संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ५ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ५ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ५ Translation - भाषांतर अथ पञ्चमोऽध्यायः ।पुलस्त्य उवाच ।पञ्चदश्यां च शुक्लस्य फाल्गुनस्यैव सत्तम ।पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः १नास्तिकान्भिन्नवृत्तींश्च पापिनश्चाप्यनालपन् ।नारायणे गतमनाः पुरुषो नियतेन्द्रियः २तिष्ठन्व्रजन्प्रस्खलिते क्षुते वापि जनार्दनम् ।कीर्तयेत्तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ३लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् ।सन्ध्याव्युपरमे चेन्दुस्वरूपं हरिमीश्वरम् ४रात्रिं च लक्ष्मीं सञ्चिन्त्य सम्यगर्घ्येन पूजयेत् ।नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ५तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम ।अर्चयीत यथाप्रोक्तं प्राप्ते प्राप्ते तु तद्दिने ६निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः ।द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ७आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा ।तथैवाश्वयुजेऽभ्यर्च्य श्रीधरं च श्रिया सह ८सम्यक् चन्द्रमसे दत्त्वा भुञ्जीतार्घ्यं यथाविधि ।द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ९कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ।भूत्या समन्वितं दद्याच्छशाङ्कायार्हनं निशि १०भुञ्जीत च तथा प्रोक्तं तृतीयमिति पारणम् ।प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ११प्रतिमासं च वक्ष्यामि प्राशनं कायशोधनम् ।चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् १२कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ।सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् १३गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथान् ।कारियीत च देवस्य पारणे पारणे गते १४एवं सम्पूज्य विधिवत्सपत्नीकं जनार्दनम् ।नाप्नोतीष्टवियोगादीन्पुमान्योषिदथापि वा १५जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः ।सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ १६यावन्त्येतद्विधानेन पारणेनार्चति प्रभुम् ।तावन्ति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् १७देवस्य च प्रसादेन मरणे प्राप्य तत्स्मृतिम् ।कुले सतां स्फीतधने जायते नरः १८-———–नारिं प्राप्नोति न व्याधिं नरकं च न पश्यति ।दुर्गमं यममार्गं च नेक्षते द्विजसत्तम ।दाल्भ्य उवाच ।श्रोतुमिच्छाम्यहं तात यममार्गं सुदुर्गमम् ।यथा सुखेन संयान्ति मानवास्तद्वदस्व मे १९पुलस्त्य उवाच ।प्रतिमासं तु नामानि कृष्णस्यैतानि द्वादश ।कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम् ।उच्चारयन्नरोऽभ्येति सुसुखेनैव तत्पथम् २०ततो विप्राय वै दद्यादुदकुम्भं सदक्षिणं ।उपानद्वस्त्रयुग्मं च छत्त्रं कनकमेव च २१यद्वै मासगतं नाम तत्प्रीतिश्चापि संवदेत् ।संवत्सरान्तेऽप्यथवा प्रतिमासं द्विजान्बुधः ।वाचयेदुदकुम्भाद्यैर्दानैः सर्वाननुक्रमात् २२केशवं मार्गशीर्षे तु पौषे नारायणं तथा ।माधवं माघमासे तु गोविन्दं फाल्गुने तथा २३विष्णुं चैत्रेऽथ वैशाखे तथैव मधुसूदनम् ।ज्येष्ठे त्रिविक्रमं देवमाषाढे वामनं तथा २४श्रावणे श्रीधरं चैव हृषीकेशेति चापरम् ।नाम भाद्रपदे मासि गीयते पुण्यकाङ्क्षिभिः २५पद्मनाभं चाश्वयुजे दामोदरमतः परम् ।कार्त्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् २६इह वै स्वस्थतां प्राप्य मरणे स्मरणं ततः ।याम्यक्लेशमसम्प्राप्य स्वर्गलोके महीयते २७ततो मानुष्यमासाद्य निरातङ्को गतज्वरः ।धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति २८इति विष्णुधर्मेषु याम्यक्लेशमुक्तिः । N/A References : N/A Last Updated : February 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP