संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय २९ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय २९ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय २९ Translation - भाषांतर अथैकोनत्रिंशोऽध्यायः ।दाल्भ्य उवाच ।सुरूपता मनुष्याणां स्त्रीणां च द्विजसत्तम ।कर्मणा जायते येन तन्ममाख्यातुमर्हसि १सुरूपाणां सुगात्राणां सुवेषाणां तथा मुने ।न्यूनं तथाधिकं वापि किञ्चिदङ्गं प्रजायते २समस्तैः शोभनैरङ्गैर्नराः केचित्तथा द्विज ।काणाः कुब्जाश्च जायन्ते त्रुटितश्रवणास्तथा ३नराणां योषितां चैव समस्ताङ्ग्सुरूपता ।कर्मणा येन भवति तत्सर्वं कथयाअल ४लावण्यगतिवाक्यानि सति रूपे महामते ।प्रयान्ति चारुतां रूपं तेनोक्तः परमो गुणः ५वाक्यलावण्यसंस्कारविलासललिता गतिः ।विडम्बना कुरूपाणां स्त्रीपुंसामभिजायते ६रूपकारणभूताय यतेत मतिमांस्ततः ।कर्मणा तन्ममाचक्ष्व कर्म यच्चारुरूपदम् ७पुलस्त्य उवाच ।सम्यक् पृष्टं त्वया हीदमुपवासाश्रितं द्विज ।कथयामि यथा प्रोक्तं वसिष्ठेन महात्मना ८वसिष्ठमृषिमासीनं सप्तर्षिप्रवरं पतिम् ।पप्रच्छारुन्धती प्रश्नं यदेतद्भवता वयम् ९तस्याः स परिपृच्छन्त्या जगाद मुनिसत्तमः ।यत्तच्छृणुष्व धर्मज्ञ ममेह वदतोऽखिलम् १०वसिष्ठ उवाच ।श्रूयतां मम यत्पृष्टस्त्वयाहं ब्रह्मवादिनि ।सुरूपता नृणां येन योषितां चोपजायते ११अनभ्यर्च्य यथान्यायमनाराध्य च केशवम् ।रूपादिका गुणाः केन प्राप्यन्तेऽन्येन कर्मणा १२तस्मादाराधनीयो वै विष्णुरेव यशस्विनि ।परत्र प्राप्तुकामेन रूपसम्पत्सुतादिकम् १३यस्तु वाञ्छति धर्मज्ञे रूपं सर्वाङ्गशोभनम् ।नक्षत्रपुरुषस्तेन सम्पूज्यः पुरुषोत्तमः १४नक्षत्राङ्गं यथाहारः समुपोष्यति यो हरिम् ।सुरूपैरखिलाङ्गैश्च रूपवानभिजायते १५योषिता च परं रूपमिच्छन्त्या जगतः पतिः ।स एवाराधनीयोऽत्र नक्षत्राङ्गो जनार्दनः १६अरुन्धत्युवाच ।नक्षत्ररूपी भगवान्पूज्यते पुरुषोत्तमः ।मुने येन विधानेन तन्ममाख्यातुमर्हसि १७वसिष्ठ उवाच ।चैत्रमासं समारभ्य विष्णोः पादादिपूजनम् ।यथा कुर्वीत रूपार्थी तन्निशामय तत्त्वतः १८नक्षत्रमेकमेकं वै स्नातः सम्यगुपोषितः ।नक्षत्रपुरुषस्याङ्गं पूजयेत्साध्वी चक्रिणः १९मूले पादौ तथा जङ्घे रोहिणीष्वर्चयेच्छुभे ।जानुनी चाश्विनीयोग आषाढे चोरुसञ्ज्ञिते २०फाल्गुनीद्वितये गुह्यं कृत्तिकासु तथा कटिम् ।पार्श्वे भद्रपदायुग्मे द्वे कुक्षी रेवतीषु च २१अनुराध उरः पृष्ठं श्रविष्ठास्वभिपूजयेत् ।भुजयुग्मं विशाखासु हस्ते चैव करद्वयम् २२पुनर्वसावङ्गुलींश्च आश्लेषासु तथा नखान् ।ज्येष्ठायां पूजयेद्ग्रीवं श्रवणे श्रवणे तथा २३पुष्ये मुखं तथा स्वातौ दशनानभिपूजयेत् ।हन्वौ शतभिषायोगे मघायोगे च नासिकाम् २४मृगोत्तमाङ्गे नयने पूजयेद्भक्तितः शुभे ।चित्रायोगे ललाटं च भरण्यां च तथा शिरः ।सम्पूजनीया विद्वद्भिश्चाद्रासु च शिरोरुहाः २५नक्षत्रयोगेष्वेतेषु पूजितो जगतः पतिः ।नक्षत्रपुरुषाख्योऽयं यथावत्पुरुषोत्तमः २६पापापहारं कुरुते सम्यच्छ्रद्धावतां सताम् ।अङ्गोपाङ्गानि चैवास्य पापादीनि यशस्विनि २७सुरूपान्यभिजायन्ते सप्त जन्मान्तराणि वै ।सर्वाणि चैव भद्राणि शरीरारोग्यमुत्तमम् २८सन्ततिं मनसः प्रीतिं रूपं चातीवशोभनम् ।वाङ्माधूर्यं तथा कान्तिं यच्चान्यदभिवाञ्छितम् २९ददाति नक्षत्रपुमान्पूजितश्च जनार्दनः ।उपोष्य सम्यगेतेषु क्रमेण र्क्षेषु शोभने ३०सम्पूजनीयो भगवान्नक्षत्राङ्गो जनार्दनः ।गन्धपुष्पादिसंयुक्तं पूजयित्वा यदाविधि ।जानुभ्यां धरणीं गत्वा इदं चोदाहरेत्ततः ।स्वरूपमारोग्यमतीव वर्चसं सुसन्ततिं त्वस्थितभक्तिमच्युताम् ।अपि सर्वमेतं प्रोतं सूत्रे मणिगणा इव ।एकपुरुष महापुरुष ऋक्षपुरुष नमोऽस्तु ते ।प्रतिनक्षत्रयोगे च भोजनीया द्विजोत्तमाः ३१नक्षत्रज्ञाय विप्राय दद्याद्दानं च शक्तितः ।पारिते च पुनर्दद्यात्स्त्रीपूंसां चारुहासिनि ३२छत्त्रोपानद्युगं चैव सप्तधान्यं सकाञ्चनम् ।घृतपात्रं च धर्मज्ञे यच्चान्यदतिवल्लभम् ३३स्त्री वा साध्वी सदा विष्णोराराधनपरायणा ।अनेनैव विधानेन सम्पूज्यैतदवाप्नुयात् ३४इति विष्णुधर्मेषु नक्षत्रपुरुषव्रतं नामैकोनत्रिंशोऽध्यायः । N/A References : N/A Last Updated : February 19, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP