संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ७३ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ७३ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ७३ Translation - भाषांतर अथ त्रिसप्ततितमोऽध्यायः ।शतानीक उवाच ।जगत्प्रभुं देवदेवमशेषेशं जनार्दनम् ।प्रणिपत्याहमेतं त्वां यत्पृच्छामि तदुच्यताम् १यैरुपायैः प्रदानैर्वा नराणाममरार्चितः ।प्रीतिमान्पुण्डरीकाक्षो भवत्याचक्ष्व तन्मम २शौनक उवाच ।ये स्वधर्मे स्थिता वर्णा विप्राद्याः कुरुनन्दन ।विधर्मेषु न वर्तन्ते प्रीतिमांस्तेषु केशवः ३ब्रह्मचारिगृहस्थाद्या न च्यवन्त्याश्रमाच्च ये ।स्वधर्मतो हरिस्तेषां प्रीतिमानेव सर्वदा ४ये न दम्भेन वर्तन्ते नरा भूतेष्वलोलुपाः ।त्यक्तग्राम्यादिसङ्गाश्च तेषु प्रीतिः परा हरेः ५दातारो नापहर्तारः परस्वानाममायिनः ।ये नरास्तेषु गोविन्दः पुत्रेष्विव सदा हितः ६येषां नराणां न मतिर्जिह्वा वासत्यमुज्झति ।ते प्रिया वासुदेवस्य ये च द्विजपरायणाः ७कर्मणा मनसा वाचा ये न हिंसानुवर्तिनः ।ते नरा वासुदेवस्य आः पाण्डुकुलोद्वह ८सर्वदेवेषु ये विष्णुं सर्वभूतेष्ववस्थितम् ।मन्यन्ते वासुदेवस्य ते प्रियाः पुत्रवत्सदा ९ब्रह्माद्यं स्थावरान्तं च भूतग्रामं जनार्दनात् ।ये च पश्यन्त्यभेदेन ते विष्णोः सततं प्रियाः १०देववेदद्विजातीनां निन्दायां ये न मानवाः ।प्रीतिभाजो भवन्तीष्टास्ते सदा शार्ङ्गधन्विनः ११प्रियाणामथ सर्वेषां देवदेवस्य स प्रियः ।आपत्स्वपि सदा यस्य भक्तिरव्यभिचारिणी १२तस्मात्प्रियत्वं कृष्णस्य वाञ्छता निजधर्मजैः ।गुणैरात्मा सदा योज्यो न दूरे गुणिनो हरिः १३येषां न गृद्धिः पारक्ये दारे द्रव्ये च चेतसः ।हिंसायां च मनुष्याणां ते कृष्णेनावलोकिताः १४वेदाः प्रमाणं स्मृतयो येषां सन्मार्गसेविनाम् ।परोपकारसक्तानां ते कृष्णेनावलोकिताः १५कलिकल्मषदोषेण येषां नोपहता मतिः ।पाषण्डानुगता नैव ते कृष्णेनावलोकिताः १६येषां क्लेशो गुरोरर्थे देवविप्रोद्भवोऽपि वा ।न विवित्सासमुद्भूतस्ते कृष्णेनावलोकिताः १७स्वपन्तः संस्थिता यान्तस्तिष्ठन्तश्च जनार्दनम् ।ये चिन्तयन्त्यविरतं ते कृष्णेनावलोकिताः १८यथात्मनि तथापत्ये येषां अद्रोहिणी मतिः ।समस्तसत्त्वजातेषु ते कृष्णेनावलोकिताः १९देवपूजामनुदिनं गुरुविप्रार्थसत्क्रियाम् ।ये कुर्वन्ति नरा विद्धि ते कृष्णेनावलोकिताः २०सुवर्णं रत्नमथवा पारक्यं विजने वने ।विलोक्य नैति यो लोभं तं अवैहि हरेः प्रियम् २१देवान्पितॄंस्तथापन्नानतिथीञ्जामयोऽध्वगान् ।यो बिभर्ति विजानीहि तं नरं भगवत्प्रियम् २२न क्रोधमेति क्रुद्धेभ्यः सहते यो निराक्रियाम् ।तं विजानीहि भर्तव्यं देवदेवस्य शार्ङ्गिनः २३परलोकप्रतीकारकरणाय सदोद्यमम् ।कुर्वन्नालक्ष्यतामेति केशवेनावलोकितः २४नात्मसंस्तवमन्येषां न निन्दां चार्थलिप्सया ।करोति पुरुषव्याघ्र यस्य नारायणो हृदि २५सर्वभूतदयां सत्यमक्रोधं धर्मशीलताम् ।भजन्ते पुरुषा देवे गोविन्दे हृदये स्थिते २६न कलौ न परद्रव्ये परदाराश्रिता मतिः ।नराणां जायते राजन्गोविन्दे हृदयस्थिते २७क्षमां करोति क्रुद्धेषु दयां मूढेषु मानवः ।मुदं च धर्मशीलेषु गोविन्दे हृदये स्थिते २८यदा बिभेत्यधर्मादेर्धर्मादींश्च यदेच्छति ।तदा कुरुवरश्रेष्ठ नरः कृष्णेन वीक्षितः २९पुत्रदारगृहक्षेत्रद्रव्यादेर्ममतां नरः ।नायास्यति जगन्नाथे हृषीकेशे पराङ्मुखे ३०कलौ कृतयुगं तेषां क्लेशास्तेषां सुखाधिकाः ।येषां शरीरग्रहणे हरिशुश्रूषणे मतिः ३१यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति ।ज्ञेयस्तदा मनुष्येण हृदयेऽस्य हरिः स्थितः ३२परमार्थे मतिः पुंसामसारे तु भवार्णवे ।कथं भवति राजेन्द्रविष्वक्सेन पराङ्मुखे ३३श्रद्दधानो दयाशीलः समलोष्टाश्मकाञ्चनः ।परार्थे मानवः कृष्णे प्रसन्ने नृप जायते ३४वहतोऽपि सदा कृष्णे भक्तिमव्यभिचारिणीम् ।पाणिष्वसमदृग्बुद्धेः सुलभो नैव केशवः ३५ये दाम्भिका भिन्नवृत्ता ये च धर्मध्वजोच्छ्रयाः ।दुर्लभो भगवान्देवस्तेषां सुयततामपि ३६कामलोभाश्रितं येषां चित्तं क्रोधादिदूषितम् ।तेषां जन्मसहस्रेऽपि न मतिः केशवाश्रया ३७हेयां कृष्णाश्रयां वृत्तिं मन्यन्ते हेतुसंश्रिताः ।अवियोपहतज्ञाना येऽज्ञाने ज्ञानमानिनः ३८वेदवादविरोधेन कूटयुक्तिमपाश्रिताः ।ये केशवस्तद्धृदये न कदाचित्प्रियातिथिः ३९मानुषं तं मनुष्यत्वे मन्यमानाः कुबुद्धयः ।कर्माणि येऽस्य निन्दन्ति न तेषां निष्कृतिर्नृणाम् ४०केचिद्वदन्ति तं देवं मनुष्यं चाल्पमेधसः ।तिर्यक्त्वं चापरे विष्णुं मायया तस्य मोहिताः ४१देवत्वमपि कृष्णस्य यस्य निन्दा महात्मनः ।स्तुतिं तस्य कथं शक्ताः कर्तुमीशस्य मानवाः ४२व्यापित्वं शाश्वतत्वं च जन्मभावविवर्जितम् ।यदास्य प्रोच्यते कास्य स्तुतिरर्थे तथा स्थितौ ४३सर्वेश्वरेश्वरः कृष्णः प्रोच्यते यदि पण्डितः ।तथापि स्वल्पमेवोक्तं भूतार्थे कतमा स्तुतिः ४४आब्रह्मस्तम्बपर्यन्ते संसारे यस्य संस्थितिः ।निन्दापि तस्य न नृभिः कर्तुमीशस्य शक्यते ४५यदा काणाश्च कूण्ठाश्च मूढो दुर्बुद्धिरातुरः ।सर्वगत्वात्स एवैकस्तदासौ निन्द्यते कथम् ४६स्रष्टा पालयिता हर्ता जगतोऽस्य जगच्च सः ।यष्टा याजयिता याज्यः स एव भगवान्हरिः ४७दाता दानं तथादाता कर्ता कार्यं तथा क्रियाः ।हन्ता घातयिता हिंस्यो हार्यं हर्ता च यः स्वयम् ४८सर्वकारणभूतस्य तस्येशस्य महात्मनः ।कः करोति स्तुतिं विष्णोर्निन्दां वा पृथिवीपते ४९तस्मात्सर्वेश्वरो विष्णुर्न स्तोतुं न च निन्दितुम् ।शक्यते सर्वभूतत्वाच्चोक्षाचोक्षस्वरूपिणा ५०स्तुतेः पादाद्यतो नान्यदुत्कृष्टमुपलभ्यते ।तस्याप्युच्चारणेनेशो न स्तोतुं शक्यते हरिः ५१भूतार्थवादस्तुतये न निन्दायै विधीयते ।यतोऽतः सर्वभूतस्य का निन्दा तस्य का स्तुतिः ५२येन सर्वात्मना तत्र हृदयं सन्निवेशितम् ।अपि मौनवतस्तस्य सुलभोऽयं जनार्दनः ५३तस्मात्त्वं कुरुशार्दूल स्वधर्मपरिपालनम् ।कुरु विष्णुं च हृदये सर्वव्यापिनमीश्वरम् ५४तन्मना भव तद्भक्तस्तद्याजी तं नमस्कुरु ।विष्णोरेवं प्रियत्वं त्वमाशु यास्यसि पार्थिव ५५यं स्तुवन्स्तव्यतामेति वन्द्यमानश्च वन्द्यताम् ।तमीश्वरेश्वरं विष्णुं हृदये सन्निवेशय ५६सम्पूज्य यं पूज्यतमो भवत्यत्र जगत्त्रये ।तमीश्वरेश्वरं विष्णुं हृदये कुरु पार्थिव ५७स्ववर्णकर्माभिरतः कुरु चित्ते जनार्दनम् ।एष शास्त्रार्थसद्भावः किमुक्तैर्बहुविस्तरैः ५८यस्मिन्प्रसन्नचित्तस्त्वं यस्मिन्कोपमुपैषि च ।तावुभावपि तद्भूतौ चिन्तयन्सिद्धिमेष्यसि ५९यत्र यत्र स्थितं चेतः प्रीत्या स्नेहेन वा तव ।तं तं चिन्तय गोविन्दं मनसः स्थैर्यकारणात् ६०स्वपन्विबुद्ध्यन्नुत्तिष्ठन्स्थितो भुञ्जन्पिबन्व्रजन् ।सर्वगं सर्वकर्तारं विष्णुं सर्वत्र चिन्तय ६१यथाग्निसङ्गात्कनकमपदोषं प्रजायते ।संश्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ६२यज्विनो यं नमस्यन्ति यं नमस्यन्ति देवताः ।योगिनो यं नमस्यन्ति तं नमस्यं नमाम्यहम् ६३इति विष्णुधर्मेषु भक्तिवर्णनम् । N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP