संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ७० विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ७० विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ७० Translation - भाषांतर अथ सप्ततितमोऽध्यायः ।शौनक उवाच ।इत्यसावात्मरक्षार्थं न्यस्तवान्विष्णुपञ्जरम् ।तेनासाध्यः स दुष्टानां बभूव नृप रक्षसाम् १एतयारक्षया रक्षो निर्धूतं भुवि पातितम् ।जप्यावसाने विप्रोऽसौ ददर्श विगतौजसम् २दृष्ट्वा च कृपयाविष्टः समाश्वास्य निशाचरम् ।पप्रच्छागमने हेतुं तं चाचष्ट यथातथम् ।कथयित्वा च तत्सर्वं राक्षसः पुनरब्रवीत् ३प्रसीद विप्रवर्य त्वं निर्विण्णस्यातिपापिनः ।पापप्रशमनायालमुपदेशं प्रयच्छ मे ४बहूनि पापानि मया कृतानि बहवो हताः ।कृताः स्त्रियश्च मे बह्व्यो विधवा हतपुत्रिकाः ।अनागसां च सत्त्वानामनेकानां क्षयः कृतः ५सोऽहमिच्छामि विप्रर्षे प्रसादात्तव सुव्रत ।पापस्यास्य क्षयं कर्तुं कुरु मे धर्मदेशनाम् ६ब्राह्मण उवाच ।कथं क्रूरस्वभावस्य सतस्तव निशाचर ।सहसैव समायाता जिज्ञासा धर्मवर्त्मनि ७राक्षस उवाच ।त्वामत्तुमागतः क्षिप्तो रक्षया कृतया त्वया ।तत्संस्पर्शाच्च मे ब्रह्मन्साध्वेतन्मनसि स्थितम् ८का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् ।किन्त्वस्याः सङ्गमासाद्य निर्वेदं प्रापितं परम् ९स कृपां कुरु धर्मज्ञ मय्यनुक्रोशमावह ।यथा पापापनोदो मे भवत्यार्य तथा कुरु १०इत्येवमुक्तः स मुनिः सदयस्तेन रक्षसा ।प्रत्युवाच महाभाग विमृश्य सुचिरं तदा ११ब्राह्मण उवाच ।यत्त्वमात्थोपदेशार्थं निर्विण्णः स्वेन कर्मणा ।युक्तमेतन्न पापानां निवृत्तेरुपकारकम् १२करिष्ये यातुधानानां न त्वहं धर्मदेशनाम् ।तांस्त्वं पृच्छ द्विजान्सौम्य ये वै प्रवचने रताः १३एवमुक्त्वा ययौ विप्रश्चिन्तामाप च राक्षसः ।कथं पापापनोदः स्यादित्यसौ व्याकुलेन्द्रियः १४न तदा खादते सत्त्वान्क्षुधा सम्पीडितोऽपि सन् ।षष्ठे षष्ठे तदा काले जन्तुमेकमभक्षयत् १५स कदाचित्क्षुधाविष्टः पर्यटन्विपिने वने ।ददर्शाथ फलाहारमग्रतः कौशिकं द्विजम् १६तं जग्राह च भक्षार्थं षष्ठे काले बुभुक्षितः ।गुरोरर्थे फलाहारमागतं ब्रह्मचारिणम् १७गृहीतो रक्षसा तेन स तदा मुनिदारकः ।निराशो जीविते प्राह सामपूर्वं निशाचरम् १८ब्राह्मण उवाच ।भो भद्रमुख यत्कार्यं गृहीतोऽहमिह त्वया ।तद्ब्रवीहि यथातत्त्वमयमस्म्यनुशाधि माम् १९राक्षस उवाच ।षष्ठे काले ममाहारः क्षुधितस्य त्वमागतः ।निःशूकस्यातिपापस्य निर्घृणस्य द्विजद्रुहः २०ब्राह्मण उवाच ।यद्यवश्यं त्वयाध्याहं भक्षणीयो निशाचर ।आयास्यामि तदद्यैव निवेद्य गुरवे फलम् २१गुरुमूले तदागत्य यत्फलग्रहणं कृतम् ।ममात्र निष्ठां प्राप्तस्य तत्पापाय निवेदितम् २२स त्वं मुहूर्तमात्रं मामत्रैव प्रतिपालय ।निवेद्य गुरवे यावदिहागच्छाम्यहं फलम् २३राक्षस उवाच ।षष्ठे काले न मे ब्रह्मन्कश्चिद्ग्रहणमागतः ।प्रमुच्यते निबोधैतदिति मे पापजीविकाम् २४एक एवात्र मोक्षस्य तव हेतुः शृणुष्व तम् ।मुञ्चाम्यहमसन्दिग्धं यदि तत्कुरुते भवान् २५ब्राह्मण उवाच ।गुरोर्यन्न विरोधाय यन्न धर्मोपरोधकम् ।तत्करिष्याम्यहं रक्षो यन्न व्रतहरं मम २६राक्षस उवाच ।मया निसर्गतो ब्रह्मञ्जातिदोषाद्विशेषतः ।निर्विवेकेन पापेन पापं कर्म सदा कृतम् २७आ बाल्यान्मम पापेषु न पुण्येषु रतं मनः ।तत्पापसञ्चयान्मोक्षं प्राप्नुयां येन तद्वद २८यानि पापानि कर्माणि बालत्वाच्चरितानि मे ।दुष्टां योनिमिमां प्राप्य तन्मुक्तिं कथय द्विज २९यद्येतद्द्विजपुत्र त्वं ममाख्यास्यस्यशेषतः ।तत्क्षुधार्तात्समार्तस्त्वं नियतं मोक्षमाप्स्यसि ३०न चैतत्पापशीलोऽहमद्य त्वां क्षुत्पिपासितः ।षष्ठे काले नृशंसात्मा भक्षयिष्यामि निर्घृणः ३१शौनक उवाच ।एवमुक्तो मुनिसुतस्तेन घोरेण रक्षसा ।चिन्तामवाप महतीमशक्तस्तदुदीरितुम् ३२विमृश्य सुचिरं विप्रः शरणं जातवेदसम् ।जगाम ज्ञानदानाय संशयं परमं गतः ३३यदि शुश्रूषितो वह्निर्गुरोः शुश्रूषणादनु ।व्रतानि वा सुचीर्णानि सप्तार्चिः पातु मां ततः ३४न मातरं न पितरं गौरवेण यथा गुरुम् ।यथाहमवगच्छामि तथा मां पातु पावकः ३५यथा गुरुं न मनसा कर्मणा वचसापि वा ।अवजानाम्यहं तेन पातु सत्येन पावकः ३६शौनक उवाच ।इत्येवं शपथान्सत्यान्कुर्वतस्तस्य तत्पुनः ।सप्तार्चिषा समादिष्टा प्रादुरासीत्सरस्वती ।सा चोवाच द्विजसुतं राक्षसग्रहणाकुलम् ३७मा भैर्द्विजसुताहं त्वां मोक्षयाम्यतिसङ्कटात् ३८यदस्य रक्षसः श्रेयो जिह्वाग्रेऽहं स्थिता तव ।तत्सर्वं कथयिष्यामि ततो मोक्षमवाप्स्यसि ३९अदृश्या रक्षसा तेन प्रोक्त्वेत्थं तं सरस्वती ।अदर्शनमिता सोऽपि द्विजः प्राह निशाचरम् ४०श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम् ।समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ४१प्राअरुत्थाय सततं मध्याह्नेऽह्नः क्षयेऽपि वा ।अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ४२हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् ।प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ४३विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम् ।प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ४४विष्णुमच्युतमीशानमनन्तमपराजितम् ।प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ४५चराचरगुरुं नाथं गोविन्दं शेषशायिनम् ।प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ४६गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम् ।प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ४७शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम् ।प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ४८दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम् ।प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ४९नारायणं नरं शौरिं माधवं मधुसूदनम् ।प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ५०केशवं केशिहन्तारं कंसारिष्टनिसूदनम् ।प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ५१श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् ।प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ५२यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् ।वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ५३समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम् ।ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ५४सर्वगं सर्वभूतं च सर्वस्याधातमीश्वरम् ।वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ५५परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः ।कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ५६पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् ।न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ५७ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम् ।यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ५८ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः ।सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ५९ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् ।स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ६०यः पाति सृष्टं च विभुः स्थितावसुरसूदनः ।तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६१धृता मही हता दैत्याः परित्रातास्तथामराः ।येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ६२यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् ।तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६३वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि ।तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ६४कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत् ।तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ६५पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः ।तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ६६सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत् ।यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ६७सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः ।यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ६८समस्तदेवाः सकला मानुषाणां च जातयः ।यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ६९वृक्षगुल्मादयो यस्य तथा पशुमृगादयः ।एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ७०यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि ।यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ७१यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च ।विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ७२यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम् ।यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ७३प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा ।अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ७४यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः ।सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ७५तिष्ठता व्रजता यच्च शय्यासनगतेन च ।कृतं यदशुभं कर्म कायेन मनसा गिरा ७६अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात् ।तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ७७परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् ।परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ७८यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु ।तद्यातु विलयं तोये यथा लवणभाजनम् ७९यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम ।वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ८०तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात् ।प्रयातु विलयं तोये यथा लवणभाजनम् ८१विष्णवे वासुदेवाय हरये केशवाय च ।जनार्दनाय कृष्णाय नमो भूयो नमो नमः ८२इदं सारस्वतं स्तोत्रमशेषाघविनाशनम् ।पठतां शृण्वतां चैव सर्वपापविनाशनम् ८३इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम् ।जपत्येकमनाः पापं समस्तं स व्यपोहति ८४यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः ।जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ८५शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा ।कृतं तेन तु यत्पापं सप्त जन्मान्तराणि वै ८६महापातकमल्पं वा तथा यच्चोपपातकम् ।सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ८७विप्राय सुविशिष्टाय तिलपात्राणि षोडश ।अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ८८अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः ।विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ८९यथैनं पठति नित्यं स्तवं सारस्वतं पुमान् ।अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि ।यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा ।राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ९०एवमुच्चारिते मुक्तः स तदा तेन रक्षसा ।अकामेन द्विजो भूयस्तमाह रजनीचरम् ९१एतद्भद्रमुखाख्यातं तव पातकनाशनम् ।विष्णोः सारस्वतं स्तोत्रं यज्जगाद सरस्वती ९२हुताशनेन प्रहिता मम जिह्वाग्रसंस्थिता ।जगादेमं स्तवं विष्णोः सर्वपापप्रशान्तिदम् ९३अनेनैव जगन्नाथं त्वमाराधय केशवम् ।ततः पापापनोदं तु स्तुते प्राप्स्यसि केशवे ९४अहर्निशं हृषीकेशं स्तवेनानेन राक्षस ।स्तौहि भक्तिं परां कृत्वा ततः पापाद्विमोक्ष्यसे ९५स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम् ।भक्त्या राक्षसशार्दूल सर्वपापहरो हरिः ९६शौनक उवाच ।ततः प्रणम्य तं विप्रं प्रसाद्य च निशाचरः ।शालग्रामं महाराज तदैव तपसे ययौ ९७तत्राहर्निशमेवैतज्जपञ्जप्यं नराधिप ।देवक्रियारतिर्भूत्वा तपस्तेपे स राक्षसः ९८आराध्य च जगन्नाथं स तत्र पुरुषोत्तमम् ।सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्तवान् ९९तथा त्वमपि राजर्षे सर्वपापप्रशान्तिदम् ।आराधय हृषीकेशं जपन्सारस्वतं स्तवम् १००य एतत्परमं स्तोत्रं वासुदेवस्य मानवः ।पठिष्यति स सर्वेभ्यः पापेभ्यो मोक्षमाप्स्यति १०१इति विष्णुधर्मेषु सारस्वतस्तवः । N/A References : N/A Last Updated : February 22, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP