ३६अशेषा भूभृतो वश्याः कोशस्यान्तो न विद्यते ।बलं चैवाप्रतिहतं शरीरारोग्यमुत्तमम् ३७अतिभाति च मे कान्त्या भार्येयमखिलं जगत् ।ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः ३८सोऽहमिच्छामि विज्ञातुं तथैवेयमनिन्दिता ।निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ३९प्रह्लाद उवाच ।इति प्रष्टा नरेन्द्रेण समस्तास्ते तपोधनाः ।वसिष्ठं चोदयामासुः कथ्यतामिति भूभृतः ४०चोदितः सोऽपि धर्मज्ञैर्मैत्रावरुणिरात्मवान् ।योगमास्थाय सुचिरं यथावद्यतमानसः ।ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् ४१स तमाह मुनिर्भूपं विदितार्थो महासुर ।मान्धातारं महाबुद्धिं सपत्नीकमिदं वचः ४२वसिष्ठ उवाच ।शृणु भूपाल सकलं यस्येदं कर्मणः फलम् ।तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ४३त्वमासीः शूद्रजातीयः परहिंसापरायणः ।वाक्क्रूरो दण्डपारुष्यो निःस्नेहः सर्वजन्तुषु ४४तथेयं भवतो भार्या पूर्वमप्यायतेक्षणा ।द्वेष्या बभूव तच्चित्ता तव शुश्रूषणे रता ४५पतिव्रता महाभागा भर्त्स्यमानाप्यनिष्ठुरा ।त्वद्वाक्यादनु सर्वेषु वीरकर्मसु चोद्यता ४६नैष्ठुर्यादसहायस्य त्यज्यमानस्य बन्धुभिः ।क्षयं जगाम योऽर्थोऽभूत्सञ्चितः प्रपितामहैः ४७तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते ।सापि कर्मविपाकेन कृषिर्विफलतां गता ४८ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् ।तत्याज साध्वी वेयं त्वां त्यज्यमानापि पार्थिव ४९अनया च समं साध्व्या विष्णोरावसथे त्वया ।कृतं शुश्रूषणं वीर परिव्राड्ब्रह्मचारिणाम् ५०भग्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः ।अनन्यगतिरेकस्थस्तस्मिन्नायतने हरेः ५१तद्वृत्तिलिप्सुः शुश्रूषां जनरञ्जनहेतुकः ।कृतवान्योगिनां वीर कृष्णस्य जगतः पतेः ५२वासुदेवाजिरे नित्यं कृतं सम्मार्जनं त्वया ।तथैवाभ्युक्षणं वीर नित्यं चैवानुलेपनम् ।पत्न्यानया च धर्मज्ञ यष्मच्चित्तानुवृत्तया ५३अहन्यहनि तत्कर्म युवयोर्नृप कुर्वतोः ।तत्र चैतन्मयत्वेन पापहानिरजायत ५४विष्णोः कार्यं मया कार्यं योगिशुश्रूषणं तथा ।न प्रभातं प्रभातं तु चिन्तेयमभवन्निशि ५५एवमायतनं रम्यमित्येवं च सुखावहम् ।स्थैर्यं न चैवमेतत्स्यादित्यासीत्ते मनः सदा ५६योगिनां सुखदं त्वेवं कर्मैवं नैवमित्यपि ।तव चित्तमभूत्तत्र योगिकर्मण्यहर्निशम् ५७एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव ।भृत्यावसायिनः सम्यग्यथोक्ताधिककारिणः ५८स्मरतः पुण्डरीकाक्षं कार्येणातिदृढात्मनः ।निःशेषमुपशान्तं तत्पापं योगिनिषेवणात् ५९ततोऽधिकं पुरस्तस्मादादरादनुलेपनम् ।सम्मार्जनं च बहुशः सपत्निकेन ते कृतम् ६०तत्रागतश्च सौवीरः पुरुजिन्नाम भूपतिः ।महासैन्यपरीवारः प्रभूतगजवाहनः ६१सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् ।वृतं भार्यासहस्रेण दृष्ट्वा स्रक्चन्दनोज्ज्वलम् ।स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ६२सर्वकामप्रदं कर्म देवदेवस्य कुर्वता ।तेनैतदखिलं राज्यमशेषद्वीपवत्तव ६३तेजश्चैवाधिकं यत्ते तथैतच्छृणु पार्थिव ।योगप्रभावोपलब्धं कथयाम्यखिलं तव ६४तत्रैवावसथे दीपः प्रशान्तः स्नेहसङ्क्षयात् ।निजभोजनतैलेन पुनः प्रज्वालितस्त्वया ६५अनया चोत्तरीयान्तचीरवर्त्युपवृंहितः ।तव पत्न्या स जज्वाल कान्तिरस्यास्ततोऽधिका ६६तवाप्यखिलभूपालमनःक्षोभकरं ततः ।तेजो नरेन्द्रनस्याच्च किमाराध्य जनार्दनम् ६७एवं नरेन्द्रशूद्रत्वाद्विष्णुकर्मपरायणः ।तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ६८किं पुनर्यो नरो भक्त्या विष्णुशुश्रूषणादृतः ।करोति सततं पूजां निष्कामो नान्यमानसः ६९स त्वमृद्धिमिमां लब्ध्वा सर्वलोकेश्वरेश्वरम् ।पूजयाच्युतमीशेशं तमाराध्य न सीदति ७०पुष्पैर्धूपैस्तथा गन्धैर्दीपवस्त्रानुलेपनैः ।आराधयाच्युतं तद्वद्वेश्मसम्मार्जनादिभिः ७१यद्यदिष्टतमं किञ्चिद्यद्यदत्यन्तदुर्लभम् ।तत्तद्दात्त्वा जगद्धात्रे वैकुण्ठाय न सीदति ७२सुगन्धागरुकर्पूरचन्दनाक्षोदकुङ्कुमैः ।वासोभिर्विविधैर्धूपैः पुष्पस्रक्चामरैर्ध्वजैः ७३अन्नोपहारैर्विविधैर्घृतक्षीराभिषेचनैः ।गीतवादितनृत्याद्यैस्तोषयस्वाच्युतं नृप ७४पुण्यरात्रिषु गोविन्दं नृत्यगीतरवोज्ज्वलैः ।भूप जागरणैर्भक्त्या तोषयाच्युतमव्ययम् ७५एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् ।भूप भागवतैर्भूतभव्यकृत्केशवो नरैः ७६येषां न वित्तं तैर्भक्त्या मार्जनाद्युपलेपनैः ।तोषितो भगवान्विष्णुर्ददात्यभिमतं फलम् ७७देवकर्मासमर्थाणां प्राणिनां स्मृतिसंस्तवैः ।तोषितोऽभिमतान्कामान्प्रयच्छति जनार्दनः ७८नैष वित्तैर्न रत्नौघैः पुष्पधूपानुलेपनैः ।सद्भावेनैव गोविन्दस्तोषमायाति संस्मृतः ७९त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् ।कृत्वाल्पमीदृशं प्राप्तं राज्यमत्यन्तदुर्लभम् ८०प्राप्तोपकरणो यस्त्वमेकाग्रमतिरच्युतम् ।तोषयिष्यसि नेन्द्रोऽपि भविता तेन ते समः ८१तस्मात्त्वमनया देव्या सहात्यन्तविनीतया ।केशवाराधने यत्नं कुरु धर्मभृतां वर ८२ततः प्राप्स्यसि भक्त्यैव यत्तपोभिः सुदुर्लभम् ८३इति विष्णुधर्मेषु मान्धाताराज्यप्राप्तिहेतुः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP