संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ५२ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ५२ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ५२ Translation - भाषांतर अथ द्विपञ्चाशोऽध्यायः ।भगवानुवाच ।पुराणं मानवा धर्माः साङ्गो वेदश्चिकित्सितम् ।आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ।हत्वा ह्येतानि सम्मूढः कल्पं तमसि पच्यते १न ब्राह्मणं परीक्षेत श्राद्धकाले ह्युपस्थिते ।सुमहान्परिवादो हि ब्राह्मणानां परीक्षणे २काणाः कुण्ठाश्च षण्डाश्च दरिद्राव्याधितास्तथा ।सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ।अक्षयं तु भवेच्छ्राद्धमेतद्धर्मविदो विदुः ३ब्राह्मणो हि महद्भूतं जन्मना सह जायते ।लोका लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ४ब्राह्मणाः कुपिता हन्युर्भस्म कुर्युश्च तेजसा ।लोकानन्यान्सृजेयुश्च लोकपालांस्तथापरान् ५ब्राह्मणा हि महात्मानो विरजाः स्वर्गसङ्क्रमाः ।ब्राह्मणानां परीवादादसुराः सलिलेशयाः ६अपेयः सागरो यैस्तु कृतः कोपान्महात्मभिः ।येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ७एते स्वर्गस्य नेतारो भूमिदेवाः सनातनाः ।एभिश्चाधिकृतः पन्था देवयानः स उच्यते ८ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम् ।ते वै लोकानिमान्सर्वान्धारयन्ति परस्परम् ९प्रमाणं सर्वलोकानां नियता ब्रह्मचारिणः ।तानपाश्रित्य तिष्ठन्ते त्रयो लोकाः सनातनाः १०गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ।विद्यास्नाता व्रतस्नाता अनपाश्रित्यजीविनः ११आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः ।तपसा दीप्यमानास्ते दहेयुः सागरानपि १२ब्राह्मणेषु च तुष्टेषु तुष्यन्ते सर्वदेवताः ।ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ।ब्राह्मणानां परीवादात्पतेयुरपि देवताः १३धुरि ये नावसीदन्ति प्रणीते यज्ञवह्नयः ।भोजनाच्छादनैर्दानैस्तारयन्ति तपोधनाः १४ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः ।आदिमध्यावसानानां ज्ञानानां छिन्नसांशयाः १५परापरविशेषज्ञा नेतारः परमां गतिम् ।अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा १६यश्च सर्वमिदं हन्याद्ब्राह्मणं वापि तत्समम् ।सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः ।भूतानां अग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः १८न स्कन्दते न व्यथते न च नश्यति कर्हिचित् ।वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम् ११अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम् ।प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् २०एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ।श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ।हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति २१सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतं महत् ।तस्मात्सर्वप्रयत्नेन रक्षेदापत्सु ब्राह्मणान् ।शक्रोऽपि हि द्विजेन्द्राणां बिभेति विबुधाधिपः २२इति विष्णुधर्मेषु विप्रमाहात्म्यम् । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP