संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ३३ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ३३ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ३३ Translation - भाषांतर अथ त्रयस्त्रिंशोऽध्यायः ।दाल्भ्य उवाच ।आह्लादं चक्षुषः प्रीतिं करोति मनसस्तथा ।केषाञ्चिद्दर्शनं ब्रह्मन्मनुष्याणामहर्निशम् १उद्वेजनीया भूतानामनिमित्तं तथापरे ।वदन्ते विप्रियं नैव प्रीतिं कुर्वन्ति मानवाः २एतद्यस्य फलं ब्रह्मन्दानस्य तपसोऽथवा ।उपवासस्य वा तन्मे यथावद्वक्तुमर्हसि ३अप्रीतिदस्य विप्रर्षे विपाको यस्य कर्मणः ।मनुष्याणामशेषं वै तन्ममाचक्ष्व सत्तम ४पुलस्त्य उवाच ।देवब्राह्मणवेदेषु यज्ञेषु च नराधमैः ।यैर्जुगुप्सा कृता दाल्भ्य मनसाप्यतिमानिभिः ५तेषां सन्दर्शनात्सर्वो न सुखं विन्दते द्विज ।वदन्त्यप्यनुकूलानि न तेषु प्रीयते जनः ६स्पर्शादुद्विजते लोकः कटु तेषां च दर्शनम् ।सम्भाषणं च निन्दा वै कृता वेदद्विजातिके ७तस्मान्न निन्दां वेदादौ न जुगुप्सां च पण्डितः ।यज्ञादौ च नरः कुर्याद्य इच्छेच्छ्रेय आत्मनः ८यैस्तु प्रीतिः समस्तेषु वेददेवद्विजातिषु ।यज्ञादिके चैव कृता दाल्भ्य तद्दर्शनं नृणाम् ९आह्लादश्चक्षुषः प्रीतिर्मनसो निर्वृतिः परा ।सम्भाषणे तथाह्लादः सर्वलोकस्य जायते १०स्तुताः प्रशस्ताः सम्प्रीत्या पूजिता बहुमानतः ।श्रेयः परं प्रयच्छन्ति देवा वेदा मखा द्विजाः ११लोकद्वयेऽपि चाप्रीतिं पशुपुत्रधनक्षयम् ।कुर्वन्ति द्विजशार्दूल एत एव विनिन्दिताः १२एत एव समाख्याताः स्तवादिग्रहणे गुणाः ।निन्दायाः श्रवणे दोष एतेषामेवमेव हि १३तस्मात्स्तव्याः प्रशंस्याश्च देवा वेदा द्विजातयः ।यज्ञाश्च मनसाप्येषां न निन्दामाचरेद्बुधः १४इति विष्णुधर्मेषु देवद्विजादिप्रशंसा । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP