संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ६१ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ६१ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ६१ Translation - भाषांतर अथैकषष्टितमोऽध्यायः ।भगवानुवाच ।अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।न तत्फलमवाप्नोति सङ्ग्रामे यदवाप्नुयात् १इति यज्ञविदः प्राहुर्यज्ञकर्मविशारदाः ।तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम् २धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ।यः शूरो वध्यते युद्धे विमृदन्परवाहिनीम् ।तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ३परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति ।विष्णुक्रान्तं स यजत एवं युध्यन्रणाजिरे ।अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा ४यस्तु शस्त्रमनुत्सृज्य वीर्यवान्वाहिनीमुखे ।सम्मुखो वर्तते शूरः स स्वर्गान्न विवर्तते ५राजानं राजपुत्रं वा सेनापतिमथापि वा ।हन्यात्क्षत्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ६यावन्ति तस्य शस्त्राणि भिन्दन्ति त्वचमाहवे ।तावतो लभते लोकान्सर्वकामदुघोऽक्षयान् ७वीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा ।गवार्थे ब्राह्मणार्थे वा स्वाम्यर्थे तु कृतं च यैः ।ते गच्छन्त्यमलं स्थानं यथा सुकृतिनस्तथा ८अभग्नं यः परं हन्याद्भग्नं च परिरक्षति ।यस्मिन्स्थिते पलायन्ति सोऽपि प्राप्नोति स्वर्गतिम् ९ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्सन्त्यजते युधि ।हताश्वश्च पतेद्युद्धे स स्वर्गान्न निवर्तते १०यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः ।देवकन्यास्तु तं वीरं रमयन्ति रमन्ति च ११वराप्सरःसहस्राणि शूरमायोधने हतम् ।त्वरितान्यभिधावन्ति मम भर्ता ममेति च १२हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः ।ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत् १३भूयो गतिं प्रवक्ष्यामि रणे येऽभिमुखा हताः ।शक्यं त्विह समृद्धैस्तु यष्टुं क्रतुशतैर्नरैः ।आत्मदेहं तु विप्रार्थे त्यक्तुं युद्धे सुदुष्करम् १५यां यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणस्तत्र चयैः प्रयान्ति ।क्षणेन तामेव गतिं प्रयान्ति महाहवे स्वां तनुं सन्त्यजन्तः १६सर्वांश्च वेदान्सह षड्भिरङ्गैः ।साङ्ख्यं च योगं च वने च वासम् ।एतान्गुणानेक एवातिशेते ।सङ्ग्रामधाम्न्यात्मतनुं त्यजेद्यः १७इमां गिरं चित्रपदां शुभाक्षरां ।सुभाषितां वृतभिदां दिवौकसाम् ।चमूमुखे यः स्मरते दृढस्मृतिर् ।न हन्यते हन्ति च सोऽरणे रिपून् १८एष पुण्यतमः स्वर्ग्यः सुयज्ञः सर्वतोमुखः ।सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः १९भूयश्चैव प्रवक्ष्यामि भीष्मवाक्यमनुत्तमम् ।यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत् २०आततायिनमायान्तमपि वेदान्तगं रणे ।जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् २१हताश्वश्च न हन्तव्यः पानीयं यश्च याचते ।व्याधितो दुर्बलश्चैव रथहीनस्तथैव च २२भग्नधन्वाच्छिनगुणः प्राणेप्सुः कृपणं ब्रुवन् ।विमुक्तकेशो धावेद्यो यश्चोन्मत्ताकृतिर्भवेत् २३पर्णशाखातृणग्राही तवास्मीति च यो वदेत् ।ब्राह्मणोऽस्मीति यश्चाह बालो वृद्धो नपुंसकः २४तस्मादेतान्परिहरेद्यथोद्दिष्टान्रणाजिरे ।हतो न हन्यते सद्भिर्हता एव हि भीरवः २५इति विष्णुधर्मेषु सङ्ग्रामप्रशंसा ।N/A N/A References : N/A Last Updated : February 22, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP