संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय १०२ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय १०२ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय १०२ Translation - भाषांतर अथ द्व्यधिकशततमोऽध्यायः ।शतानीक उवाच ।श्रुतं भगवतो रूपमद्वैते यत्त्वयोदितम् ।विष्णोर्भृगुकुलश्रेष्ठ यच्च द्वैते महात्मनः १अविद्याभिन्नदृग्बुद्धिः पुरुषो मुनिपुङ्गव ।द्वैतभूते जगत्यस्मिन्नद्वैतं भावयेत्कथम् २क्रोधलोभादयो दोषा ये मुक्तेः परिपन्थिनः ।विनिवृत्तिरूपा येन तेषां येन वदेर्ह तम् ३सर्वेश्वरेश्वरेशस्य च रूपं हरेः परम् ।तच्चाहं श्रोतुमिच्छामि त्वत्तो भृगुकुलोद्वह ४शौनक उवाच ।सम्यक् पृष्टमिदं भूप भवता गुह्यमुत्तमम् ।द्वैताद्वैतकथालापसम्बन्धादुपकारकम् ५पुरा धर्मगृहे जज्ञे चतुर्मूर्तिर्नरेश्वर ।देवदेवो जगद्धाता परमात्मा जनार्दनः ६जगतः पालनार्थाय दुर्वृत्तनिधनाय च ।स्वेच्छया भगवान्विष्णुः सम्भवत्येव भूतले ७स्वर्गे वापि भूलोके वा भुवर्लोकेऽथवा विभुः ।यत्र वा रोचते तत्र चिकीर्षुर्जगतो हितम् ८तुरीयांशेन धर्मस्य भगवान्भूतभावनः ।यदावतारं कृतवांस्तदा तच्चरितं शृणु ९नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः १०तेषां नारायणनरौ गन्धमादनपर्वते ।आत्मन्यात्मानमाधाय तेपते परमं तपः ११ध्यायमानावनौपम्यं स्वकारणमकारणम् ।वासुदेवमनिर्देश्यमप्रतर्क्यमजं परम् ।योगयुक्तौ महामौनमास्थितौ गुरुतेजसौ १२तयोस्तपःप्रभावेण न तताप दिवाकरः ।ववौ चाशङ्कितो वायुः सुखस्पर्शो ह्यसर्करः १३शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः ।सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ १४तयोर्गौरवभारार्ता पृथिवी पृथिवीपते ।चचाल भूधराश्चेलुश्चुक्षुभुश्च महाब्धयः १५देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः ।बभूवुरवनीपाल परमं क्षोभमागताः १६देवराजस्ततः शक्रः सन्त्रस्तस्तपसस्तयोः ।युयोजाप्सरसः शुभ्रास्तयोर्विघ्नचिकीर्षया १७इन्द्रउवाच ।रम्भे तिलोत्तमे कुण्ठे घृताचि ललितावति ।उम्लोचे सुभ्रुप्रम्लोचे सौरभेऽपि मदोद्धते १८अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि ।विलोभनीयं बिभ्राणा वपुर्मन्मथबोधनम् ।गन्धमादनमासाद्य कुरुध्वं वचनं मम १९नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ ।तप्येते धर्मतनयौ तपः परमदुश्चरम् २०तावस्माकं वरारोहाः कुर्वाणौ परमं तपः ।कर्मातिशयदुःखार्तिप्रदावयतिनाशकौ २१तद्गच्छत न भीः कार्या भवतीभिरिदं वचः ।स्मरः सहायो भविता वसन्तश्च वराङ्गनाः २२रूपं च वः समालोक्य मदनोद्दीपनं परम् ।कन्दर्पवशमभ्येति विवशः को न मानवः २३शौनक उवाच ।इत्युक्ता देवराजेन मदनेन समं तदा ।जग्मुरप्सरसः सर्वा वसन्तश्च महीपते २४गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् ।चकार माधवो रम्यं प्रोत्फुल्लवनपादपम् २५प्रववौ दक्षिणः सद्यो मलयानुगतोऽनिलः ।भृङ्गमालारुतरवैर्रमणीयमभूद्वनम् २६गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः ।किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः २७वराङ्गनाश्च ताः सर्वा नरनारायणावृषी ।विलोभयितुमारब्धा वराङ्गललितैः स्मितैः २८जगुर्मनोहरं काश्चिन्ननृतुश्चात्र चापराः ।अवादयंस्तथैवान्या मनोहरतरं नृप २९हावैर्भावैः स्मितैस्त्रासैस्तथान्या वल्गुभाषितैः ।तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ३०तथापि न तयोः कश्चिन्मनसः पृथिवीपते ।विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ३१निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः ।वासुदेवार्पणे स्वच्छे तथैव मनसी तयोः ३२पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः ।यथा न याति न ययौ तथा तन्मानसं क्वचित् ३३सर्वभूतहितौ ब्रह्म वासुदेवमयं परम् ।मन्यमानौ न रागस्य द्वेषस्य च वशङ्गतौ ३४स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः ।विद्यामयं दीपयुतमन्धकारमिवालयम् ३५पुष्पोज्ज्वलांस्तरुवरान्वसन्तं दक्षिणानिलम् ।ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ३६यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् ।ददृशातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ३७दाहाय नानलो वह्नेर्नापःक्लेदाय चाम्भसः ।तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ३८ततो विज्ञानविज्ञातपरब्रह्मस्वरूपयोः ।मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ३९ततो गुरुतरं यत्नं वसन्तमदनौ नृप ।चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनः पुनः ४०अथ नारायणो धैर्यगाम्भीर्योदार्यमानसः ।ऊरोरुत्पादयामास तां वरोरुबलां तदा ४१त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते ।गुणलाघवमभ्येति यस्याः सन्दर्शनादनु ४२तां विलोक्य महीपाल चकम्पे माधवानिलम् ।वसन्तो विस्मयं यातः संयातः संस्मरं स्मरः ४३रम्भातिलोत्तमाद्याश्च विलक्षा देवयोषितः ।न रेजुरवनीपाल तल्लक्षहृदयेक्षणाः ४४ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः ।प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ४५प्रसीदतु जगद्धाता यस्य देवस्य मायया ।मोहिताः स्म विजानीमो नान्तरं वन्द्यनिन्द्ययोः ४६प्रसीदतु स नो देवो यस्य रूपमिदं द्विधा ।धाम भूतस्य लोकानामनादेरत्र तिष्ठति ४७नरनारायणौ देवौ शार्ङ्गचक्रायुधावुभौ ।आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ४८निधानं सर्वविद्यानां सर्वपापेन्धनानलः ।नारायणो नो भगवान्सर्वपापं व्यपोहतु ४९शार्ङ्गचक्रायुधः श्रीमानात्मज्ञानमयोऽनघः ।नरः समस्तपापानि हत्वात्मा सर्वदेहिनाम् ५०जटाकलापबन्धोऽयमनयोरक्षयात्मनोः ।सौम्या च दृष्टिः पापानि हन्तु सर्वाणि नः शुभा ५१प्रसीदतु नरोऽस्माकं तथा नारायणोऽव्ययः ।अपराधः कृतोऽस्माभिर्ययोरव्यक्तजन्मनोः ५२क्व मूर्तिरैश्वर्यगुणैर्युक्ता दिव्यैर्महात्मनोः ।क्व नः शरीरकाणीदृग्मिश्रकर्मचितानि वै ५३तथाप्यविद्यादुष्टेन मनसा यः कृतो हि वाम् ।अस्माभिरपराधोऽयं क्षम्यतां सुमहाद्युती ५४शरणं च प्रपन्नानां तवास्मीति च वादिनाम् ।प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ५५एष एव वरोऽस्माकमविवेकाहृतो महान् ।त्रैलोक्यवन्द्यौ यन्नाथौ विलोभयितुमागताः ५६प्रसीद देव विज्ञानघनमूढदृशामपि ।भवन्ति सन्तः सततं सद्धर्मन्यवतारकाः ५७दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमीदृशम् ।त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ५८तेन सत्येन सत्यात्मन्परमात्मन्सनातनम् ।नारायण प्रसीदेति सर्वलोकपरायण ५९प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण ।प्रसीद योगिनामीश नर सर्वगताच्युत ६०नमस्यामो नरं देवं तथा नारायणं हरिम् ।नमो नराय नम्याय नमो नारायणाय च ६१प्रसन्नानामनाथानामपराधवतां प्रभुः ।शं करोतु नरोऽस्माकं शं नारायण देहि नः ६२शौनक उवाच ।एवमभ्यर्थितः स्तुत्या रागद्वेषादिवर्जितः ।प्राहेशः सर्वभूतानां साध्यो नारायणो नृप ६३स्वागतं मधवे काम भवतोऽप्सरसामपि ।यत्कार्यमागतानां व इहास्माभिस्तदुच्यताम् ६४यूयं संसिद्धये नूनमस्माकं वलशत्रुणा ।सम्प्रेषितास्ततोऽस्माकं नृत्तगेयादिदर्शितम् ६५न वयं नृत्तगीतेन नाङ्गचेष्टादिभाषितैः ।लुभ्यामो विषतो मन्ये विषया दारुणात्मकाः ६६शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः ।तदा नृत्तादयो भावाः कथं लोभप्रदायिनः ६७ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च ।माधवस्य च शक्रोऽपि स्वास्थ्यं यात्वविशङ्कितः ६८योऽसौ परस्मात्परमः पुरुषात्परमेश्वरः ।परमात्मा हृषीकेशः स्थावरस्य चरस्य च ६९उत्पत्तिहेतुरन्ते च यस्मिन्सर्वं प्रलीयते ।स सर्ववासिदेवत्वाद्वासुदेवेत्युदाहृतः ७०वयमंशांशकास्तस्य चतुर्व्यूहस्य मायिनः ।तदादेशितवर्त्मनो जगद्बोधाय देहिनः ७१तं सर्वभूतं सर्वेशं सर्वत्र समदर्शिनः ।पश्यन्तः कुत्र रागादीन्करिष्यामो विभेदकान् ७२वसन्ते मयि चेन्द्रेच भवतीषु तथा स्मरे ।यदा स एव विश्वात्मा तदा द्वेषादयः कथम् ७३तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु ।पृथिव्यापस्तथा तेजो वायुराकाशमेव च ७४तथेन्द्रियाण्यहङ्कारो बुद्धिश्च न पृथग्यतः ।समदृष्टिर्यतः कुत्र रागद्वेषौ प्रवर्ततः ७५आत्मा चायमभेदेन यतः सर्वेषु जन्तुषु ।सर्वेश्वरेश्वरो विष्णुः कुत्र रागादयस्ततः ७६ब्रह्माणमिन्द्रमीशानमादित्यान्मरुतोऽखिलान् ।विश्वेदेवानृषीन्साध्यान्वसून्पितृगणांस्तथा ७७यक्षराक्षसभूतादीन्नागसर्पसरीसृपान् ।मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ७८मक्षिकामशकादंशाञ्शलभानलसान्कृमीन् ।गुल्मवृक्षलतावल्लित्वक्सारतृणजातिजान् ७९यच्च किञ्चिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः ।मन्यध्वं रूपमेकस्य तत्सर्वं परमात्मनः ८०जानमानः कथं विष्णुमात्मानं परमं च यत् ।रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ८१सर्वभूतस्थिते विष्णौ सर्वगे सर्वधातरि ।निपात्यतां पृथग्भूते कुत्र रागादिको गणः ८२एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः ।तन्मयत्वैकभूतेषु रागाद्यवसरः कुतः ८३सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी ।पृथग्विज्ञानमत्रैव लोकसंव्यवहारवत् ८४भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम् ।जगद्यदेतदखिलं तदा भेदः किमात्मकः ८५भवन्ति लयमायान्ति समुद्रेसलिलोर्मयः ।न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ८६यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः ।भवन्ति नाग्निभेदेन तथैतद्ब्रह्मणो जगत् ८७भवतीभिश्च यत्क्षोभमस्माकं स पुरन्दरः ।कारयत्यसदेतच्च विवेकाधारचेतसाम् ८८भवत्यः स च देवेन्द्रोलोकाश्च ससुरासुराः ।समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ८९यथेयं चारुसर्वाङ्गी भवतीनां मयोरुतः ।दर्शिता दर्शयिष्यामि तथात्रैवाखिलं जगत् ९०प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् ।यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ९१किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते ।तारतम्यं सुरूपत्वे सततं भिन्नदर्शिनाम् ९२भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् ।मयेयं दर्शिता तन्वी ततस्तच्छममिच्छता ९३यस्मान्मदूरोरुद्भूता इयमिन्दीवरेक्षणा ।उर्वशी नाम कल्याणी भविष्यति ततोऽप्सराः ९४तदियं देवराजाय नीयतां वरवर्णिनी ।भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ९५वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् ।तपश्चर्या न चाप्राप्यफलं प्राप्तुमभीप्सितम् ९६सन्मार्गमस्य जगतो दर्शयिष्यन्करोम्यहम् ।तपो नरेण सहितो जगतः पालनोद्यतः ९७यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर ।तमहं वारयिष्यामि निर्वृतो भव वासव ९८कर्तासि चेत्त्वमाबाधामदुष्टस्येह कस्यचित् ।तवापि शास्तैतदहं प्रवर्तिष्याम्यसंशयम् ९१एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति ।उपकाराय जगतामवतीर्णोऽस्मि वासव १००या चेयमुर्वशी मत्तः समुद्भूता पुरन्दर ।त्रेताग्निहेतुभूतेयमैलं प्राप्य भविष्यति १०१इति विष्णुधर्मेषूर्वशीशम्भवः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP