संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८५

विष्णुधर्माः - अध्याय ८५

विष्णुधर्माः


N/Aअथ पञ्चाशीतितमोऽध्यायः ।
राजोवाच ।
विष्णोराराधनार्थाय यानि दानानि सत्तम ।
देयानि तान्यशेषाणि ममाचक्ष्व द्विजोत्तम १

येन चैव विधानेन दानं पुंसः सुखावहम् ।
प्रीणनाय च कृष्णस्य तन्ममाख्याहि विस्तरात् २

वसिष्ठ उवाच ।
कृतोपवासः सम्प्राश्य पञ्चगव्यं नरेश्वर ।
घृतक्षीराभिषेकं च कृत्वा विष्णोः समाहितः ३

समभ्यर्च्य च गोविन्दं पुष्पादिभिररिन्दम ।
उदङ्मुखीमर्चयित्वा तथा गृष्टिं पयस्विनीम् ४

सपुत्रां वस्त्रसंवीतां सितयज्ञोपवीतिनीम् ।
स्वर्णशृङ्गीं शुभाकारां हिरण्योपरिसंस्थिताम् ५

हिरण्यंवाचयित्वाग्रे ब्राह्मणायोपपादयेत् ।
इमां त्वं प्रतिगृह्णीष्व गोविन्दः प्रीयतामिति ६

सम्यगुच्चार्य तं विप्रं गोविन्दं नृप कल्पयेत् ।
अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप ७

अनेन विधिना धेनुं यो विप्राय प्रयच्छति ।
गोविन्दप्रीणनाद्राजन्विष्णुलोकं च गच्छति ८

सप्तावरांस्तथा पूर्वान्सप्तात्मानं च मानवः ।
सप्तजन्मकृतात्पापान्मोचयत्यवनीपते ९

पदे पदे च यज्ञस्य गोसवस्य स मानवः ।
फलमाप्नोति राजेन्द्रदक्षायैवं जगौ हरिः १०

सर्वकामसमृद्धस्य सर्वकालेषु पार्थिव ।
भवत्यघौघापहरा यावदिन्द्राश्चतुर्दश ११

सर्वेषामेव पापानां कृतानामविजानता ।
प्रायश्चित्तमिदं शस्तमनुतापोपवृंहितम् १२

इक्ष्वाकुनैषा राजेन्द्रपूर्वं दत्ता महात्मना ।
ततः स लोकानमलान्प्राप्तवानवनीपतिः १३

तथैवान्यैर्महीपालैर्द्विजवैश्यादिभिस्तथा ।
लोकाः कामदुघाः प्राप्ता दत्त्वेदृग्विधिना नृप १४

इति विष्णुधर्मेषु गोप्रदानविधिः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP