संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४८

विष्णुधर्माः - अध्याय ४८

विष्णुधर्माः


अथाष्टाचत्वारिंशोऽध्यायः ।
भगवानुवाच ।
धान्यं क्रमेणार्जितवित्तसञ्चयं विप्रे सुशीले ते प्रयच्छते यः ।
वसुन्धरा तस्य भवेत्सुतुष्टा धारा वसूनां प्रतिमुञ्चतीह १

पुष्पोपभोगं च फलोपभोगं यः पाअपं स्पर्शयते द्विजाय ।
स श्रीसमृद्धं बहुरत्नपूर्णं लभत्यधिष्ठानवरं समृद्धम् २

इन्धनानि च यो दद्याद्द्विजेभ्यः शिशिरागमे ।
कायाग्निदीप्तिं सौभाग्यमैश्वर्यं चाधिगच्छति ३

छत्त्रप्रदानेन गृहं वरिष्ठं रथं तथोपानहसम्प्रदानात् ।
धुर्यप्रदानेन गवां तथैव लोकानवाप्नोति पुरन्दरस्य ।
स्वर्गीयमप्याह हिरण्यदानं तथा वरिष्ठं कनकप्रदानम् ४

नैवेशिकं सर्वगुणोपपन्नं प्रयच्छते यः पुरुषो द्विजाय ।
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः प्रवरा भवन्ति ५

यो ब्रह्मदेयां प्रददाति कन्यां भूमिप्रदानं च करोति विप्रे ।
हिरण्यदानं च तथा विशिष्टं स शक्रो लोकं लभते दुरापम् ६

सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय ।
रूपान्वितां दक्षवतीं मनोज्ञां भार्यामयत्नोपचितां लभेत्सः ७

लवणस्य तु दातारस्तिलानां सर्पिषस्तथा ।
तेजस्विनोऽभिजायन्ते भोगिनश्चिरजीविनः ८

स्वर्गेऽप्सरोभिः सह भुक्तभोगस्ततश्च्युतः शीलवतीं स भार्याम् ।
रूपान्वितां दक्षवतीं सुरक्तां सुखेन धर्मेण तथापि काले ।
तस्यैव सार्धं सुरलोकमेति तस्यैव चान्यत्पुनरेति जन्म १

इति विष्णुधर्मेषु दानफलानि ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP