संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १७

विष्णुधर्माः - अध्याय १७

विष्णुधर्माः


अथ सप्तदशोऽध्यायः ।
पुलस्त्य उवाच ।
एवं पुरा याज्ञवल्क्यः पृष्टः पत्न्या महामुनिः ।
आचष्ट पुण्यफलदमुपवासविधिं परम् १

तथा त्वमपि विप्रर्षे केशवाराधने रतः ।
व्रतोपवासपरमो भवेथा नान्यमानसः २

पुनश्चैतन्महाभाग श्रूयतां गदतो मम ।
प्रोक्तं नरेण देवानां तिथिमाहात्म्यमुत्तमम् ३

विजयातिजया चैव जयन्ती पापनाशनी ।
तथोत्तरायणं शस्तं सर्वदा केशवार्चने ४

यदन्यकाले वर्षेण केशवाल्लभ्यते फलम् ।
सकृदेवार्चिते कृष्णे तदेतास्वपि लभ्यते ५

दाल्भ्य उवाच ।
विजयातिजया चैव जयन्ती पापनाशनी ।
तथोत्तरायणं चैव यच्छस्तं केशवार्चने ६

तत्सर्वं कथयेहाद्य तिथिमाहात्म्यमुत्तमम् ।
यत्र सम्पूजितः कृष्णः सर्वपापं व्यपोहति ७

पुलस्त्य उवाच ।
एकादश्यां सिते पक्षे पुष्यर्क्षं यत्र सत्तम ।
तिथौ भवति सा प्रोक्ता विष्णुना पापनाशनी ८

तस्यां सम्पूज्य गोविन्दं जगतामीश्वरेश्वरम् ।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ९

यश्चोपवासं कुरुते तस्यां स्नातो द्विजोत्तम ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते १०

दानं यद्दीयते किञ्चित्समुद्दिश्य जनार्दनम् ।
होमो वा क्रियते तस्यामक्षयं लभते फलम् ११

एका ऋग्देवपुरतो जप्ता श्रद्धावता तथा ।
ऋग्वेदस्य समस्तस्य जपता यच्छते फलम् १२

सामवेदफलं साम यजुर्वेदफलं यजुः ।
जप्तमेकं मुनिश्रेष्ठ ददात्यत्र न संशयः १३

तारका दिवि राजन्ते द्योतमाना द्विजोत्तम ।
समभ्यर्च्य तिथावस्यां देवदेवं जनार्दनम् १४

यतः पापमशेषं वै नाशयत्यत्र केशवः ।
पुष्यर्क्षैकादशी ब्रह्मंस्तेनोक्ता पापनाशनी १५

इति विष्णुधर्मेषु पुष्यर्क्षैकादशी ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP