संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ३८ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ३८ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ३८ Translation - भाषांतर अथाष्टात्रिंशोऽध्यायः ।दाल्भ्य उवाच ।संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान् ।कर्तव्यं यन्महाभाग पुरुषेण तदुच्यताम् १पुलस्त्य उवाच ।संसारासारतां ज्ञात्वा विषयांश्चातितर्षुलान् ।गृद्धिस्तेष्वेव सन्त्याज्या तत्त्यागो गुणवान्नृणाम् २येषामब्दसहस्राणां सहस्रैरपि नो नरः ।भोगात्तृप्तिं समाप्नोति कस्तैर्भोगैर्विरज्यते ३यावतो वाञ्छते भोगानहन्यहनि मानवः ।तेषां सहस्रभागेऽपि दाल्भ्य प्राप्तिं न विन्दति ४अथ चेत्तनवाप्नोति सहस्रगुणितान्नरः ।तथाप्यतृप्त एवान्तमन्तकाले गमिष्यति ५तृप्तये ये न सम्प्राप्ताः प्राप्यन्ते ये न वाञ्छिताः ।बुद्धिमानिन्द्रियार्थेषु तेष्वसङ्गी सदा भवेत् ६येषां तृप्तिर्न भोगेन त्यागश्चैवोपकारकः ।उपोषितविधानेन भोगान्त्यागस्ततो वरः ७कृच्छ्रचान्द्रायणादीनि नरैस्तस्मान्मुमुक्षुभिः ।निष्कामैर्दाल्भ्य कार्याणि फलाय च फलेप्सुभिः ८अत्राप्युदाहरन्तीमं मुनयो मुनिसत्तम ।दस्राभ्यां सह संवादमैलस्य च महात्मनः ९ऐलः पुरूरवाः पूर्वं बभूव मनुजेश्वरः ।चकमे यं महाभागमुर्वशी सुरसुन्दरी १०सन्त्यज्य त्रिदशावासं रूपौदार्यगुणान्वितम् ।भेजे तमुर्वशी दाल्भ्य बुधस्य तनयं नृपम् ११नासत्यदस्रौ रूपेण देवानामधिकौ ततः ।उर्वशीलोभनं तस्य रूपं द्रष्टुं समुत्सुकौ १२प्रतिष्ठानं पुरं तस्य बुधपुत्रस्य धीमतः ।जग्मतुः सुमहाभागौ तस्य द्वास्थमथोचतुः १३अश्विनावूचतुः ।क्षत्तोऽस्मद्वचनादैलं ब्रूहि त्वं वसुधाधिपम् ।द्रष्टुं तवाश्विनौ प्राप्तौ रूपसम्पद्गुणं नृप ।तदेह्यत्र महाभाग इहास्मान्सम्प्रवेशय १४आश्चर्यभूतं लोकेषु उर्वशीलोभनं वपुः ।तत्कौतुकं न कुरुते कस्य पार्थिवपुङ्गव १५पुलस्त्य उवाच ।आवां समागतौ तस्मात्त्वां द्रष्टुं मनुजोत्तम ।द्वास्थस्तथेति तावाह प्रविवेश च सत्वरम् ।आचचक्षे च तद्राज्ञे नासत्यवचनं द्विज १६तच्छ्रुत्वा वचनं राजा द्वास्थमाह मुहूर्तकम् ।विलम्ब्यतां महाभागौ तौ ब्रूहि वचनान्मम १७व्यायामतैलसंसर्गमलिनो न विभूषितः ।प्रसाधनं च कृत्वाहं निष्क्रमामि त्वरान्वितः १८पुलस्त्य उवाच ।निष्क्रम्य स ततो द्वास्थो यथोक्तं भूभृतखिलम् ।समाचष्ट ततो दाल्भ्य तौ च भूयस्तमूचतुः १९अश्विनावूचतुः ।अप्रसाधितमेवाशु भवन्तं वसुधाधिप ।पश्यावस्तव भूयोऽपि त्वां द्रक्ष्यावः प्रसाधितम् २०पुलस्त्य उवाच ।इत्युक्तो निर्गतस्तूर्णं भवनादवनीपतिः ।तैलाभ्यक्ततनुर्दाल्भ्य व्यायामपरिधानधृक् २१स प्रणामं तयोः कृत्वा किञ्चिन्नतशिरा नृपः ।प्रोवाच यन्मया कार्यं भवतोस्तदिहोच्यताम् २२सप्तद्वीपवती पृथ्वी पुत्रदारबलं धनम् ।यच्चान्यदपि तत्सर्वं युवयोर्मे निवेदितम् २३पुलस्त्य उवाच ।इत्युदाहृतमाकर्ण्य नृपतेरश्विनावपि ।अङ्गोपाङ्गादिकं सर्वं शनकैस्तावपश्यताम् २४शिरोललाटबाहुं सनयनादिविलोकनम् ।कृत्वा च तं महीपालमूचतुस्ताविदं सुरौ २५प्रविश्य स्नाहि भूपाल यथार्थैश्च विभूषणैः ।विभूषितं तु भूयस्त्वां द्रक्ष्यावोऽवां नरेश्वर २६पुलस्त्य उवाच ।तथेति चोक्त्वा स नृपः प्रविवेश महामुने ।चक्रे च सकलं सम्यक् स्नात्वा देहप्रसाधनम् २७स्नातोऽनुलिप्तः स्रग्धारी सुवस्त्रः सुविभूषितः ।नासत्यदस्रयोः पार्श्वमियाय वसुधाधिपः २८भूयोऽपि तौ यथा पूर्वमङ्गोपाङ्गविलोकनम् ।चक्रतुर्नृपतेस्तस्य स्मितभिन्नौष्ठसम्पुटौ २९तौ सहासौ समालक्ष्य स तदा वसुधाधिपः ।हासस्य कारणं देवभिषजौ तावपृच्छत ३०पृच्छन्तं न ततो दाल्भ्य नृपतिं हास्यकारणम् ।यदूचतुर्महाभागौ तच्छृणुष्व वदामि ते ३१अश्विनावूचतुः ।शृणु भूपाल सकलं हासकारणमावयोः ।युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् ३२अस्नातस्याभवद्भूप यादृशी ते सुरूपता ।साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः ३३स्नातः स्रग्दामधारी त्वं स्वनुलिप्तः सुभूषितः ।तथाप्यस्नात एव प्राच्छोभनोऽभून्न साम्प्रतम् ३४राजोवाच ।किन्तु तत्कारणं येन व्यायाममलिनाम्बरः ।शोभनोऽहमभूत्पूर्वमिदानीं न विभूषितः ३५अश्विनावूचतुः ।दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च ।वयःपरिणतिं सूक्ष्मां पश्यावोऽपचयप्रदाम् ३६यथा हि नाडिका पूर्णा गलत्यविरतं नृप ।नॄणां परिणतस्तद्वच्छरीरग्रहणादनु ३७जन्मतोऽनन्तरं बाल्यं पौगण्डत्वं ततः परम् ।यौवनं मध्यदेहित्वं वार्द्धकं च जरा नृणाम् ।स्थूलदृष्ट्या तु पश्यन्ति न तु ते सूक्ष्मदर्शिनः ३८निमेषशतभागस्य सहस्रांशः क्षणो नृप ।तस्याप्ययुतभागांशो भवत्यपचयो नृणाम् ३९सूक्ष्मातिसूक्ष्मापचयी भवत्येष पुमान्नृप ।परिणामं क्रमाद्याति तृप्तिं वारि पिबन्निव ४०तदहर्जातबाल्यस्य बालस्यापचयो हि सः ।प्रतिक्षणांशया वृद्धिर्बालत्वं हीयते तया ४१पौगण्डे यौवने चैव वार्द्धके च महामते ।हानिक्रमः स एवोक्तो यो बाल्ये कथितस्तव ४२कान्तिर्या नृप बालस्य पोगण्डस्य हि सा कुतः ।तत्कान्तिसौकुमार्याद्यैः शून्यमेव हि यौवनम् ४३कान्त्यादिसम्पदो हानिः परमा नृप वार्द्धके ।तत्राप्यनुक्षणं हानिर्हानिरा मृत्युतो नृप ४४एवं प्रतिक्षणांशांशो नॄणामपचयप्रदः ।कुर्वतः किमु कालस्ते महास्नानप्रसाधनम् ४५अस्मद्दृष्टो भवान्यावत्प्रविष्टो निजमन्दिरम् ।तावद्धानिमनुप्राप्तः किमु यामार्धसंस्थितः ४६यादृशोऽद्य भवांस्तादृक् त्वं न रूपी नरेश्वर ।परश्वः शस्तनं नैव चतुर्थेऽह्नि च तन्मयः ४७एवं समस्तभूतानि स्थावराणि चराणि च ।प्रतिक्षणांशापचयं प्राप्नुवन्ति महीतले ४८तस्मान्न कौतुकं कार्यं भवता तु नरेश्वर ।यत्ते रूपमभूत्पूर्वमप्रसाधितशोभनम् ४९पुलस्त्य उवाच ।राजा पुरूरवा भूयः श्रुत्वा वाक्यमिदं तयोः ।चिन्तयित्वा वचः प्राह संवेगोत्कम्पिमानसः ५०राजोवाच ।अहो भवद्भ्यां कथितमनवस्थितसंस्थितम् ।स्वरूपं जगतो देवौ येन त्रस्तोऽस्मि साम्प्रतम् ५१अज्ञानतिमिरान्धानां मद्विधानां भवद्विधाः ।प्रदीपभूताः सन्देहो विद्यते नात्र कश्चन ५२सदापचयदोषेण दुष्टकायैः सुरोत्तमौ ।यत्कार्यं पुरुषैस्तच्च कथ्यतां हितकाम्यया ५३अश्विनावूचतुः ।अतिमूढोऽध्रुवे काये सदापचयधर्मिणि ।नरस्तदुपभोग्यानि ध्रुवाणि परिमार्गति ५४आसनं शयनं यानं परिधानं गृहादिकम् ।वाञ्छत्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः ५५मूढोऽध्रुवं ध्रुवमतिः किमात्मानं न बुध्यते ।बाल्यात्पौगण्डतां गत्वा यः पुनर्यौवनं गतः ५६भुवः शैलं समारूढः समारूढस्ततो द्रुमम् ।आरोहणं स किमन्यदृक्षभीतः करिष्यति ५७बाल्यात्पौगण्डतां यातो यौवनाद्वृद्धतां गतः ।वयोऽवस्था ततः कान्या यद्भोगाय स्थिरेच्छकः ५८तस्मादेतन्मनुष्येण विचार्यात्महितैषिणा ।श्रेयस्यामुष्मिके यत्नः कर्तव्योऽहर्निशं नृप ५९भोगेष्वसक्तिः सततं तथैवात्मावलोकनम् ।श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिवः ६०सर्वत्र समदर्शित्वं निर्ममत्वमसङ्गिता ।श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुनिः ६१आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् ।श्रेयः परं मनुष्याणामङ्गारिष्ठोऽब्रवीन्नृपः ६२अध्यात्मिकादिदुःखानामत्यन्तादिप्रतिक्रिया ।श्रेयः परं मनुष्याणां जनको ह्याह मोक्षवित् ६३अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनोः ।हिरण्यगर्भस्तच्छान्तिं श्रेयः परममब्रवीत् ६४कर्तव्यमिति यत्कर्म ऋग्यजुःसामसञ्ज्ञितम् ।क्रियते तत्परं श्रेयो जैगीषव्योऽब्रवीन्मुनिः ६५हानिं सर्वविधित्सानामात्मनः सुखहेतुकीम् ।श्रेयः परं मनुष्याणां देवलोऽप्याह तत्त्ववित् ६६यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते ।एतदेव परं श्रेयो विज्ञानं हितकामिनाम् ६७कामानुसारी पुरुषः कामाननु विनश्यति ।अश्रेयसं परं चैतद्यद्भूपालातिकामिता ६८एवं विज्ञाततत्त्वार्थः सनको योगिनां वरः ।नरेन्द्रप्राह विप्राणां परमार्थपरम्परम् ६९क्रियाकलापफलदमृग्यजुःसामसञ्ज्ञितम् ।अमुष्मिन्मध्यमं श्रेयः प्राहुः सप्त र्षयो नृप ७०इहैव फलदं काम्यं कर्म यत्क्रियते नरैः ।तदाहुरपरं श्रेयो ऋचीकच्यवनादयः ७१द्वे कर्मणी नरश्रेष्ठ ब्रह्मणा समुदाहृते ।प्रवृत्ताख्यं निवृत्तं च स्वर्गमुक्तिफले हि ते ७२प्रवृत्तमपि मोक्षाय कर्म पार्थिव जायते ।कर्म स्वरूपतो भ्रष्टमनाकाङ्क्ष्य फलं कृतम् ७३सामान्यं चापरं श्रेयः सर्ववर्णाश्रमेषु यत् ।तच्छृणुष्व महीपाल वदतो मम तत्त्वतः ७४सत्यं वक्तव्यं नित्यं मैत्रेण भाव्यं ।कार्यं च त्याज्यं नित्यमायासकारि ।लोकेऽमुष्मिन्यद्धितं च तथास्मिंस् ।तस्मिन्नात्मा योजनीयोऽनुधीरैः ७५तीर्थस्नानैः सोपवासैरजस्रं पात्रे दानैर्होमजापैश्च नित्यम् ।शुद्धिर्नेयो देवताभ्यर्चनैश्च शुद्धोऽप्यात्मा सङ्गदोषादशुद्धः ७६शुद्धं वस्त्रं सङ्गदोषादशुद्धं ।भूयः शुद्धिं शोध्यमानं पर्याति ।एतज्ज्ञात्वा न प्रमादो मनुष्यैः ।शुद्धे ह्यात्मन्यात्मविद्भिर्विधेयः ७७पुलस्त्य उवाच ।इत्युक्त्वा तौ नरेन्द्रंतौ तेन चार्घ्यादिना पृथक् ।सम्यक् सम्पूजितौ यातौ नाक पृष्ठमथाश्विनौ ७८स चाप्यनित्यतामेवमवगम्य नरेश्वरः ।निष्कामोऽनुदिनमेव अवगम्य नरेश्वरः ।निष्कामोऽनुदिनं यज्ञैरियाज पुरुषोत्तमम् ७९भोगासङ्गि मनो दाल्भ्य यदासीत्तस्य भूपतेः ।तदेव भगवद्ध्यानपरं चक्रे महामुने ८०तत्याजार्थेषु ममतामहङ्कारं तथात्मनि ।समतां सर्वभूतेषु सम्प्राप पृथिवीपतिः ८१यस्यात्मन्यपि विप्रर्षे नाहम्मानोऽस्ति कुत्रचित् ।मदावलेपो पूपादौ तस्य स्यादिति का कथा ८२एवं दाल्भ्य मनुष्येण समतामनुतिष्ठता ।सर्वभोगेषु सन्त्याज्यो ध्येयश्च पुरुषोत्तमः ८३कुत्र तिष्ठति गोविन्दो बाह्यनिवृतचेतसि ।तस्मान्निःसङ्गचित्तेन शक्यश्चिन्तयितुं हरिः ८४प्रीतिद्वेषादयस्त्यक्त्वा महर्षे यस्य चेतसा ।प्रियातिथिस्तद्धृदये विष्णुर्मोक्षफलप्रदः ८५इति विष्णुधर्मेष्वश्विनपुरूरवसंवादः । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP