संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ६८ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ६८ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ६८ Translation - भाषांतर अथाष्टषष्टितमोऽध्यायः ।शतानीक उवाच ।महामते महाप्राज्ञ सर्वशास्त्रविशारद ।अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम १मरणे यज्जपञ्जप्यं यच्च भावं अनुस्मरन् ।परं पदमवाप्नोति तन्मे वद महामुने २शौनक उवाच ।श्रीवत्साङ्कं जगद्बीजमनन्तं लोकभावनम् ।पुरा नारायणं देवं नारदः पर्यपृच्छत ३नारद उवाच ।भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ।कथं भक्तैर्विचिन्त्योऽसि मरणे प्रत्युपस्थिते ४किं वा जप्यं जपेन्नित्यं कल्यमुत्थाय मानवः ।स्वपन्विबुध्यन्ध्यायंश्च तन्मे ब्रूहि सनातन ५श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाक्यविशारदः ।प्रोवाच भगवान्विष्णुर्नारदं जगतो गतिः ६भगवानुवाच ।हन्त ते कथयिष्यामि मुने दिव्यामनुस्मृतिम् ।मरणे यामनुस्मृत्य प्राप्नोति परमां गतिम् ७ॐकारमादितः कृत्वा मामनुस्मृत्य मन्मनाः ।एकाग्रप्रयतो भूत्वा इदं मन्त्रमुदीरयेत् ८अव्यक्तं शाश्वतं देवमनन्तं पुरुषोत्तमम् ।प्रपद्ये प्राञ्जलिर्विष्णुमच्युतं परमेश्वरम् ९पुराणं परमं विष्णुमद्भुतं लोकभावनम् ।प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् १०लोकनाथं प्रपन्नोऽस्मि अक्षरं परमं पदम् ।भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ११स्रष्टारं सर्वभूतानामनन्तबलपौरुषम् ।पद्मनाभं हृषीकेशं पपद्ये सत्यमव्ययम् १२हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम् ।आभास्वरमनाद्यन्तं प्रपद्ये भास्करद्युतिम् १३सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम् ।प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् १४नारायणं नरं हंसं योगात्मानं सनातनम् ।शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम् १५यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ।चराचरगुरुर्देवः स नो विष्णुः प्रसीदतु १६यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः पितामहः ।प्रसीदतु स नो विष्णुः पिता माता पितामहः १७यः पुरा प्रलये प्राप्ते नष्टे लोके चराचरे ।एकस्तिष्ठति योगात्मा स नो विष्णुः प्रसीदतु १८चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।हूयते च पुनर्द्वाभ्यांस नो विष्णुः प्रसीदतु ।पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् ।गुणाकरः स नो बभ्रुर्वासुदेवः प्रसीदतु १९योगावास नमस्तुभ्यं सर्वावास वरप्रद ।यज्ञगर्भ महाभाग पञ्चयज्ञ नमोऽस्तु ते २०चतुर्मूर्ते जगद्धाम लक्ष्म्यावास वरप्रद ।सर्वावास नमस्तेऽस्तु साक्षिभूत जगत्पते २१अजेय खण्डपरशो विश्वमूर्ते वृषाकपे ।त्रिगर्ते पञ्चकालज्ञ नमस्ते ज्ञानसागर २२अव्यक्तादण्डमुत्पन्नमव्यक्ताद्यः परः प्रभुः ।यस्मात्परतरं नास्ति तमस्मि शरणं गतः २३चिन्तयन्तो हि यं नित्यं ब्रह्मेशाआदयः प्रभुम् ।निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः २४जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः ।यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः २५एकांशेन जगत्सर्वं योऽवष्टभ्य विभुः स्थितः ।अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः २६दिवाकरस्य सौम्यं हि मध्ये ज्योतिरवस्थितम् ।क्षेत्रज्ञमिति यं प्राहुः स महात्मा प्रसीदतु २७अव्यक्तमनवस्थानो दुर्विज्ञेयः सनातनः ।आस्थितः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु २८क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं बहुभिर्गुणैः ।मनोगुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु २९साङ्ख्या योगाश्च ये चान्ये सिद्धाश्चैव महर्षयः ।यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ३०नमस्ते सर्वतोभद्रसर्वतोऽक्षिशिरोमुख ।निर्विकार नमस्तेऽस्तु साक्षिभूत हृदि स्थित ।अतीन्द्रिय नमस्तुभ्यं लिङ्गेभ्यस्त्वं प्रमीयसे ३१ये तु त्वां नाभिजानन्ति संसारे संसरन्ति ते ।रागद्वेषविनिर्मुक्तं लोभमोहविवर्जितम् ।अशरीरं शरीरस्थं समं सर्वेषु देहिषु ३२अव्यक्तं बुद्ध्यहङ्कारौ महाभूतेन्द्रियाणि च ।त्वयि तानि न तेषु त्वं तेषु त्वं तानि न त्वयि ३३स्रष्टा भोक्तासि कूटस्थो गुणानां प्रभुरीश्वरः ।अकर्ता हेतुरहितः प्रभुः स्वात्मन्यवस्थितः ३४नमस्ते पुण्डरीकाक्ष पुनरेव नमोऽस्तु ते ।ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।भक्तानां यद्धितं देव तद्ध्याय त्रिदशेश्वर ३५मा मे भूतेषु संयोगः पुनर्भवतु जन्मनि ।अहङ्कारेण बुद्ध्या वा तथा सत्त्वादिभिर्गुणैः ३६मा मे धर्मो ह्यधर्मो वा पुनर्भवतु जन्मनि ।विषयैरिन्द्रियैर्वापि मा मे भूयात्समागमः ३७पृथिवीं यातु मे घ्राणं यातु मे रसना जलम् ।चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम् ३८शब्दो ह्याकाशमभ्येतु मनो वैकारिकं तथा ।अहङ्कारश्च मे बुद्धिं त्वयि बुद्धिः समेतु च ३९वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् ।सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ४०निष्केवलं पदं चैव प्रयामि परमं तव ।एकीभावस्त्वयैवास्तु मा मे जन्म भवेत्पुनः ४१नमो भगवते तस्मै विष्णवे प्रभविष्णवे ।त्वन्मनस्त्वद्गतपृआणस्त्वद्भक्तस्त्वत्परायणः ।त्वामेवानुस्मरे देव मरणे प्रत्युपस्थिते ४२पूर्वदेहकृता ये मे व्याधयस्ते विशन्तु माम् ।आर्दयन्तु च दुःखानि प्रविमुञ्चामि यदृणम् ४३उपतिष्ठन्तु मे रोगा ये मया पूवसञ्चिताः ।अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ४४अहं भगवतस्तस्य मम चासौ सुरेश्वरः ।तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ४५नमो भगवते तस्मै येन सर्वमिदं ततम् ।तमेव च प्रपन्नोऽस्मि मम यो यस्य चाप्यहम् ४६इमामनुस्मृतिं नित्यं वैष्णवीं पापनाशनीम् ।स्वपञ्जाग्रत्पठेद्यस्तु त्रिसन्ध्यं वापि यः स्मरेत् ४७मरणे चाप्यनुप्राप्ते यस्त्विमां समनुस्मरेत् ।अपि पापसमाचारः सोऽपि याति परां गतिम् ४८अर्चयन्नपि यो देवं गृहे वापि बलिं ददेत् ।जुह्वदग्निं स्मरेद्वापि लभते स परां गतिम् ४९पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ।श्रावयेच्छ्रद्दधानंस्तु ये चान्ये मामुपाश्रिताः ५०नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ।तस्य स्युरक्षया लोकाः श्वपाकस्यापि नारद ५१किं पुनर्ये यजन्ते मां साधवो विधिपूर्वकम् ।ध्यायन्ति च यथान्यायं ते यान्ति परमां गतिम् ५२अश्वमेधसहस्राणां यः सहस्रं समाचरेत् ।नासौ तत्पदमाप्नोति मद्भक्तैर्यदवाप्यते ५३इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये ।सर्वमेतद्विनाशान्तं ज्ञाअस्यान्तो न विद्यते ५४तस्मात्प्रदेयं साधुभ्यो धर्म्यं सत्त्वाभयङ्करम् ।दानादीन्यन्तवन्तीह मद्भक्तो नान्तमश्नुते ५५यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम् ।कृत्स्नां वा पृथिवीं दद्यान्न तु तुल्यं कथञ्चन ५६कान्तारवनदुर्गेषु कृच्छ्रेष्वापत्सु सम्भ्रमे ।दस्युभिः सन्निरुद्धश्च नामभिर्मां प्रकीर्तयेत् ५७वराहो रक्षतु जले विषमेषु च वामनः ।रामो रामश्च रामश्च त्रायन्तां दस्युदोषतः ।अटव्यां नारसिंहस्तु सर्वतः पातु केशवः ५८बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ५९जन्मान्तरसहस्राणि तपोज्ञानसमाधिभिः ।नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।गत्वा गत्वा निवर्तने चन्द्रसूर्यादयो ग्रहाः ।अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ।न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमं पवित्रम् ।न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति ।तस्मान्मामेव देवर्षे ध्यायस्वातन्द्रितः सदा ।अवाप्स्यसि ततः सिद्धिं पदं द्रक्ष्यसि च ध्रुवम् ६०शौनक उवाच ।एवं स देवदेवेन नारदः प्रतिबोधितः ।चकार केशवे भक्तिं तस्मात्त्वं कुरु भूपते ६१यः पठेत्परया भक्त्या स गच्छेद्विष्णुसाम्यताम् ।एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ६२इति विष्णुधर्मेषु अनुस्मृतिः । N/A References : N/A Last Updated : February 22, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP