संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ३२ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ३२ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ३२ Translation - भाषांतर N/Aअथ द्वात्रिंशोऽध्यायः ।पुलस्त्य उवाच ।दीपं प्रयच्छति नरो विष्णोरायतने हि यः ।सदक्षिणस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् १कार्त्तिके तु विशेषेण कौमुदे मासि दीपकम् ।दत्त्वा यत्फलमाप्नोति दाल्भ्य तत्केन लभ्यते २दाल्भ्यान्यदपि वक्ष्यामि पुरावृत्तमिदं शृणु ।विदर्भराजतनया ललिता यदुवाच ह ३विदर्भराट्चित्ररथो बभूवास्त्रविशारदः ।तस्य पुत्रशतं राज्ञो जज्ञे पञ्चदशोत्तरम् ४एकैव कन्या दाल्भ्यासील्ललिता नामनामतः ।सर्वलक्षणसम्पूर्णा भ्रातॄणां पितुरेव च ५समस्तभृत्यवर्गस्य मातॄणां स्वजनस्य च ।तथैव पौरवर्गस्य यश्चान्यो ददृशे शुभाम् ।तस्य तस्यातिचार्वङ्गी बभूवेष्टा द्विजोत्तम ६तां ददौ काशिराजाय स पिता चारुवर्मने ।उपयेमे च तां सुभ्रूं चारुवर्मा महीपतिः ७शतान्यन्यानि भार्याणां त्रीण्यासंश्चारुवर्मणः ।तासां मध्येऽग्रमहिषी ललिता तस्य चाभवत् ८सा च नित्यं जगद्धातुर्देवदेवस्य चक्रिणः ।दीपवर्तिपरा तद्वत्तैलस्याहरणोद्यता ९विष्णोरायतने तस्याः सहस्रं द्विजसत्तम ।दीपानां वै प्रजज्वाल दिवारात्रमतन्द्रितम् १०तस्या द्युतिपराभूतास्तस्या लावण्यनिर्जिताः ।सर्वाः सपत्न्यो ललितां पप्रच्छुरिदमादितः ११सपत्न्य ऊचुः ।ललिते वद भद्रंते भद्रंते ललिते वद ।कौतूहलपराः सर्वा यत्पृच्छामस्तदुच्यताम् १२ललितोवाच ।विषये सति वक्तव्यं यन्मया तदिहोच्यताम् ।नाहं मत्सरिणी भद्रान च रागादिदूषिता १३भवत्यो मम सर्वासां भवतीनामहं तथा ।अपृथग्भर्तृसामन्या देवलोकाभिकामुकाः १४सपत्न्य ऊचुः ।पूर्वं यूयमहं चैव भवतीनां सधर्मिणी ।न तथा पुष्पधूपेषु न तथा द्विजपूजने ।प्रयत्नं तव पश्यामो विष्णोरायतने शुभे १५यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि ।तव दीपप्रदानाय यथा सुभ्रु सदोद्यमः १६तदेतत्कथयास्माकं ललिते कौतुकं परम् ।मन्यामो दीपदानस्य भवत्या विदितं फलम् १७पुलस्त्य उवाच ।एवमुक्ता ततस्ताभिर्ललिता ललितं वचः ।व्याजहार सपत्नीस्ता न किञ्चिदपि भामिनी १८पुनः पुनश्च सा ताभिर्बहुषो दाल्भ्य चोदिता ।दाक्षिण्यसारा ललिता कथायामास भामिनी १९कौतुकं भवतीनां चेदतीवाल्पेऽपि वस्तुनि ।तदेषा कथयाम्येतद्यद्वृत्तं मम शोभनाः २०सौवीरराजस्य पुरा मैत्रेयोऽभूत्पुरोहितः ।तेन चायतनं विष्णोः कारितं देविकातटे २१अहन्यहनि शुश्रूषां पुष्पधूपोपलेपनैः ।दीपदानादिभिश्चैव चक्रे तत्र स वै द्विजः २२कार्त्तिके दीपको ब्रह्मन्प्रदत्तस्तेन वै तदा ।आसीन्निर्वाणभूयिष्ठो देवार्चापुरतो निशि २३देवतायतने चासं तत्राहमपि मूषिका ।प्रदीपवर्तिहरणे कृतबुद्धिर्वराननाः २४गृहीता च मया वर्तिर्वृषदंशो ननाद च ।नष्टा चाहं तदा तस्य मार्जारस्य भयातुरा २५वर्तिप्रान्तेन नश्यन्त्या स दीपः प्रेरितो मया ।जज्वाल पूर्ववद्दीप्त्या तस्मिन्नायतने पुनः २६मृताहं च ततो जाता वैदर्भी राजकन्यका ।जातिस्मरा कान्तिमती भवतीनां समा गुणैः २७एष प्रभावो दीपस्य कार्त्तिके मासि शोभनाः ।दत्तस्य विष्ण्वायतने यस्येयं व्युष्टिरुत्तमा २८असङ्कल्पितमप्यस्य प्रेरणं यत्कृतं मया ।विष्ण्वायतनदीपस्य यस्येदं भुज्यते फलम् २९लोभाभिभूता हर्तुं तं प्रदीपमहमागता ।अवशेनैव तद्वर्त्या प्रेरणं तत्र मे कृतम् ३०ततो जातिस्मृतिर्जन्म मानुष्यं शोभनं वपुः ।वश्यः पतिः पृथिवीशः किं पुनर्दीपदायिनाम् ३१एतस्मात्कारणाद्दीपानहमेतानहर्निशम् ।प्रयच्छामि हरेर्धाम्नि ज्ञातमस्य हि यत्फलम् ३२भवतीनामिदं सत्यं मयोक्तं केशवालये ।मूषिकत्वादहं येन कर्मणा सिद्धिमागता ३३पुलस्त्य उवाच ।एष प्रभावो दीपस्य कार्त्तिके मासि सत्तम ।विष्ण्वायतनदत्तस्य जगाद ललिता यथा ३४दिने दिने जगन्नाथ केशवेति समाहितः ।ददाति कार्त्तिके यस्तु विष्ण्वायतनदीपकम् ३५जातिस्मरत्वं प्रज्ञां च प्राकाश्यं सर्ववस्तुषु ।अव्याहतेन्द्रियत्वं च सम्प्राप्नोति न संशयः ३६शेषकाले च चक्षुष्मान्मेधावी दीपदो नरः ।जायते नरकं वापि तमःसञ्ज्ञं न पश्यति ३७एकादशीं द्वादशीं वा प्रतिपक्षं च यो नरः ।दीपं ददाति कृष्णाय तस्यापि शृणु यत्फलम् ३८सुवर्णमणिमुक्ताढ्यं मनोज्ञमतिशोभनम् ।दीपमालाकुलं दिव्यं विमानं सोऽधिरोहति ३९तस्मादायतने विष्णोर्दद्याद्दीपं द्विजोत्तम ।तांश्च दत्तान्न हिंसेत न च तैलवियोजितान् ।कुर्वीत दीपहर्ता तु मूकोऽन्धो जायते यतः ४०जायते नरकं चापि तपःसञ्ज्ञं स पश्यति ।अन्धे तामसि दुष्पारे नरके पतितान्किल ।विक्रोशमानान्क्षुत्क्षामाञ्जगाद यमकिङ्करः ४१विलापैरलमत्रापि किं वो विलपिते फलम् ।यदा प्रमादिभिः पूर्वमात्मात्यन्तमुपेक्षितः ४२पूर्वमालोचितं नैतत्किमप्यन्ते भविष्यति ।इदानीं यातनाभोगः किं विलापः करिष्यति ४३देहो दिनानि स्वल्पानि विषयाश्चातिदुर्धराः ।एतत्को न विजानाति येन यूयं प्रमादिनः ४४जन्तुजन्मसहस्रेभ्य एतस्मिन्मानुष्यो यदि ।तत्राप्यतिविमूढत्वात्किं भोगानभिधावति ४५विरुद्धविषयास्वादमुदितैर्हसितं च यत् ।भवद्भिरागतं दुःखं विलापपरिणामिकम् ४६अद्यकालिकया बुद्ध्या यदागामि न चिन्तितम् ।परितापाय तज्जातं दुःखं कर्मविपाकजम् ४७स्वल्पमायुर्मनुष्याणां तदन्ते परतन्त्रता ।भुज्यते च कृतं पूर्वमेतत्किं वो न चिन्तितम् ४८यदभूत्परदारेषु प्रीतयेऽङ्गकुचादिकम् ।यातनादुःखरूपाय नरके च तदागतम् ४९परदारमनोहारि यद्भवद्भिरगीयत ।हा मात इत्यादि रुतं तदिदानीं विलप्यते ५०सन्दिग्धपरलोकानामैहिके निहतात्मनाम् ।मृतानां स्वकृतं कर्म पश्चात्तापाय केवलम् ५१मुहूर्तार्धसुखास्वादलुब्धानामकृतात्मनाम् ।अनेकवर्षकोटिषु दुःखदं कर्म जायते ५२हा मातस्तात तातेति भवद्भिः किं विलप्यते ।शुभाशुभं निजं कर्म तदद्य ह्यत्र भुज्यते ५३पुत्रदारगृहक्षेत्रहिताय सततोद्यताः ।न कुर्वत्नि कथं मूढाः स्वल्पमप्यात्मनो हितम् ५४वञ्चितोऽसौ मया लब्धमिदमस्मादुपायतः ।न वेत्ति कश्चिदात्मार्थं वेत्ति प्रक्रमतो नरः ५६न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च ।साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च ५७जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम् ।तदर्थं यत्कृतं कर्म तस्य जन्मशतानि तत् ५८अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि ।क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् ५९एवमाकृष्टचित्तानां विषयास्वादतर्षुलैः ।नॄणां न जायते बुद्धिः परमार्थावलोकिनी ।तथा च विषयासक्तिं करोत्यविरतं मनः ६०कोऽतिभारो हरेर्नाम्नि जिह्वायाः परिकीर्तने ।वर्तितैलेऽल्पमौल्येऽपि यदग्निर्लभ्यते मुधा ।अतोऽधिकतरो लोभः को वश्चित्तेऽभवत्तदा ६२येनेयं तेषु हस्तेषु स्वातन्त्र्! ये सति दीपकः ।महाफलो विष्णुगृहे न दत्तो नरकापहः ६३न वो विलपिते किञ्चिदिदानीं दृश्यते फलम् ।अस्वातन्त्र्! ये विलपतां स्वातन्त्र्! येऽतिप्रमादिनाम् ६४अवश्यम्पातिनः प्राणा भोक्ता जीवो ह्यहर्निशम् ।दत्तं च लभते भोक्ता समये विषयानिति ६५एतत्स्वातन्त्र्! यवद्भिर्वो युक्तमासीत्परीक्षितुम् ।इदानीं किं विलापेन सहध्वं यदुपागतम् ६६यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् ।तद्भूयोऽपि मतिः पापे न कर्तव्या कथञ्चन ६७कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम् ।कर्तव्यमव्यवस्थितं स्मरद्भिर्मधुसूदनम् ६८पुलस्त्य उवाच ।नारकास्तद्वचः श्रुत्वा तामूचुरतिदुःखिताः ।क्षुत्क्षामकण्ठास्तृषया परिस्फुटिततालुकाः ६९भो भो साधो कृतं कर्म यदस्माभिस्तदुच्यताम् ।नरकस्थैर्विपाकोऽयं भुज्यते यस्य दारुणः ७०किङ्कर उवाअ ।युष्माभिर्यौवनोन्मादमुदितैरविवेकिभिः ।द्यूतोद्योताय गोविन्दगृहाद्दीपः पुरा हृतः ७१तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः ।भवन्तः पतितास्तीव्रशीतवातविदारिताः ७२पुलस्त्य उवाच ।एतत्ते दीपदानस्य प्रदीपहरणस्य च ।पुण्यं पापं च कथितं केशवायतने द्विज ७३सर्वत्रैव हि दीपस्य प्रदानं द्विज शस्यते ।विशेषेण जगद्धातुः केशवस्य निवेशने ७४येऽन्धा मूका निःश्रुता निर्विवेका हीनास्तैस्तैः साधनैर्विप्रवर्य ।तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतो विप्रणीताः ७५इति विष्णुधर्मेषु दीपदानविधिर्नाम द्वात्रिंशोऽध्यायः । N/A References : N/A Last Updated : February 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP