संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६४

विष्णुधर्माः - अध्याय ६४

विष्णुधर्माः


अथ चतुष्षष्टितमोऽध्यायः ।
शौनक उवाच ।
एतान्धर्माञ्जगन्नाथः पाण्डुपुत्राय पृच्छते ।
जगाद पुरुषव्याघ्र किमन्यच्छ्रोतुमिच्छसि १

शतानीक उवाच ।
भगवन्वहतां भक्तिं देवदेवे जनार्दने ।
यत्फलं कथितं तज्ज्ञैस्तन्मे विस्तरतो वद २

शौनक उवाच ।
यत्फलं वहतां भक्तिमच्युते भवति प्रभो ।
न तद्वर्णयितुं शक्यं हरिः सर्वेप्सितप्रदः ३

यादृक् सत्त्वं मनुष्याणां तादृगाराध्य केशवम् ।
फलमिच्छन्ति तादृच्च लभ्यते तैर्नरेश्वर ४

मुक्तिकामा नरा मुक्तिं स्वर्गं देवत्वमीप्सवः ।
गन्धर्वयक्षसिद्धानां वृण्वन्त्यन्ये सलोकताम् ५

वर्षेष्वभीप्सवो विष्णुं पातालेषु तथापरे ।
भोगानभीप्सवो विष्णुं तोषयन्ति नराधिप ६

तथापरे नरैश्वर्यमारोग्यं गुणवद्भुवि ।
प्रार्थयन्त्यच्युतं देवमाराध्य जगतो गतिम् ७

धर्मोपदेशादचलां वहन्भक्तिं जनार्दने ।
सशरीरो गतः स्वर्गं धर्मपुत्रो युधिष्ठिरः ८

तथैव जनकः कृष्णे विनिवेश्य स्वमानसम् ।
अवाप परमां सिद्धिं वसुः प्रायात्त्रिपिष्टपम् ९

अन्ये च ये ये मुनयो ये ये च वसुधाधिपाः ।
अवापुरतुलान्कामांस्ते ते सन्तोष्य केशवम् १०

अनाराध्य जगन्नाथं सर्वपापहरं हरिम् ।
सद्गतिः केन सम्प्राप्ता भोगाश्चापि मनोरमाः ११

द्रौणिब्रह्मास्त्रनिर्दग्धस्तव राजन्पितामहः ।
विष्णोः कार्यमनुष्यस्य दर्शनादुत्थितः पुनः १२

नामसङ्कीर्तनाद्यस्य पापमन्यैरुपद्रवैः ।
समं विनाशमायाति देवः कोऽभ्यधिकस्ततः १३

राष्ट्रस्य शरणं राजा पितरौ बालकस्य च ।
धर्मः समस्तमर्त्यानां सर्वस्य शरणं हरिः १४

मुक्तिहेतुमनाद्यन्तमजमक्षयमच्युतम् ।
नमस्यन्सर्वलोकस्य नमस्यो जायते नरः १५

न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि ।
वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः १६

शतानीक उवाच ।
श्रुतं मया यथा पूर्वमार्यको मे युधिष्ठिरः ।
सशरीरो गतः स्वर्गं जितमात्मीयकर्मभिः १७

यत्त्वेतद्भगवानाह स यथा पाण्डुपूर्वजः ।
धर्मोपदेशाद्गोविन्दमाराधयत तद्वद १८

शौनक उवाच ।
पुरा शासति धर्मज्ञे धर्मपुत्रे युधिष्ठिरे ।
तस्यैव वैश्वदेवान्ते चण्डालोऽभ्यागमत्किल १९

समुपेत्य गृहं तस्य धर्मपुत्रस्य विस्मितः ।
उवाच श्वपचो द्वाःस्थं प्रश्रयावनतस्थितः २०

चण्डाल उवाच ।
कस्यैतद्भवनं दिव्यं मणिरत्नविभूषितम् ।
शुद्धस्फटिकसोपानं मणिकाञ्चनतोरणम् २१

प्रतीहार उवाच ।
अष्टाशीतिसहस्राणि ब्राह्मणानां दिने दिने ।
युधिष्ठिरमृते भूपं भुञ्जते कस्य वेश्मनि २२

कथमेतन्न जानीषे चन्द्रबिम्बमिवापरम् ।
युधिष्ठिरस्य भवनं देवराजगृहोपमम् २३

चण्डाल उवाच ।
अबलस्य बलं राजा बालस्य रुदितं बलम् ।
बलं मूर्खस्य वै मौनं तस्करस्यानृतं बलम् २४

गच्छ जल्प स्वराजानं प्रतीहार वचो मम ।
दुःखार्तः कार्यवान्राजंश्चण्डालो द्वारि तिष्ठति २५

केनापि हेतुमात्रेण भवन्तं दुष्टमागतः ।
इत्युक्तो धर्मराजस्य प्रतीहारो यथोदितम् ।
निवेदयामास तथा धर्मराजोऽब्रवीदिदम् २६

युधिष्ठिर उवाच ।
किं रूपं कीदृशं शीलं कोऽस्यार्थः किं प्रयोजनम् ।
ब्रूहि द्वाःस्थ यथावन्मे नरस्तिष्ठति कीदृशः २७

प्रतीहार उवाच ।
काककोकिलकृष्णाङ्गो भग्ननासारुणेक्षणः ।
यवमध्यः कृशग्रीवो वक्रपादो महाहनुः २८

युधिष्ठिर उवाच ।
ब्रूहि गच्छ दुराचारं चण्डालं पापकर्मिणम् ।
देवकार्यस्य वेलायां दुतस्त्वं प्रत्युपस्थितः २९

चण्डालपतितौ दृष्ट्वा नरः पश्येत भास्करम् ।
स्नातस्त्वेतावथालोक्य सचैलस्नानमर्हति ३०

इत्याज्ञप्ते तथोक्तस्तु चण्डालस्तेन वै ततः ।
प्रत्युवाच प्रतीहारमीषन्मन्युपरिप्लुतः ३१

चण्डाल उवाच ।
किं देवकार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम् ।
तद्देवकार्यं स च यज्ञहोमो यदश्रुपाता न पतन्ति राष्ट्रे ३२

इदं वचनमव्यग्रं प्रतीहार त्वरा मम ।
निवेदय स्वराजेन्द्रंयथेष्टं स करोतु वै ।
इत्युक्तः सत्वरं गत्वा धर्मराजं तथा तथं ।
कथयामास तत्सर्वं चाण्डालेन यदीरितम् ।
सुशोभनमिदं वाक्यं न भवेदन्त्यजातिषु ।
चिन्तयित्वा ततो राजा निर्जगाम युधिष्ठिरः ।
इत्येतद्वचनं श्रुत्वा निर्जगाम युधिष्ठिरः ।
प्रत्युवाच च चण्डालमीषन्कोपसमन्वितः ३३

युधिष्ठिर उवाच ।
कुतस्ते भयमुत्पन्नं येन त्वं गृहमागतः ।
आवाधाकारणं सर्वं यथावत्कथयस्व मे ३४

तदहं ते प्रतिज्ञाय चण्डकर्मकरक्षणम् ।
अपास्य देवकार्यार्थं प्रविश्याम्यन्तरं पुनः ३५

चण्डाल उवाच ।
न भुञ्जते ब्राह्मणा मे सर्वाश्चोद्विजते जनः ।
प्राणिहिंसा च नो वृत्तिर्देव पुष्णाति मेऽनृतम् ३६

अनेकजन्मसाहस्रीं प्राप्य संसारपद्धतिम् ।
मानुष्ये कुत्सितां जातिमापन्नो मुषितोऽस्मि भोः ३७

कर्मभूमिमिमां राजन्प्रार्थयन्ति दिवौकसः ।
तां सम्प्राप्य वृथाजन्मा मुष्टोऽस्मि कुरुसत्तम ३८

दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान् ।
आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ३९

सोऽहमिच्छामि विज्ञातुमतिदुष्कृतकर्मकृत् ।
वक्तुमर्हसि धर्मज्ञ कः पापिष्ठतरो मया ४०

युधिष्ठिर उवाच ।
आनमुपरि श्रान्तं ब्राह्मणं गृहमागतम् ।
अनर्चयित्वा यो भुङ्क्ते स पापिष्ठतरस्त्वया ४१

मातरं पितरं चैव विकलं नेत्रदुर्बलम् ।
यो नाभ्युद्धरते पुत्रः स पापिष्ठतरस्त्वया ४२

गोधनस्य तृषार्तस्य जलार्थं परिधावतः ।
विघ्नमाचरते यस्तु स पापिष्ठतरस्त्वया ४३

विवाहयित्वा यः कन्यां कुलजां शीलमण्डनाम् ।
विना त्यजति दोषेण स पापिष्ठतरस्त्वया ४४

आशाकारस्त्वदाता यो दातुश्च प्रतिषेधकः ।
दत्तं च यः कीर्तयति स पापिष्ठतरस्त्वया ४५

बहुभृत्यैर्दरिद्रैश्च धनं सन्तं द्विजोत्तमैः ।
याचितो न प्रयच्छेद्यः स पापिष्ठतरस्त्वया ४६

ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नरः ।
स्वधर्मं सन्त्यजेद्यस्तु स पापिष्ठतरस्त्वया ४७

चण्डाल उवाच ।
कृतार्थोऽहं गमिष्यामि यशोधर्ममवाप्नुहि ।
तुष्टोऽस्म्यहं स्वया योन्या मत्तः प्रोक्तास्त्वयाधमाः ४८

युधिष्ठिर उवाच ।
देवतानामृषीणां च पितॄणां च कृतं मया ।
साम्प्रतं देशकालोऽयं त्वमेवात्र भवातिथिः ४९

चण्डाल उवाच ।
चण्डालोऽहं महाराज पतितो लोकवर्जितः ।
कथं निहीनो वर्णेभ्यो भोक्ष्यामि भवतो गृहे ५०

युधिष्ठिर उवाच ।
चण्डालो भव पापो वा शत्रुर्वा पितृघातकः ।
देशकालाभ्युपेतं त्वां भरणीयं हि वेद्म्यहम् ५१

चण्डाल उवाच ।
दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ५२

दश सूनासहस्राणि कुरुते यो हि सौनिकः ।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ५३

युधिष्ठिर उवाच ।
नानागोत्रादिचरणा भुञ्जते ब्राह्मणा मम ।
न ते वदन्ति वाग्दुष्टं यथैतत्कीर्तितं त्वया ५४

चण्डाल उवाच ।
लोभात्मानो न जानीयुर्ब्राह्मणा राजकिल्बिषम् ।
वरं स्वमांसमत्तव्यं न तु राजप्रतिग्रहम् ५५

राजकिल्बिषदग्धानां ब्राह्मणानां युधिष्ठिर ।
छिन्नानामिव बीजानां पुनर्जन्म न विद्यते ५६

राजप्रतिग्रहो घोरो मध्वास्वादो विषोपमः ।
बुधेन प्रतिहर्तव्यः स्वमांसस्येव भक्षणम् ५७

अधीत्य चतुरो वेदान्सर्वशास्त्रार्थतत्त्ववित् ।
नरेन्द्रभवने भुङ्क्त्वा विष्ठायां जायते कृमिः ५८

युधिष्ठिर उवाच ।
निन्दसे सर्वराजानो न चात्मानं प्रशंससि ।
धैर्यवानात्मनोऽनिन्द्यो नाश्वासार्थं च पृच्छसि ।
विमुक्तक्रोधहर्शश्च कोऽप्यत्र प्रतिभासि नः ।
अनिन्द्यो निन्द्यरूपेण महात्मा त्वं हि मे मतः ।
को भवान्ब्रूहि सत्यं मे किमर्थमिह चागतः ।
भवानुपेन्द्रः! शक्रो वा शर्वो वा त्वं पिनाकधृक् ।
अथवा निन्द्यरूपेण पिता नस्त्वमिहागतः ५९

धर्म उवाच ।
ज्ञातोऽस्मि पृथिवीपाल तुष्टश्च तव दर्शनात् ।
नन्दन्तु भूमिभागास्ते येषु त्वं पृथिवीपतिः ६०

निर्जित्य परसैन्यानि क्षितिं धर्मेण पालय ।
स्वल्पमप्यस्तु ते वेलां आ गोविन्दोज्झितं मनः ६१

युधिष्ठिर उवाच ।
किं मे राज्येन भोस्तात विषयैर्जीवितेन वा ।
योऽहं सूनासहस्रैस्तु दशभिः परिवेष्टितः ६२

धर्म उवाच ।
मा विषादं नरश्रेष्ठ समुपैहि युधिष्ठिर ।
यज्ञेश्वरं यज्ञमूर्तिं त्वं च विष्णुं समाश्रितः ६३

येषां न विषये विप्रा यज्ञैर्यज्ञपतिं हरिम् ।
यजन्ति भूभुजस्तेषामेतत्सूनोदितं फलम् ६४

येषां पाषण्डसङ्कीर्णं न राष्ट्रं ब्राह्मणोत्कटम् ।
ते तु सूनासहस्राणां दशानां भागिनो नृपाः ६५

येषां न यज्ञपुरुषः कारणं पुरुषोत्तमः ।
ते तु पापसमाचाराः सूनापापौघभागिनः ६६

त्वं तु मत्प्रभवस्तात विष्णुभक्तस्तथैव च ।
इष्टिर्वैश्वानरी पापमुपहंस्यति तेऽखिलम् ६७

अवश्यं विषये कश्चिद्ब्राह्मणः संश्रितव्रतः ।
इष्टिं वैश्वानरीं कप्तां निर्वपेदब्दपर्यये ।
तस्य षड्भागमात्रेण त्वं पापं निर्दहिष्यसि ६८

स त्वं वरय भद्रंते वरं यन्मनसेच्छसि ।
सम्यक् श्रद्धासमाचारादहमाराधितस्त्वया ६९

अथ पातकभीतस्त्वं सर्वभावेन भारत ।
विमुक्तान्यसमारम्भो नारायणपरो भव ७०

परः पराणामाद्योऽसौ ज्ञेयो ध्येयो जनार्दनः ।
तदर्थमपि कर्माणि कुर्वन्पापं व्यपोहति ७१

लोभादिव्याप्तहृदयो यत्पापं कुरुते नरः ।
विलयं याति तत्सर्वमच्युते हृदये स्थिते ७२

शमायालं जलं वह्नेस्तमसो भास्करादयः ।
क्षान्तिः कलेरघौघस्य नामसङ्कीर्तनं हरेः ७३

युधिष्ठिर उवाच ।
प्रसन्नो यदि मे तात वरार्हो यदि चाप्यहम् ।
वरं तदेकमेवैतं प्राप्तुमिच्छाम्यहं पितः ७४

जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य सदा मम ।
या काचिन्मनसो वृत्तिः सा भवत्वच्युताश्रया ७५

या या जायेत मे बुद्धिर्यावज्जीवाम्यहं पितः ।
सा सा छिनत्तु सन्देहान्कृष्णाप्तौ परिपन्थिनः ७६

यथा गोविन्दमाराध्य सशरीरः सुरालयम् ।
प्राप्नुयामिति मे तात प्रयच्छ प्रवरं वरम् ७७

धर्म उवाच ।
एवमेतदशेषं ते मत्प्रसादाद्भविष्यति ।
नास्ति गोविन्दभक्तानां वाञ्छितं भुवि दुर्लभम् ७८

शौनक उवाच ।
इति धर्मोपदेशेन सर्वदेववरं हरिम् ।
आराध्य पाण्डवो यातः सशरीरः सुरालयम् ७९

इति विष्णुधर्मेषु चण्डालयुधिष्ठिरसंवादः ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP